कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे प्रथमः प्रश्नः - न्यूनकर्माभिधानं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
प्र॒जाप॑तिरकामयत प्र॒जा-स्सृ॑जे॒येति॒ स तपो॑-ऽतप्यत॒ स स॒र्पान॑सृजत॒ सो॑-ऽकामयत प्र॒जा-स्सृ॑जे॒येति॒ सद्वि॒तीय॑मतप्यत॒ स वयाग्॑स्य सृजत॒ सो॑-ऽकामयत प्र॒जा-स्सृ॑जे॒येति॒ स तृ॒तीय॑मतप्यत॒ स ए॒त-न्दी᳚क्षितवा॒द-म॑पश्य॒-त्तम॑वद॒-त्ततो॒ वै स प्र॒जा अ॑सृजत॒ य-त्तप॑स्त॒प्त्वा दी᳚क्षितवा॒दं-वँद॑ति प्र॒जा ए॒व तद्यज॑मान- [तद्यज॑मानः, सृ॒ज॒ते॒ यद्वै] 1
-स्सृजते॒ यद्वै दी᳚क्षि॒तो॑-ऽमे॒द्ध्य-म्पश्य॒त्यपा᳚स्माद्दी॒क्षाक्रा॑मति॒ नील॑मस्य॒ हरो॒ व्ये᳚त्यब॑द्ध॒-म्मनो॑ द॒रिद्र॒-ञ्चक्षु॒-स्सूर्यो॒ ज्योति॑षा॒ग्॒श्रेष्ठो॒ दीक्षे॒ मा मा॑हासी॒रित्या॑ह॒ नास्मा᳚द्दी॒क्षा-ऽप॑क्रामति॒ नास्य॒ नील॒-न्न हरो॒ व्ये॑ति॒ यद्वै दी᳚क्षि॒तम॑भि॒वर्ष॑तिदि॒व्या आपो-ऽशा᳚न्ता॒ ओजो॒ बल॑-न्दी॒क्षा- [बल॑-न्दी॒क्षाम्, तपो᳚-ऽस्य॒-] 2
-न्तपो᳚-ऽस्य॒-निर्घ्न॑न्त्युन्द॒ती-र्बल॑-न्ध॒त्तौजो॑ धत्त॒ बल॑-न्धत्त॒ मा मे॑ दी॒क्षा-म्मा तपो॒निर्व॑धि॒ष्टेत्या॑है॒ तदे॒व सर्व॑मा॒त्म-न्ध॑त्ते॒ नास्यौजो॒ बल॒-न्न दी॒क्षा-न्न तपो॒निर्घ्न॑न्त्य॒ग्निर्वै दी᳚क्षि॒तस्य॑ दे॒वता॒ सो᳚-ऽस्मादे॒तर्हि॑ति॒र इ॑व॒ यर्हि॒ याति॒ तमी᳚श्व॒रग्ं रक्षाग्ं॑सि॒ हन्तो᳚- [हन्तोः᳚, भ॒द्राद॒भि-] 3
-र्भ॒द्राद॒भि-श्रेयः॒ प्रेहि॒बृह॒स्पतिः॑ पुर ए॒ता ते॑ अ॒स्त्वित्या॑ह॒ब्रह्म॒ वै दे॒वाना॒-म्बृह॒स्पति॒स्तमे॒वान्वा र॑भते॒ स ए॑न॒ग्ं॒ स-म्पा॑रय॒त्ये दम॑गन्म देव॒यज॑न-म्पृथि॒व्या इत्या॑ह देव॒यज॑न॒ग्ग्॒ ह्ये॑ष पृ॑थि॒व्या आ॒गच्छ॑ति॒ यो यज॑ते॒ विश्वे॑ दे॒वा यदजु॑षन्त॒ पूर्व॒ इत्या॑ह॒ विश्वे॒ ह्ये॑तद्दे॒वा जो॒षय॑न्ते॒ यद्ब्रा᳚ह्म॒णा ऋ॑ख्सा॒माभ्यां॒-यँजु॑षा स॒न्तर॑न्त॒ इत्या॑हर्ख्सा॒माभ्या॒ग्॒ ह्ये॑ष यजु॑षा स॒न्तर॑ति॒ यो यज॑ते रा॒यस्पोषे॑ण॒ समि॒षा-म॑दे॒मेत्या॑-हा॒-ऽशिष॑मे॒वै तामा शा᳚स्ते ॥ 4 ॥
(यज॑मानो - दी॒क्षाग्ं - हन्तो᳚ - र्ब्राह्म॒णा -श्चतु॑र्विग्ंशतिश्च) (अ. 1)
ए॒ष ते॑ गाय॒त्रो भा॒ग इति॑ मे॒ सोमा॑य ब्रूतादे॒ष ते॒ त्रैष्टु॑भो॒ जाग॑तो भा॒ग इति॑ मे॒ सोमा॑य ब्रूताच्छन्दो॒माना॒ग्ं॒ साम्रा᳚ज्य-ङ्ग॒च्छेति॑ मे॒ सोमा॑य ब्रूता॒-द्यो वै सोम॒ग्ं॒ राजा॑न॒ग्ं॒ साम्रा᳚ज्यं-लोँ॒क-ङ्ग॑मयि॒त्वा क्री॒णाति॒ गच्छ॑ति॒ स्वाना॒ग्ं॒ साम्रा᳚ज्य॒-ञ्छन्दाग्ं॑सि॒ खलु॒ वै सोम॑स्य॒ राज्ञ॒-स्साम्रा᳚ज्यो लो॒कः पु॒रस्ता॒-थ्सोम॑स्य क्र॒यादे॒वम॒भि म॑न्त्रयेत॒ साम्रा᳚ज्यमे॒वै- [साम्रा᳚ज्यमे॒व, ए॒नं॒-लोँ॒क-ङ्ग॑मयि॒त्वा] 5
नं॑-लोँ॒क-ङ्ग॑मयि॒त्वा क्री॑णाति॒ गच्छ॑ति॒ स्वाना॒ग्ं॒ साम्रा᳚ज्यं॒-योँ वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठां-वेँद॒ प्रत्ये॒व ति॑ष्ठति ब्रह्मवा॒दिनो॑ वदन्ति॒ न प्रा॒श्ञन्ति॒ न जु॑ह्व॒त्यथ॒ क्व॑ तानून॒प्त्र-म्प्रति॑ तिष्ठ॒तीति॑ प्र॒जाप॑तौ॒ मन॒सीति॑ ब्रूया॒-त्त्रिरव॑ जिघ्रे-त्प्र॒जाप॑तौ त्वा॒ मन॑सि जुहो॒मीत्ये॒षा वै ता॑नून॒प्त्रस्य॑ प्रति॒ष्ठा य ए॒वं-वेँद॒ प्रत्ये॒व ति॑ष्ठति॒ यो [प्रत्ये॒व ति॑ष्ठति॒ यः, वा अ॑द्ध्व॒र्योः] 6
वा अ॑द्ध्व॒र्योः प्र॑ति॒ष्ठां-वेँद॒ प्रत्ये॒व ति॑ष्ठति॒ यतो॒ मन्ये॒तान॑भिक्रम्य होष्या॒मीति॒ त-त्तिष्ठ॒न्ना श्रा॑वयेदे॒षा वा अ॑द्ध्व॒र्योः प्र॑ति॒ष्ठा य ए॒वं-वेँद॒ प्रत्ये॒व ति॑ष्ठति॒ यद॑भि॒क्रम्य॑ जुहु॒या-त्प्र॑ति॒ष्ठाया॑ इया॒-त्तस्मा᳚-थ्समा॒नत्र॒ तिष्ठ॑ता होत॒व्य॑-म्प्रति॑ष्ठित्यै॒ यो वा अ॑द्ध्व॒र्यो-स्स्वं-वेँद॒ स्ववा॑ने॒व भ॑वति॒ स्रुग्वा अ॑स्य॒ स्वं-वाँ॑य॒व्य॑मस्य॒ [वा॑य॒व्य॑मस्य, स्व-ञ्च॑म॒सो᳚-ऽस्य॒] 7
स्व-ञ्च॑म॒सो᳚-ऽस्य॒ स्वं-यँद्वा॑य॒व्यं॑-वाँ चम॒सं-वाँ-ऽन॑न्वारभ्या-ऽऽश्रा॒वये॒-थ्स्वादि॑या॒-त्तस्मा॑ दन्वा॒रभ्या॒ ऽऽश्राव्य॒ग्ग्॒ स्वादे॒व नैति॒ यो वै सोम॒म- प्र॑तिष्ठाप्य स्तो॒त्र-मु॑पाक॒रोत्य प्र॑तिष्ठित॒-स्सोमो॒ भव॒त्यप्र॑तिष्ठित॒-स्स्तोमो- ऽप्र॑तिष्ठिता-न्यु॒क्थान्यप्र॑तिष्ठितो॒ यज॑मा॒नो ऽप्र॑तिष्ठितो ऽध्व॒र्युर्वा॑ य॒व्यं॑-वैँ सोम॑स्य प्रति॒ष्ठा च॑म॒सो᳚-ऽस्य प्रति॒ष्ठा सोम॒-स्स्तोम॑स्य॒ स्तोम॑ उ॒क्थाना॒-ङ्ग्रहं॑-वाँ गृही॒त्वा च॑म॒सं-वोँ॒न्नीय॑ स्तो॒त्रमु॒पा कु॑र्या॒-त्प्रत्ये॒व सोमग्ग्॑ स्था॒पय॑ति॒ प्रति॒स्तोम॒-म्प्रत्यु॒क्थानि॒ प्रति॒ यज॑मान॒स्तिष्ठ॑ति॒ प्रत्य॑द्ध्व॒र्युः ॥ 8 ॥
(ए॒व - ति॑ष्ठति॒ यो - वा॑य॒व्य॑मस्य॒ - ग्रहं॒-वैँ - का॒न्न - विग्ं॑श॒तिश्च॑) (अ. 2)
य॒ज्ञं-वाँ ए॒त-थ्स-म्भ॑रन्ति॒ य-थ्सो॑म॒क्रय॑ण्यै प॒दं-यँ॑ज्ञमु॒खग्ं ह॑वि॒र्धाने॒ यर्हि॑ हवि॒र्धाने॒ प्राची᳚ प्रव॒र्तये॑यु॒स्तर्हि॒ तेनाक्ष॒मुपा᳚-ञ्ज्या-द्यज्ञमु॒ख ए॒व य॒ज्ञमनु॒ सन्त॑नोति॒ प्राञ्च॑म॒ग्नि-म्प्र ह॑र॒न्त्यु-त्पत्नी॒मा न॑य॒न्त्यन्वनाग्ं॑सि॒ प्र व॑र्तय॒न्त्यथ॒ वा अ॑स्यै॒ष धिष्णि॑यो हीयते॒ सो-ऽनु॑ ध्यायति॒ स ई᳚श्व॒रो रु॒द्रो भू॒त्वा [ ] 9
प्र॒जा-म्प॒शून्. यज॑मानस्य॒ शम॑यितो॒र्यर्हि॑ प॒शुमा प्री॑त॒मुद॑ञ्च॒-न्नय॑न्ति॒ तर्हि॒ तस्य॑ पशु॒श्रप॑णग्ं हरे॒-त्तेनै॒वैन॑-म्भा॒गिन॑-ङ्करोति॒ यज॑मानो॒ वा आ॑हव॒नीयो॒ यज॑मानं॒-वाँ ए॒तद्वि क॑र्षन्ते॒ यदा॑हव॒नीया᳚-त्पशु॒श्रप॑ण॒ग्ं॒ हर॑न्ति॒ स वै॒व स्यान्नि॑र्म॒न्थ्यं॑-वाँ कुर्या॒-द्यज॑मानस्य सात्म॒त्वाय॒ यदि॑ प॒शोर॑व॒दान॒-न्नश्ये॒दाज्य॑स्य प्रत्या॒ख्याय॒मव॑ द्ये॒-थ्सैव ततः॒ प्राय॑श्चित्ति॒र्ये प॒शुं-विँ॑मथ्नी॒रन्. यस्तान् का॒मये॒ता ऽऽर्ति॒मार्च्छे॑यु॒रिति॑ कु॒विद॒ङ्गेति॒ नमो॑ वृक्तिवत्य॒र्चा-ऽऽग्नी᳚द्ध्रे जुहुया॒न्नमो॑ वृक्तिमे॒वैषां᳚-वृँङ्क्ते ता॒जगार्ति॒मार्च्छ॑न्ति ॥ 10 ॥
(भू॒त्वा - ततः॒ - षड्विग्ं॑शतिश्च) (अ. 3)
प्र॒जाप॑ते॒र्जाय॑मानाः प्र॒जा जा॒ताश्च॒ या इ॒माः । तस्मै॒ प्रति॒ प्र वे॑दयचिकि॒त्वाग्ं अनु॑ मन्यताम् ॥ इ॒म-म्प॒शु-म्प॑शुपते ते अ॒द्य ब॒द्ध्नाम्य॑ग्ने सुकृ॒तस्य॒ मद्ध्ये᳚ । अनु॑ मन्यस्व सु॒यजा॑ यजाम॒ जुष्ट॑-न्दे॒वाना॑मि॒दम॑स्तु ह॒व्यम् ॥ प्र॒जा॒नन्तः॒ प्रति॑गृह्णन्ति॒ पूर्वे᳚ प्रा॒णमङ्गे᳚भ्यः॒ पर्या॒चर॑न्तम् । सुव॒र्गं-याँ॑हि प॒थिभि॑ र्देव॒यानै॒-रोष॑धीषु॒ प्रति॑तिष्ठा॒ शरी॑रैः ॥ येषा॒मीशे॑ [येषा॒मीशे॑, प॒शु॒पतिः॑] 11
पशु॒पतिः॑ पशू॒ना-ञ्चतु॑ष्पदामु॒त च॑ द्वि॒पदा᳚म् । निष्क्री॑तो॒-ऽयं-यँ॒ज्ञिय॑-म्भा॒गमे॑तु रा॒यस्पोषा॒ यज॑मानस्य सन्तु ॥ ये ब॒द्ध्यमा॑न॒मनु॑ ब॒द्ध्यमा॑ना अ॒भ्यैक्ष॑न्त॒ मन॑सा॒ चक्षु॑षा च । अ॒ग्निस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविँदा॒नः ॥ य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पा॒ विरू॑पा॒-स्सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः प्र॒जाप॑तिः प्र॒जया॑ संविँदा॒नः ॥ प्र॒मु॒ञ्चमा॑ना॒ [प्र॒मु॒ञ्चमा॑नाः, भुव॑नस्य॒ रेतो॑] 12
भुव॑नस्य॒ रेतो॑ गा॒तु-न्ध॑त्त॒ यज॑मानाय देवाः । उ॒पाकृ॑तग्ं शशमा॒नं-यँदस्था᳚ज्जी॒व-न्दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ नाना᳚ प्रा॒णो यज॑मानस्य प॒शुना॑ य॒ज्ञो दे॒वेभिः॑ स॒ह दे॑व॒यानः॑ । जी॒व-न्दे॒वाना॒मप्ये॑तु॒ पाथः॑ स॒त्या-स्स॑न्तु॒ यज॑मानस्य॒ कामाः᳚ ॥ य-त्प॒शुर्मा॒युमकृ॒तोरो॑ वा प॒द्भिरा॑ह॒ते । अ॒ग्निर्मा॒ तस्मा॒देन॑सो॒विश्वा᳚-न्मुञ्च॒त्वग्ंह॑सः ॥ शमि॑तार उ॒पेत॑न य॒ज्ञ- [य॒ज्ञम्, दे॒वेभि॑रिन्वि॒तम् ।] 13
-न्दे॒वेभि॑रिन्वि॒तम् । पाशा᳚-त्प॒शु-म्प्रमु॑ञ्चत ब॒न्धाद्य॒ज्ञप॑ति॒-म्परि॑ ॥ अदि॑तिः॒ पाश॒-म्प्रमु॑मोक्त्वे॒त-न्नमः॑ प॒शुभ्यः॑ पशु॒पत॑ये करोमि ॥ अ॒रा॒ती॒यन्त॒-मध॑र-ङ्कृणोमि॒ य-न्द्वि॒ष्मस्तस्मि॒-न्प्रति॑ मुञ्चामि॒ पाश᳚म् ॥ त्वामु॒ ते द॑धिरे हव्य॒वाहग्ं॑ शृतङ्क॒र्तार॑मु॒त य॒ज्ञिय॑-ञ्च । अग्ने॒ सद॑क्ष॒-स्सत॑नु॒र्॒हि भू॒त्वा-ऽथ॑ ह॒व्या जा॑तवेदो जुषस्व ॥ जात॑वेदो व॒पया॑ गच्छ दे॒वान्त्वग्ं हि होता᳚ प्रथ॒मो ब॒भूथ॑ । घृ॒तेन॒ त्व-न्त॒नुवो॑ वर्धयस्व॒ स्वाहा॑कृतग्ं ह॒विर॑दन्तु दे॒वाः ॥ स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒-स्स्वाहा᳚ ॥ 14 ॥
(ईशे᳚ - प्रमु॒ञ्चमा॑ना - य॒ज्ञं - त्वग्ं - षोड॑श च) (अ. 4)
प्रा॒जा॒प॒त्या वै प॒शव॒स्तेषाग्ं॑ रु॒द्रो-ऽधि॑पति॒र्य-दे॒ताभ्या॑-मुपा क॒रोति॒ ताभ्या॑मे॒वैन॑-म्प्रति॒प्रोच्या-ऽऽल॑भत आ॒त्मनो-ऽना᳚व्रस्काय॒ द्वाभ्या॑मु॒पाक॑रोति द्वि॒पाद्यज॑मानः॒ प्रति॑ष्ठित्या उपा॒कृत्य॒ पञ्च॑ जुहोति॒ पाङ्क्ताः᳚ प॒शवः॑ प॒शूने॒वा व॑रुन्धेमृ॒त्यवे॒ वा ए॒ष नी॑यते॒ य-त्प॒शुस्तं-यँद॑न्वा॒रभे॑त प्र॒मायु॑को॒ यज॑मान-स्स्या॒न्नाना᳚ प्रा॒णो यज॑मानस्य प॒शुनेत्या॑ह॒ व्यावृ॑त्त्यै॒ [व्यावृ॑त्त्यै, य-त्प॒शुर्मा॒यु-] 15
य-त्प॒शुर्मा॒यु-मकृ॒तेति॑ जुहोति॒ शान्त्यै॒ शमि॑तार उ॒पेत॒नेत्या॑ह यथाय॒जुरे॒वैतद्व॒पायां॒-वाँ आ᳚ह्रि॒यमा॑णाया-म॒ग्नेर्मेधो-ऽप॑ क्रामति॒ त्वामु॒ ते द॑धिरे हव्य॒वाह॒मिति॑ व॒पाम॒भि जु॑होत्य॒ग्नेरे॒व मेध॒मव॑ रु॒न्धे-ऽथो॑ शृत॒त्वाय॑ पु॒रस्ता᳚-थ्स्वाहा कृतयो॒ वा अ॒न्ये दे॒वा उ॒परि॑ष्टा-थ्स्वाहाकृतयो॒-ऽन्ये स्वाहा॑ दे॒वेभ्यो॑ दे॒वेभ्य॒-स्स्वाहेत्य॒भितो॑ व॒पा-ञ्जु॑होति॒ ताने॒वोभया᳚-न्प्रीणाति ॥ 16 ॥
(व्यावृ॑त्त्या - अ॒भितो॑ व॒पां - पञ्च॑ च) (अ. 5)
यो वा अय॑थादेवतं-यँ॒ज्ञमु॑प॒चर॒त्या दे॒वता᳚भ्यो वृश्च्यते॒ पापी॑या-न्भवति॒ यो य॑थादेव॒तन्न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑या-न्भवत्याग्ने॒य्यर्चा ऽऽग्नी᳚द्ध्रम॒भि मृ॑शे-द्वैष्ण॒व्या ह॑वि॒र्धान॑माग्ने॒य्या स्रुचो॑ वाय॒व्य॑या वाय॒व्या᳚न्यैन्द्रि॒या सदो॑ यथादेव॒तमे॒व य॒ज्ञमुप॑ चरति॒ न दे॒वता᳚भ्य॒ आ वृ॑श्च्यते॒ वसी॑या-न्भवति यु॒नज्मि॑ ते पृथि॒वी-ञ्ज्योति॑षा स॒ह यु॒नज्मि॑ वा॒युम॒न्तरि॑क्षेण [वा॒युम॒न्तरि॑क्षेण, ते स॒ह] 17
ते स॒ह यु॒नज्मि॒ वाचग्ं॑ स॒ह सूर्ये॑ण ते यु॒नज्मि॑ ति॒स्रो वि॒पृच॒-स्सूर्य॑स्य ते । अ॒ग्निर्दे॒वता॑ गाय॒त्री छन्द॑ उपा॒ग्ं॒शोः पात्र॑मसि॒ सोमो॑ दे॒वता᳚ त्रि॒ष्टु-प्छन्दो᳚-ऽन्तर्या॒मस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॒ जग॑ती॒ छन्द॑ इन्द्रवायु॒वोः पात्र॑मसि॒ बृह॒स्पति॑-र्दे॒वता॑-ऽनु॒ष्टु-प्छन्दो॑ मि॒त्रावरु॑णयोः॒ पात्र॑मस्य॒श्विनौ॑ दे॒वता॑ प॒ङ्क्तिश्छन्दो॒-ऽश्विनोः॒ पात्र॑मसि॒ सूर्यो॑ दे॒वता॑ बृह॒ती [ ] 18
छन्दः॑ शु॒क्रस्य॒ पात्र॑मसि च॒न्द्रमा॑ दे॒वता॑ स॒तो बृ॑हती॒ छन्दो॑ म॒न्थिनः॒ पात्र॑मसि॒ विश्वे॑दे॒वा दे॒वतो॒ष्णिहा॒ छन्द॑ आग्रय॒णस्य॒ पात्र॑म॒सीन्द्रो॑ दे॒वता॑ क॒कुच्छन्द॑ उ॒क्थाना॒-म्पात्र॑मसि पृथि॒वी दे॒वता॑ वि॒राट् छन्दो᳚ ध्रु॒वस्य॒ पात्र॑मसि ॥ 19 ॥
(अ॒न्तरि॑क्षेण - बृह॒ती - त्रय॑स्त्रिग्ंशच्च) (अ. 6)
इ॒ष्टर्गो॒ वा अ॑द्ध्व॒र्युर्यज॑मानस्ये॒ष्टर्गः॒ खलु॒ वै पूर्वो॒-ऽर्ष्टुः, क्षी॑यत आस॒न्या᳚न्मा॒ मन्त्रा᳚-त्पाहि॒ कस्या᳚श्चिद॒भिश॑स्त्या॒ इति॑ पु॒रा प्रा॑तरनुवा॒काज्जु॑हुयादा॒त्मन॑ ए॒व तद॑द्ध्व॒र्युः पु॒रस्ता॒च्छर्म॑ नह्य॒ते-ऽना᳚र्त्यै संवेँ॒शाय॑ त्वोपवे॒शाय॑ त्वा गायत्रि॒या स्त्रि॒ष्टुभो॒ जग॑त्या अ॒भिभू᳚त्यै॒ स्वाहा॒ प्राणा॑पानौ मृ॒त्योर्मा॑ पात॒-म्प्राणा॑पानौ॒ मा मा॑ हासिष्ट-न्दे॒वता॑सु॒ वा ए॒ते प्रा॑णापा॒नयो॒- [ए॒ते प्रा॑णापा॒नयोः᳚, व्याय॑च्छन्ते॒] 20
-र्व्याय॑च्छन्ते॒ येषा॒ग्ं॒ सोमः॑ समृ॒च्छते॑ संवेँ॒शाय॑ त्वोपवे॒शाय॒ त्वेत्या॑ह॒ छन्दाग्ं॑सि॒ वै सं॑वेँ॒श उ॑पवे॒शश्छन्दो॑भिरे॒वास्य॒ छन्दाग्ं॑सि वृङ्क्ते॒ प्रेति॑व॒न्त्याज्या॑नि भवन्त्य॒भिजि॑त्यै म॒रुत्व॑तीः प्रति॒पदो॒ विजि॑त्या उ॒भे बृ॑हद्रथन्त॒रे भ॑वत इ॒यं-वाँव र॑थन्त॒रम॒सौ बृ॒हदा॒भ्यामे॒वैन॑म॒न्तरे᳚त्य॒द्य वाव र॑थन्त॒रग्ग् श्वो बृ॒हद॑द्या॒श्वा दे॒वैन॑म॒न्तरे॑ति भू॒तं- [भू॒तम्, वाव र॑थन्त॒र-] 21
-ँवाव र॑थन्त॒र-म्भ॑वि॒ष्य-द्बृ॒ह-द्भू॒ताच्चै॒वैन॑-म्भविष्य॒तश्चा॒न्तरे॑ति॒, परि॑मितं॒-वाँव र॑थन्त॒रमप॑रिमित-म्बृ॒ह-त्परि॑मिताच्चै॒वैन॒-मप॑रिमिताच्चा॒-ऽन्तरे॑ति विश्वामित्रजमद॒ग्नी वसि॑ष्ठेनास्पर्धेता॒ग्ं॒स ए॒तज्ज॒मद॑ग्नि र्विह॒व्य॑म पश्य॒-त्तेन॒ वै स वसि॑ष्ठस्येन्द्रि॒यं-वीँ॒र्य॑मवृङ्क्त॒ यद्वि॑ह॒व्यग्ं॑ श॒स्यत॑ इन्द्रि॒यमे॒व तद्वी॒र्यं॑-यँज॑मानो॒ भ्रातृ॑व्यस्य वृङ्क्ते॒ यस्य॒ भूयाग्ं॑सो यज्ञक्र॒तव॒ इत्या॑हु॒-स्स दे॒वता॑ वृङ्क्त॒ इति॒ यद्य॑ग्निष्टो॒म-स्सोमः॑ प॒रस्ता॒-थ्स्या-दु॒क्थ्य॑-ङ्कुर्वीत॒ यद्यु॒क्थ्यः॑ स्याद॑तिरा॒त्र-ङ्कु॑र्वीत यज्ञक्र॒तुभि॑रे॒वास्य॑ दे॒वता॑ वृङ्क्ते॒ वसी॑या-न्भवति ॥ 22 ॥
(प्रा॒णा॒पा॒नयो᳚ - र्भू॒तं - ँवृ॑ङ्क्ते॒ - ऽष्टाविग्ं॑शतिश्च) (अ. 7)
नि॒ग्रा॒भ्या᳚-स्स्थ देव॒श्रुत॒ आयु॑र्मे तर्पयत प्रा॒ण-म्मे॑ तर्पयतापा॒न-म्मे॑ तर्पयत व्या॒न-म्मे॑ तर्पयत॒ चक्षु॑र्मे तर्पयत॒ श्रोत्र॑-म्मे तर्पयत॒ मनो॑मे तर्पयत॒ वाच॑-म्मे तर्पयता॒-ऽऽत्मान॑-म्मे तर्पय॒ताङ्गा॑नि मे तर्पयत प्र॒जा-म्मे॑ तर्पयत प॒शू-न्मे॑ तर्पयत गृ॒हा-न्मे॑ तर्पयत ग॒णा-न्मे॑ तर्पयत स॒र्वग॑ण-म्मा तर्पयत त॒र्पय॑त मा [ ] 23
ग॒णा मे॒ मा वि तृ॑ष॒न्नोष॑धयो॒ वै सोम॑स्य॒ विशो॒ विशः॒ खलु॒ वै राज्ञः॒ प्रदा॑तोरीश्व॒रा ऐ॒न्द्र-स्सोमो-ऽवी॑वृधं-वोँ॒ मन॑सा सुजाता॒ ऋत॑प्रजाता॒ भग॒ इद्वः॑ स्याम । इन्द्रे॑ण दे॒वीर्वी॒रुधः॑ संविँदा॒ना अनु॑ मन्यन्ता॒ग्ं॒ सव॑नाय॒ सोम॒मित्या॒हौष॑धीभ्य ए॒वैन॒ग्ग्॒ स्वायै॑ वि॒श-स्स्वायै॑ दे॒वता॑यै नि॒र्याच्या॒भि षु॑णोति॒ यो वै सोम॑स्याभिषू॒यमा॑णस्य [सोम॑स्याभिषू॒यमा॑णस्य, प्र॒थ॒मो-ऽग्ं॑शु-] 24
प्रथ॒मो-ऽग्ं॑शु-स्स्कन्द॑ति॒ स ई᳚श्व॒र इ॑न्द्रि॒यं-वीँ॒र्य॑-म्प्र॒जा-म्प॒शून्. यज॑मानस्य॒ निर्ह॑न्तो॒स्तम॒भि म॑न्त्रये॒ता-ऽऽ मा᳚-ऽस्कान्थ्स॒ह प्र॒जया॑ स॒ह रा॒यस्पोषे॑णेन्द्रि॒य-म्मे॑ वी॒र्य॑-म्मा निव॑र्धी॒रित्या॒शिष॑मे॒वैतामा शा᳚स्त इन्द्रि॒यस्य॑ वी॒य॑र्स्य प्र॒जायै॑ पशू॒नामनि॑र्घाताय द्र॒फ्सश्च॑स्कन्द पृथि॒वीमनु॒ द्यामि॒मञ्च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ । तृ॒तीयं॒-योँनि॒मनु॑ स॒ञ्चर॑न्त-न्द्र॒फ्स-ञ्जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ॥ 25 ॥
(त॒र्पय॑त मा - ऽभिषू॒यमा॑णस्य॒ - यश्च॒ - दश॑ च) (अ. 8)
यो वै दे॒वा-न्दे॑वयश॒सेना॒र्पय॑ति मनु॒ष्या᳚-न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॒ भव॑ति मनुष्ययश॒सी म॑नु॒ष्ये॑षु॒ या-न्प्रा॒चीन॑-माग्रय॒णा-द्ग्रहा᳚-न्गृह्णी॒या-त्तानु॑पा॒ग्ं॒शु गृ॑ह्णीया॒द्यानू॒र्ध्वाग्स्तानु॑पब्दि॒मतो॑ दे॒वाने॒व तद्दे॑वयश॒सेना᳚र्पयति मनु॒ष्या᳚-न्मनुष्ययश॒सेन॑ देवयश॒स्ये॑व दे॒वेषु॑ भवति मनुष्ययश॒सी म॑नु॒ष्ये᳚ष्व॒ग्निः प्रा॑तस्सव॒ने पा᳚त्व॒स्मान्. वै᳚श्वान॒रो म॑हि॒ना वि॒श्वश॑म्भूः । स नः॑ पाव॒को द्रवि॑ण-न्दधा॒- [द्रवि॑ण-न्दधातु, आयु॑ष्मन्त-] 26
-त्वायु॑ष्मन्त-स्स॒हभ॑क्षा-स्स्याम ॥ विश्वे॑ दे॒वा म॒रुत॒ इन्द्रो॑ अ॒स्मान॒स्मि-न्द्वि॒तीये॒ सव॑ने॒ न ज॑ह्युः । आयु॑ष्मन्तः प्रि॒यमे॑षां॒-वँद॑न्तो व॒य-न्दे॒वानाग्ं॑ सुम॒तौ स्या॑म ॥ इ॒द-न्तृ॒तीय॒ग्ं॒ सव॑न-ङ्कवी॒नामृ॒तेन॒ ये च॑म॒समैर॑यन्त । ते सौ॑धन्व॒ना-स्सुव॑रानशा॒ना-स्स्वि॑ष्टि-न्नो अ॒भि वसी॑यो नयन्तु ॥ आ॒यत॑नवती॒र्वा अ॒न्या आहु॑तयो हू॒यन्ते॑-ऽनायत॒ना अ॒न्या या आ॑घा॒रव॑ती॒स्ता आ॒यतन॑वती॒र्या- [आ॒यतन॑वती॒र्याः, सौ॒म्यास्ता] 27
-स्सौ॒म्यास्ता अ॑नायत॒ना ऐ᳚न्द्रवाय॒व-मा॒दाया॑-ऽऽघा॒रमा घा॑रयेदद्ध्व॒रो य॒ज्ञो॑-ऽयम॑स्तु देवा॒ ओष॑धीभ्यः प॒शवे॑ नो॒ जना॑य॒ विश्व॑स्मै भू॒ताया᳚-ऽद्ध्व॒रो॑-ऽसि॒ स पि॑न्वस्व घृ॒तव॑द्देव सो॒मेति॑ सौ॒म्या ए॒व तदाहु॑तीरा॒यत॑नवतीः करोत्या॒यत॑नवा-न्भवति॒ य ए॒वं-वेँदाथो॒ द्यावा॑पृथि॒वी ए॒व घृ॒तेन॒ व्यु॑नत्ति॒ ते व्यु॑त्ते उपजीव॒नीये॑ भवत उपजीव॒नीयो॑ भवति॒ [भवति, य ए॒वं-वेँदै॒ष] 28
य ए॒वं-वेँदै॒ष ते॑ रुद्रभा॒गो य-न्नि॒रया॑चथा॒स्त-ञ्जु॑षस्व वि॒देर्गौ॑प॒त्यग्ं रा॒यस्पोषग्ं॑ सु॒वीर्यग्ं॑ संवँथ्स॒रीणाग्॑ स्व॒स्तिम् ॥ मनुः॑ पु॒त्रेभ्यो॑ दा॒यं-व्यँ॑भज॒-थ्स नाभा॒नेदि॑ष्ठ-म्ब्रह्म॒चर्यं॒-वँस॑न्त॒-न्निर॑भज॒-थ्स आ-ऽग॑च्छ॒-थ्सो᳚-ऽब्रवी-त्क॒था मा॒ निर॑भा॒गिति॒ न त्वा॒ निर॑भाक्ष॒मित्य॑-ब्रवी॒दङ्गि॑रस इ॒मे स॒त्रमा॑सते॒ ते [स॒त्रमा॑सते॒ ते, सु॒व॒र्गं-लोँ॒क-न्न] 29
सु॑व॒र्गं-लोँ॒क-न्न प्रजा॑नन्ति॒ तेभ्य॑ इ॒द-म्ब्राह्म॑ण-म्ब्रूहि॒ ते सु॑व॒र्गं-लोँ॒कं-यँन्तो॒ य ए॑षा-म्प॒शव॒स्ताग्स्ते॑ दास्य॒न्तीति॒ तदे᳚भ्यो-ऽब्रवी॒-त्ते सु॑व॒र्गं-लोँ॒कं-यँन्तो॒ य ए॑षा-म्प॒शव॒ आस॒-न्तान॑स्मा अददु॒स्त-म्प॒शुभि॒श्चर॑न्तं-यँज्ञवा॒स्तौ रु॒द्र आ-ऽग॑च्छ॒-थ्सो᳚-ऽब्रवी॒न्मम॒ वा इ॒मे प॒शव॒ इत्यदु॒र्वै - [ ] 30
मह्य॑मि॒मानित्य॑ब्रवी॒न्न वै तस्य॒ त ई॑शत॒ इत्य॑ब्रवी॒-द्य-द्य॑ज्ञवा॒स्तौ हीय॑ते॒ मम॒ वै तदिति॒ तस्मा᳚-द्यज्ञवा॒स्तु नाभ्य॒वेत्य॒ग्ं॒ सो᳚-ऽब्रवी-द्य॒ज्ञे मा ऽऽभ॒जाथ॑ ते प॒शू-न्नाभि मग्ग्॑स्य॒ इति॒ तस्मा॑ ए॒त-म्म॒न्थिनः॑ सग्ग् स्रा॒वम॑जुहो॒-त्ततो॒ वै तस्य॑ रु॒द्रः प॒शू-न्नाभ्य॑मन्यत॒ यत्रै॒त मे॒वं-विँ॒द्वा-न्म॒न्थिनः॑ सग्ग् स्रा॒व-ञ्जु॒होति॒ न तत्र॑ रु॒द्रः प॒शून॒भि म॑न्यते ॥ 31 ॥
(द॒धा॒त्वा॒ - यत॑नवती॒र्या - उ॑पजीव॒नीयो॑ भवति॒ - ते-ऽ - दु॒र्वै - यत्रै॒त - मेका॑दश च) (अ. 9)
जुष्टो॑ वा॒चो भू॑यास॒-ञ्जुष्टो॑ वा॒चस्पत॑ये॒ देवि॑ वाक् । यद्वा॒चो मधु॑म॒-त्तस्मि॑-न्मा धा॒-स्स्वाहा॒ सर॑स्वत्यै ॥ ऋ॒चा स्तोम॒ग्ं॒ सम॑र्धय गाय॒त्रेण॑ रथन्त॒रम् । बृ॒ह-द्गा॑य॒त्रव॑र्तनि ॥यस्ते᳚ द्र॒फ्स-स्स्कन्द॑ति॒ यस्ते॑ अ॒ग्ं॒शुर्बा॒हुच्यु॑तो धि॒षण॑योरु॒पस्था᳚त् । अ॒द्ध्व॒र्योर्वा॒ परि॒ यस्ते॑ प॒वित्रा॒-थ्स्वाहा॑कृत॒मिन्द्रा॑य॒ त-ञ्जु॑होमि ॥ यो द्र॒फ्सो अ॒ग्ं॒शुः प॑ति॒तः पृ॑थि॒व्या-म्प॑रिवा॒पा- [पृ॑थि॒व्या-म्प॑रिवा॒पात्, पु॒रो॒डाशा᳚-त्कर॒म्भात् ।] 32
-त्पु॑रो॒डाशा᳚-त्कर॒म्भात् । धा॒ना॒सो॒मान्म॒न्थिन॑ इन्द्र शु॒क्रा-थ्स्वाहा॑कृत॒मिन्द्रा॑य॒ त-ञ्जु॑होमि ॥ यस्ते᳚ द्र॒फ्सो मधु॑माग्ं इन्द्रि॒यावा॒न्-थ्स्वाहा॑कृतः॒ पुन॑र॒प्येति॑ दे॒वान् । दि॒वः पृ॑थि॒व्याः पर्य॒न्तरि॑क्षा॒-थ्स्वाहा॑ कृत॒मिन्द्रा॑य॒ त-ञ्जु॑होमि ॥ अ॒द्ध्व॒र्युर्वा ऋ॒त्विजा᳚-म्प्रथ॒मो यु॑ज्यते॒ तेन॒ स्तोमो॑ योक्त॒व्य॑ इत्या॑हु॒र्वाग॑ग्रे॒गा अग्र॑ एत्वृजु॒गा दे॒वेभ्यो॒ यशो॒ मयि॒ दध॑ती प्रा॒णा-न्प॒शुषु॑ प्र॒जा-म्मयि॑ [ ] 33
च॒ यज॑माने॒ चेत्या॑ह॒ वाच॑मे॒व तद्य॑ज्ञमु॒खे यु॑नक्ति॒ वास्तु॒ वा ए॒तद्य॒ज्ञस्य॑ क्रियते॒ यद्ग्रहा᳚-न्गृही॒त्वा ब॑हिष्पवमा॒नग्ं सर्प॑न्ति॒परा᳚ञ्चो॒ हि यन्ति॒ परा॑चीभि-स्स्तु॒वते॑ वैष्ण॒व्यर्चा पुन॒रेत्योप॑ तिष्ठते य॒ज्ञो वै विष्णु॑ र्य॒ज्ञमे॒वाक॒र्विष्णो॒ त्वन्नो॒ अन्त॑म॒-श्शर्म॑ यच्छ सहन्त्य । प्र ते॒ धारा॑ मधु॒श्चुत॒ उथ्स॑-न्दुह्रते॒ अक्षि॑त॒मित्या॑ह॒ यदे॒वास्य॒ शया॑नस्योप॒शुष्य॑ति॒ तदे॒वास्यै॒तेना ऽऽप्या॑ययति ॥ 34 ॥
(प॒रि॒वा॒पात् - प्र॒जा-म्मयि॑ - दुह्रते॒ - चतु॑र्दश च) (अ. 10)
अ॒ग्निना॑ र॒यिम॑श्ञव॒-त्पोष॑मे॒व दि॒वेदि॑वे । य॒शसं॑-वीँ॒रव॑त्तमम् ॥ गोमाग्ं॑ अ॒ग्ने-ऽवि॑माग्ं अ॒श्वी य॒ज्ञो नृ॒वथ्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः । इडा॑वाग्ं ए॒षो अ॑सुर प्र॒जावा᳚-न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्न-स्स॒भावान्॑ ॥ आप्या॑यस्व॒, सन्ते᳚ ॥ इ॒ह त्वष्टा॑रमग्रि॒यं-विँ॒श्वरू॑प॒मुप॑ ह्वये । अ॒स्माक॑मस्तु॒ केव॑लः ॥ तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒ण-स्स्य॑स्व । यतो॑ वी॒रः [यतो॑ वी॒रः, क॒र्म॒ण्यः॑ सु॒दक्षो॑] 35
क॑र्म॒ण्यः॑ सु॒दक्षो॑ यु॒क्तग्रा॑वा॒ जाय॑ते दे॒वका॑मः ॥शि॒वस्त्व॑ष्टरि॒हा-ऽऽ ग॑हि वि॒भुः पोष॑ उ॒तत्मना᳚ । य॒ज्ञेय॑ज्ञे न॒ उद॑व ॥ पि॒शङ्ग॑रूप-स्सु॒भरो॑ वयो॒धा-श्श्रु॒ष्टी वी॒रो जा॑यते दे॒वका॑मः । प्र॒जा-न्त्वष्टा॒ विष्य॑तु॒ नाभि॑म॒स्मे अथा॑ दे॒वाना॒मप्ये॑तु॒ पाथः॑ ॥ प्रणो॑दे॒ व्या, नो॑ दि॒वः ॥ पी॒पि॒वाग्ं स॒ग्ं॒ सर॑स्वत॒-स्स्तनं॒-योँ वि॒श्वद॑र्शतः । धुक्षी॒महि॑ प्र॒जामिष᳚म् ॥ 36 ॥
ये ते॑ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ । तेषा᳚-न्ते सु॒म्नमी॑महे ॥ यस्य॑ व्र॒त-म्प॒शवो॒ यन्ति॒ सर्वे॒ यस्य॑ व्र॒तमु॑प॒तिष्ठ॑न्त॒ आपः॑ । यस्य॑ व्र॒ते पु॑ष्टि॒पति॒र्निवि॑ष्ट॒स्तग्ं सर॑स्वन्त॒मव॑से हुवेम ॥ दि॒व्यग्ं सु॑प॒र्णं-वँ॑य॒स-म्बृ॒हन्त॑म॒पा-ङ्गर्भं॑-वृँष॒भमोष॑धीनाम् । अ॒भी॒प॒तो वृ॒ष्ट्या त॒र्पय॑न्त॒-न्तग्ं सर॑स्वन्त॒मव॑से हुवेम ॥ सिनी॑वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ । जु॒षस्व॑ ह॒व्य- [ह॒व्यम्, आहु॑त-म्प्र॒जा-न्दे॑वि] 37
-माहु॑त-म्प्र॒जा-न्दे॑वि दिदिड्ढि नः ॥ या सु॑पा॒णि-स्स्व॑ङ्गु॒रि-स्सु॒षूमा॑ बहु॒सूव॑री । तस्यै॑ वि॒श्पत्नि॑यै ह॒वि-स्सि॑नीवा॒ल्यै जु॑होतन ॥ इन्द्रं॑-वोँ वि॒श्वत॒स्परी, न्द्र॒-न्नरः॑ ॥ असि॑तवर्णा॒ हर॑य-स्सुप॒र्णा मिहो॒ वसा॑ना॒ दिव॒मु-त्प॑तन्ति ॥ त आ-ऽव॑वृत्र॒न्-थ्सद॑नानि कृ॒त्वा-ऽऽदि-त्पृ॑थि॒वी घृ॒तैर्व्यु॑द्यते ॥ हिर॑ण्यकेशो॒ रज॑सो विसा॒रे-ऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी॑मान् । शुचि॑भ्राजा उ॒षसो॒ [उ॒षसः॑, नवे॑दा॒ यश॑स्वती-] 38
नवे॑दा॒ यश॑स्वती-रप॒स्युवो॒ न स॒त्याः ॥ आ ते॑ सुप॒र्णा अ॑मिनन्त॒ एवैः᳚ कृ॒ष्णो नो॑नाव वृष॒भो यदी॒दम् । शि॒वाभि॒र्न स्मय॑मानाभि॒रा-ऽगा॒-त्पत॑न्ति॒ मिहः॑ स्त॒नय॑न्त्य॒भ्रा ॥ वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒थ्स-न्न मा॒ता सि॑षक्ति । यदे॑षां-वृँ॒ष्टिरस॑र्जि ॥ पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒-थ्सानु॑ रेजत स्व॒ने वः॑ । य-त्क्रीड॑थ मरुत [मरुतः, ऋ॒ष्टि॒मन्त॒] 39
ऋष्टि॒मन्त॒ आप॑ इव स॒द्ध्रिय॑ञ्चो धवद्ध्वे ॥ अ॒भि क्र॑न्द स्त॒नय॒ गर्भ॒मा धा॑ उद॒न्वता॒ परि॑ दीया॒ रथे॑न । दृति॒ग्ं॒ सु क॑र्ष॒ विषि॑त॒-न्न्य॑ञ्चग्ं स॒मा भ॑वन्तू॒द्वता॑ निपा॒दाः ॥ त्व-न्त्या चि॒दच्यु॒ता-ऽग्ने॑ प॒शुर्न यव॑से । धामा॑ ह॒ य-त्ते॑ अजर॒ वना॑ वृ॒श्चन्ति॒ शिक्व॑सः ॥ अग्ने॒ भूरी॑णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒-ऽमृत॑स्य॒ धाम॑ । याश्च॑ [ ] 40
मा॒या मा॒यिनां᳚-विँश्वमिन्व॒ त्वे पू॒र्वी-स्स॑न्द॒धुः पृ॑ष्टबन्धो ॥ दि॒वो नो॑ वृ॒ष्टि-म्म॑रुतो ररीद्ध्व॒-म्प्रपि॑न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ । अ॒र्वांए॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ॥ पिन्व॑न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो॑ घृ॒तव॑द्वि॒दथे᳚ष्वा॒ भुवः॑ । अत्य॒-न्न मि॒हे वि न॑यन्ति वा॒जिन॒मुथ्स॑-न्दुहन्ति स्त॒नय॑न्त॒मक्षि॑तम् ॥ उ॒द॒प्रुतो॑ मरुत॒स्ताग्ं इ॑यर्त॒ वृष्टिं॒- [वृष्टि᳚म्, ये विश्वे॑] 41
-ँये विश्वे॑ म॒रुतो॑ जु॒नन्ति॑ । क्रोशा॑ति॒ गर्दा॑ क॒न्ये॑व तु॒न्ना पेरु॑-न्तुञ्जा॒ना पत्ये॑व जा॒या ॥ घृ॒तेन॒ द्यावा॑पृथि॒वी मधु॑ना॒ समु॑क्षत॒ पय॑स्वतीः कृण॒ता-ऽऽप॒ ओष॑धीः । ऊर्ज॑-ञ्च॒ तत्र॑ सुम॒ति-ञ्च॑ पिन्वथ॒ यत्रा॑ नरो मरुत-स्सि॒ञ्चथा॒ मधु॑ ॥ उदु॒त्यम्, चि॒त्रम् ॥ औ॒र्व॒-भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे । अ॒ग्निग्ं स॑मु॒द्रवा॑ससम् ॥ आ स॒वग्ं स॑वि॒तुर्य॑था॒ भग॑स्ये व भु॒जिग्ं हु॑वे । अ॒ग्निग्ं स॑मु॒द्रवा॑ससम् ॥ हु॒वे वात॑स्वन-ङ्क॒वि-म्प॒र्जन्य॑क्रन्द्य॒ग्ं॒ सहः॑ । अ॒ग्निग्ं स॑मु॒द्रवा॑ससम् ॥ 42 ॥
(वी॒र - इषग्ं॑ - ह॒व्य - मु॒षसो॑ - मरुत - श्च॒ - वृष्टिं॒ - भग॑स्य॒ - द्वाद॑श च) (अ. 11)
(प्र॒जाप॑तिरकामयतै॒ - ष ते॑ गाय॒त्रो - य॒ज्ञं-वैँ - प्र॒जाप॑ते॒र्जाय॑मानाः - प्राजाप॒त्या - यो वा अय॑थादेवत - मि॒ष्टर्गो॑ - निग्रा॒भ्या᳚-स्स्थ॒ - यो वै दे॒वा - ञ्जुष्टो॒ - ऽग्निना॑ र॒यि - मेका॑दश )
(प्र॒जाप॑तिरकामयत - प्र॒जाप॑ते॒र्जाय॑माना॒ - व्याय॑च्छन्ते॒ - मह्य॑मि॒मा - न्मा॒या मा॒यिना॒न् - द्विच॑त्वारिग्ंशत्)
(प्र॒जाप॑तिरकामयता॒, अ॒ग्निग्ं स॑मु॒द्रवा॑ससं )
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय संहिताया-न्तृतीयकाण्डे प्रथमः प्रश्न-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya saṃhitāyā-ntṛtīyakāṇḍe prathamaḥ praśnaḥ - nyūnakarmābhidhānaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
pra॒jāpa̭tirakāmayata pra॒jā-ssṛ̭je॒yeti॒ sa tapo̭-'tapyata॒ sa sa॒rpāna̭sṛjata॒ so̭-'kāmayata pra॒jā-ssṛ̭je॒yeti॒ sadvi॒tīya̭matapyata॒ sa vayāg̭sya sṛjata॒ so̭-'kāmayata pra॒jā-ssṛ̭je॒yeti॒ sa tṛ॒tīya̭matapyata॒ sa e॒ta-ndī᳚kṣitavā॒da-ma̭paśya॒-ttama̭vada॒-ttato॒ vai sa pra॒jā a̭sṛjata॒ ya-ttapa̭sta॒ptvā dī᳚kṣitavā॒daṃ-va~da̭ti pra॒jā e॒va tadyaja̭māna- [tadyaja̭mānaḥ, sṛ॒ja॒te॒ yadvai] 1
-ssṛjate॒ yadvai dī᳚kṣi॒to̭-'me॒ddhya-mpaśya॒tyapā᳚smāddī॒kṣākrā̭mati॒ nīla̭masya॒ haro॒ vye᳚tyaba̭ddha॒-mmano̭ da॒ridra॒-ñcakṣu॒-ssūryo॒ jyoti̭ṣā॒g॒śreṣṭho॒ dīkṣe॒ mā mā̭hāsī॒rityā̭ha॒ nāsmā᳚ddī॒kṣā-'pa̭krāmati॒ nāsya॒ nīla॒-nna haro॒ vyḙti॒ yadvai dī᳚kṣi॒tama̭bhi॒varṣa̭tidi॒vyā āpo-'śā᳚ntā॒ ojo॒ bala̭-ndī॒kṣā- [bala̭-ndī॒kṣām, tapo᳚-'sya॒-] 2
-ntapo᳚-'sya॒-nirghna̭ntyunda॒tī-rbala̭-ndha॒ttaujo̭ dhatta॒ bala̭-ndhatta॒ mā mḙ dī॒kṣā-mmā tapo॒nirva̭dhi॒ṣṭetyā̭hai॒ tade॒va sarva̭mā॒tma-ndha̭tte॒ nāsyaujo॒ bala॒-nna dī॒kṣā-nna tapo॒nirghna̭ntya॒gnirvai dī᳚kṣi॒tasya̭ de॒vatā॒ so᳚-'smāde॒tarhi̭ti॒ra i̭va॒ yarhi॒ yāti॒ tamī᳚śva॒ragṃ rakṣāgṃ̭si॒ hanto᳚- [hantoḥ᳚, bha॒drāda॒bhi-] 3
-rbha॒drāda॒bhi-śreyaḥ॒ prehi॒bṛha॒spatiḥ̭ pura e॒tā tḙ a॒stvityā̭ha॒brahma॒ vai de॒vānā॒-mbṛha॒spati॒stame॒vānvā ra̭bhate॒ sa ḙna॒gṃ॒ sa-mpā̭raya॒tye dama̭ganma deva॒yaja̭na-mpṛthi॒vyā ityā̭ha deva॒yaja̭na॒gg॒ hyḙṣa pṛ̭thi॒vyā ā॒gaccha̭ti॒ yo yaja̭te॒ viśvḙ de॒vā yadajṷṣanta॒ pūrva॒ ityā̭ha॒ viśve॒ hyḙtadde॒vā jo॒ṣaya̭nte॒ yadbrā᳚hma॒ṇā ṛ̭khsā॒mābhyāṃ॒-ya~jṷṣā sa॒ntara̭nta॒ ityā̭harkhsā॒mābhyā॒g॒ hyḙṣa yajṷṣā sa॒ntara̭ti॒ yo yaja̭te rā॒yaspoṣḙṇa॒ sami॒ṣā-ma̭de॒metyā̭-hā॒-'śiṣa̭me॒vai tāmā śā᳚ste || 4 ||
(yaja̭māno - dī॒kṣāgṃ - hanto᳚ - rbrāhma॒ṇā -ścatṷrvigṃśatiśca) (a. 1)
e॒ṣa tḙ gāya॒tro bhā॒ga iti̭ me॒ somā̭ya brūtāde॒ṣa te॒ traiṣṭṷbho॒ jāga̭to bhā॒ga iti̭ me॒ somā̭ya brūtācchando॒mānā॒gṃ॒ sāmrā᳚jya-ṅga॒ccheti̭ me॒ somā̭ya brūtā॒-dyo vai soma॒gṃ॒ rājā̭na॒gṃ॒ sāmrā᳚jyaṃ-lo~॒ka-ṅga̭mayi॒tvā krī॒ṇāti॒ gaccha̭ti॒ svānā॒gṃ॒ sāmrā᳚jya॒-ñchandāgṃ̭si॒ khalu॒ vai soma̭sya॒ rājña॒-ssāmrā᳚jyo lo॒kaḥ pu॒rastā॒-thsoma̭sya kra॒yāde॒vama॒bhi ma̭ntrayeta॒ sāmrā᳚jyame॒vai- [sāmrā᳚jyame॒va, e॒naṃ॒-lo~॒ka-ṅga̭mayi॒tvā] 5
naṃ̭-lo~॒ka-ṅga̭mayi॒tvā krī̭ṇāti॒ gaccha̭ti॒ svānā॒gṃ॒ sāmrā᳚jyaṃ॒-yo~ vai tā̭nūna॒ptrasya̭ prati॒ṣṭhāṃ-ve~da॒ pratye॒va ti̭ṣṭhati brahmavā॒dino̭ vadanti॒ na prā॒śñanti॒ na jṷhva॒tyatha॒ kva̭ tānūna॒ptra-mprati̭ tiṣṭha॒tīti̭ pra॒jāpa̭tau॒ mana॒sīti̭ brūyā॒-ttrirava̭ jighre-tpra॒jāpa̭tau tvā॒ mana̭si juho॒mītye॒ṣā vai tā̭nūna॒ptrasya̭ prati॒ṣṭhā ya e॒vaṃ-ve~da॒ pratye॒va ti̭ṣṭhati॒ yo [pratye॒va ti̭ṣṭhati॒ yaḥ, vā a̭ddhva॒ryoḥ] 6
vā a̭ddhva॒ryoḥ pra̭ti॒ṣṭhāṃ-ve~da॒ pratye॒va ti̭ṣṭhati॒ yato॒ manye॒tāna̭bhikramya hoṣyā॒mīti॒ ta-ttiṣṭha॒nnā śrā̭vayede॒ṣā vā a̭ddhva॒ryoḥ pra̭ti॒ṣṭhā ya e॒vaṃ-ve~da॒ pratye॒va ti̭ṣṭhati॒ yada̭bhi॒kramya̭ juhu॒yā-tpra̭ti॒ṣṭhāyā̭ iyā॒-ttasmā᳚-thsamā॒natra॒ tiṣṭha̭tā hota॒vya̭-mprati̭ṣṭhityai॒ yo vā a̭ddhva॒ryo-ssvaṃ-ve~da॒ svavā̭ne॒va bha̭vati॒ srugvā a̭sya॒ svaṃ-vā~̭ya॒vya̭masya॒ [vā̭ya॒vya̭masya, sva-ñca̭ma॒so᳚-'sya॒] 7
sva-ñca̭ma॒so᳚-'sya॒ svaṃ-ya~dvā̭ya॒vyaṃ̭-vā~ cama॒saṃ-vā~-'na̭nvārabhyā-''śrā॒vaye॒-thsvādi̭yā॒-ttasmā̭ danvā॒rabhyā॒ ''śrāvya॒gg॒ svāde॒va naiti॒ yo vai soma॒ma- pra̭tiṣṭhāpya sto॒tra-mṷpāka॒rotya pra̭tiṣṭhita॒-ssomo॒ bhava॒tyapra̭tiṣṭhita॒-sstomo- 'pra̭tiṣṭhitā-nyu॒kthānyapra̭tiṣṭhito॒ yaja̭mā॒no 'pra̭tiṣṭhito 'dhva॒ryurvā̭ ya॒vyaṃ̭-vai~ soma̭sya prati॒ṣṭhā ca̭ma॒so᳚-'sya prati॒ṣṭhā soma॒-sstoma̭sya॒ stoma̭ u॒kthānā॒-ṅgrahaṃ̭-vā~ gṛhī॒tvā ca̭ma॒saṃ-vo~॒nnīya̭ sto॒tramu॒pā kṷryā॒-tpratye॒va somagg̭ sthā॒paya̭ti॒ prati॒stoma॒-mpratyu॒kthāni॒ prati॒ yaja̭māna॒stiṣṭha̭ti॒ pratya̭ddhva॒ryuḥ || 8 ||
(e॒va - ti̭ṣṭhati॒ yo - vā̭ya॒vya̭masya॒ - grahaṃ॒-vai~ - kā॒nna - vigṃ̭śa॒tiśca̭) (a. 2)
ya॒jñaṃ-vā~ e॒ta-thsa-mbha̭ranti॒ ya-thso̭ma॒kraya̭ṇyai pa॒daṃ-ya~̭jñamu॒khagṃ ha̭vi॒rdhāne॒ yarhi̭ havi॒rdhāne॒ prācī᳚ prava॒rtayḙyu॒starhi॒ tenākṣa॒mupā᳚-ñjyā-dyajñamu॒kha e॒va ya॒jñamanu॒ santa̭noti॒ prāñca̭ma॒gni-mpra ha̭ra॒ntyu-tpatnī॒mā na̭ya॒ntyanvanāgṃ̭si॒ pra va̭rtaya॒ntyatha॒ vā a̭syai॒ṣa dhiṣṇi̭yo hīyate॒ so-'nṷ dhyāyati॒ sa ī᳚śva॒ro ru॒dro bhū॒tvā [ ] 9
pra॒jā-mpa॒śūn. yaja̭mānasya॒ śama̭yito॒ryarhi̭ pa॒śumā prī̭ta॒muda̭ñca॒-nnaya̭nti॒ tarhi॒ tasya̭ paśu॒śrapa̭ṇagṃ hare॒-ttenai॒vaina̭-mbhā॒gina̭-ṅkaroti॒ yaja̭māno॒ vā ā̭hava॒nīyo॒ yaja̭mānaṃ॒-vā~ e॒tadvi ka̭rṣante॒ yadā̭hava॒nīyā᳚-tpaśu॒śrapa̭ṇa॒gṃ॒ hara̭nti॒ sa vai॒va syānni̭rma॒nthyaṃ̭-vā~ kuryā॒-dyaja̭mānasya sātma॒tvāya॒ yadi̭ pa॒śora̭va॒dāna॒-nnaśye॒dājya̭sya pratyā॒khyāya॒mava̭ dye॒-thsaiva tataḥ॒ prāya̭ścitti॒rye pa॒śuṃ-vi~̭mathnī॒ran. yastān kā॒maye॒tā ''rti॒mārcchḙyu॒riti̭ ku॒vida॒ṅgeti॒ namo̭ vṛktivatya॒rcā-''gnī᳚ddhre juhuyā॒nnamo̭ vṛktime॒vaiṣāṃ᳚-vṛ~ṅkte tā॒jagārti॒mārccha̭nti || 10 ||
(bhū॒tvā - tataḥ॒ - ṣaḍvigṃ̭śatiśca) (a. 3)
pra॒jāpa̭te॒rjāya̭mānāḥ pra॒jā jā॒tāśca॒ yā i॒māḥ | tasmai॒ prati॒ pra vḙdayaciki॒tvāgṃ anṷ manyatām || i॒ma-mpa॒śu-mpa̭śupate te a॒dya ba॒ddhnāmya̭gne sukṛ॒tasya॒ maddhye᳚ | anṷ manyasva su॒yajā̭ yajāma॒ juṣṭa̭-nde॒vānā̭mi॒dama̭stu ha॒vyam || pra॒jā॒nantaḥ॒ prati̭gṛhṇanti॒ pūrve᳚ prā॒ṇamaṅge᳚bhyaḥ॒ paryā॒cara̭ntam | suva॒rgaṃ-yā~̭hi pa॒thibhi̭ rdeva॒yānai॒-roṣa̭dhīṣu॒ prati̭tiṣṭhā॒ śarī̭raiḥ || yeṣā॒mīśḙ [yeṣā॒mīśḙ, pa॒śu॒patiḥ̭] 11
paśu॒patiḥ̭ paśū॒nā-ñcatṷṣpadāmu॒ta ca̭ dvi॒padā᳚m | niṣkrī̭to॒-'yaṃ-ya~॒jñiya̭-mbhā॒gamḙtu rā॒yaspoṣā॒ yaja̭mānasya santu || ye ba॒ddhyamā̭na॒manṷ ba॒ddhyamā̭nā a॒bhyaikṣa̭nta॒ mana̭sā॒ cakṣṷṣā ca | a॒gnistāgṃ agre॒ pramṷmoktu de॒vaḥ pra॒jāpa̭tiḥ pra॒jayā̭ saṃvi~dā॒naḥ || ya ā̭ra॒ṇyāḥ pa॒śavo̭ vi॒śvarṷ̄pā॒ virṷ̄pā॒-ssanto̭ bahu॒dhaika̭rūpāḥ | vā॒yustāgṃ agre॒ pramṷmoktu de॒vaḥ pra॒jāpa̭tiḥ pra॒jayā̭ saṃvi~dā॒naḥ || pra॒mu॒ñcamā̭nā॒ [pra॒mu॒ñcamā̭nāḥ, bhuva̭nasya॒ reto̭] 12
bhuva̭nasya॒ reto̭ gā॒tu-ndha̭tta॒ yaja̭mānāya devāḥ | u॒pākṛ̭tagṃ śaśamā॒naṃ-ya~dasthā᳚jjī॒va-nde॒vānā॒mapyḙtu॒ pāthaḥ̭ || nānā᳚ prā॒ṇo yaja̭mānasya pa॒śunā̭ ya॒jño de॒vebhiḥ̭ sa॒ha dḙva॒yānaḥ̭ | jī॒va-nde॒vānā॒mapyḙtu॒ pāthaḥ̭ sa॒tyā-ssa̭ntu॒ yaja̭mānasya॒ kāmāḥ᳚ || ya-tpa॒śurmā॒yumakṛ॒toro̭ vā pa॒dbhirā̭ha॒te | a॒gnirmā॒ tasmā॒dena̭so॒viśvā᳚-nmuñca॒tvagṃha̭saḥ || śami̭tāra u॒peta̭na ya॒jña- [ya॒jñam, de॒vebhi̭rinvi॒tam |] 13
-nde॒vebhi̭rinvi॒tam | pāśā᳚-tpa॒śu-mpramṷñcata ba॒ndhādya॒jñapa̭ti॒-mpari̭ || adi̭tiḥ॒ pāśa॒-mpramṷmoktve॒ta-nnamaḥ̭ pa॒śubhyaḥ̭ paśu॒pata̭ye karomi || a॒rā॒tī॒yanta॒-madha̭ra-ṅkṛṇomi॒ ya-ndvi॒ṣmastasmi॒-nprati̭ muñcāmi॒ pāśa᳚m || tvāmu॒ te da̭dhire havya॒vāhagṃ̭ śṛtaṅka॒rtāra̭mu॒ta ya॒jñiya̭-ñca | agne॒ sada̭kṣa॒-ssata̭nu॒r॒hi bhū॒tvā-'tha̭ ha॒vyā jā̭tavedo juṣasva || jāta̭vedo va॒payā̭ gaccha de॒vāntvagṃ hi hotā᳚ pratha॒mo ba॒bhūtha̭ | ghṛ॒tena॒ tva-nta॒nuvo̭ vardhayasva॒ svāhā̭kṛtagṃ ha॒vira̭dantu de॒vāḥ || svāhā̭ de॒vebhyo̭ de॒vebhya॒-ssvāhā᳚ || 14 ||
(īśe᳚ - pramu॒ñcamā̭nā - ya॒jñaṃ - tvagṃ - ṣoḍa̭śa ca) (a. 4)
prā॒jā॒pa॒tyā vai pa॒śava॒steṣāgṃ̭ ru॒dro-'dhi̭pati॒rya-de॒tābhyā̭-mupā ka॒roti॒ tābhyā̭me॒vaina̭-mprati॒procyā-''la̭bhata ā॒tmano-'nā᳚vraskāya॒ dvābhyā̭mu॒pāka̭roti dvi॒pādyaja̭mānaḥ॒ prati̭ṣṭhityā upā॒kṛtya॒ pañca̭ juhoti॒ pāṅktāḥ᳚ pa॒śavaḥ̭ pa॒śūne॒vā va̭rundhemṛ॒tyave॒ vā e॒ṣa nī̭yate॒ ya-tpa॒śustaṃ-ya~da̭nvā॒rabhḙta pra॒māyṷko॒ yaja̭māna-ssyā॒nnānā᳚ prā॒ṇo yaja̭mānasya pa॒śunetyā̭ha॒ vyāvṛ̭ttyai॒ [vyāvṛ̭ttyai, ya-tpa॒śurmā॒yu-] 15
ya-tpa॒śurmā॒yu-makṛ॒teti̭ juhoti॒ śāntyai॒ śami̭tāra u॒peta॒netyā̭ha yathāya॒jure॒vaitadva॒pāyāṃ॒-vā~ ā᳚hri॒yamā̭ṇāyā-ma॒gnermedho-'pa̭ krāmati॒ tvāmu॒ te da̭dhire havya॒vāha॒miti̭ va॒pāma॒bhi jṷhotya॒gnere॒va medha॒mava̭ ru॒ndhe-'tho̭ śṛta॒tvāya̭ pu॒rastā᳚-thsvāhā kṛtayo॒ vā a॒nye de॒vā u॒pari̭ṣṭā-thsvāhākṛtayo॒-'nye svāhā̭ de॒vebhyo̭ de॒vebhya॒-ssvāhetya॒bhito̭ va॒pā-ñjṷhoti॒ tāne॒vobhayā᳚-nprīṇāti || 16 ||
(vyāvṛ̭ttyā - a॒bhito̭ va॒pāṃ - pañca̭ ca) (a. 5)
yo vā aya̭thādevataṃ-ya~॒jñamṷpa॒cara॒tyā de॒vatā᳚bhyo vṛścyate॒ pāpī̭yā-nbhavati॒ yo ya̭thādeva॒tanna de॒vatā᳚bhya॒ ā vṛ̭ścyate॒ vasī̭yā-nbhavatyāgne॒yyarcā ''gnī᳚ddhrama॒bhi mṛ̭śe-dvaiṣṇa॒vyā ha̭vi॒rdhāna̭māgne॒yyā sruco̭ vāya॒vya̭yā vāya॒vyā᳚nyaindri॒yā sado̭ yathādeva॒tame॒va ya॒jñamupa̭ carati॒ na de॒vatā᳚bhya॒ ā vṛ̭ścyate॒ vasī̭yā-nbhavati yu॒najmi̭ te pṛthi॒vī-ñjyoti̭ṣā sa॒ha yu॒najmi̭ vā॒yuma॒ntari̭kṣeṇa [vā॒yuma॒ntari̭kṣeṇa, te sa॒ha] 17
te sa॒ha yu॒najmi॒ vācagṃ̭ sa॒ha sūryḙṇa te yu॒najmi̭ ti॒sro vi॒pṛca॒-ssūrya̭sya te | a॒gnirde॒vatā̭ gāya॒trī chanda̭ upā॒gṃ॒śoḥ pātra̭masi॒ somo̭ de॒vatā᳚ tri॒ṣṭu-pchando᳚-'ntaryā॒masya॒ pātra̭ma॒sīndro̭ de॒vatā॒ jaga̭tī॒ chanda̭ indravāyu॒voḥ pātra̭masi॒ bṛha॒spati̭-rde॒vatā̭-'nu॒ṣṭu-pchando̭ mi॒trāvarṷṇayoḥ॒ pātra̭masya॒śvinaṷ de॒vatā̭ pa॒ṅktiśchando॒-'śvinoḥ॒ pātra̭masi॒ sūryo̭ de॒vatā̭ bṛha॒tī [ ] 18
chandaḥ̭ śu॒krasya॒ pātra̭masi ca॒ndramā̭ de॒vatā̭ sa॒to bṛ̭hatī॒ chando̭ ma॒nthinaḥ॒ pātra̭masi॒ viśvḙde॒vā de॒vato॒ṣṇihā॒ chanda̭ āgraya॒ṇasya॒ pātra̭ma॒sīndro̭ de॒vatā̭ ka॒kucchanda̭ u॒kthānā॒-mpātra̭masi pṛthi॒vī de॒vatā̭ vi॒rāṭ chando᳚ dhru॒vasya॒ pātra̭masi || 19 ||
(a॒ntari̭kṣeṇa - bṛha॒tī - traya̭strigṃśacca) (a. 6)
i॒ṣṭargo॒ vā a̭ddhva॒ryuryaja̭mānasye॒ṣṭargaḥ॒ khalu॒ vai pūrvo॒-'rṣṭuḥ, kṣī̭yata āsa॒nyā᳚nmā॒ mantrā᳚-tpāhi॒ kasyā᳚ścida॒bhiśa̭styā॒ iti̭ pu॒rā prā̭taranuvā॒kājjṷhuyādā॒tmana̭ e॒va tada̭ddhva॒ryuḥ pu॒rastā॒ccharma̭ nahya॒te-'nā᳚rtyai saṃve~॒śāya̭ tvopave॒śāya̭ tvā gāyatri॒yā stri॒ṣṭubho॒ jaga̭tyā a॒bhibhū᳚tyai॒ svāhā॒ prāṇā̭pānau mṛ॒tyormā̭ pāta॒-mprāṇā̭pānau॒ mā mā̭ hāsiṣṭa-nde॒vatā̭su॒ vā e॒te prā̭ṇāpā॒nayo॒- [e॒te prā̭ṇāpā॒nayoḥ᳚, vyāya̭cchante॒] 20
-rvyāya̭cchante॒ yeṣā॒gṃ॒ somaḥ̭ samṛ॒cchatḙ saṃve~॒śāya̭ tvopave॒śāya॒ tvetyā̭ha॒ chandāgṃ̭si॒ vai saṃ̭ve~॒śa ṷpave॒śaśchando̭bhire॒vāsya॒ chandāgṃ̭si vṛṅkte॒ preti̭va॒ntyājyā̭ni bhavantya॒bhiji̭tyai ma॒rutva̭tīḥ prati॒pado॒ viji̭tyā u॒bhe bṛ̭hadrathanta॒re bha̭vata i॒yaṃ-vā~va ra̭thanta॒rama॒sau bṛ॒hadā॒bhyāme॒vaina̭ma॒ntare᳚tya॒dya vāva ra̭thanta॒ragg śvo bṛ॒hada̭dyā॒śvā de॒vaina̭ma॒ntarḙti bhū॒taṃ- [bhū॒tam, vāva ra̭thanta॒ra-] 21
-~vāva ra̭thanta॒ra-mbha̭vi॒ṣya-dbṛ॒ha-dbhū॒tāccai॒vaina̭-mbhaviṣya॒taścā॒ntarḙti॒, pari̭mitaṃ॒-vā~va ra̭thanta॒ramapa̭rimita-mbṛ॒ha-tpari̭mitāccai॒vaina॒-mapa̭rimitāccā॒-'ntarḙti viśvāmitrajamada॒gnī vasi̭ṣṭhenāspardhetā॒gṃ॒sa e॒tajja॒mada̭gni rviha॒vya̭ma paśya॒-ttena॒ vai sa vasi̭ṣṭhasyendri॒yaṃ-vī~॒rya̭mavṛṅkta॒ yadvi̭ha॒vyagṃ̭ śa॒syata̭ indri॒yame॒va tadvī॒ryaṃ̭-ya~ja̭māno॒ bhrātṛ̭vyasya vṛṅkte॒ yasya॒ bhūyāgṃ̭so yajñakra॒tava॒ ityā̭hu॒-ssa de॒vatā̭ vṛṅkta॒ iti॒ yadya̭gniṣṭo॒ma-ssomaḥ̭ pa॒rastā॒-thsyā-du॒kthya̭-ṅkurvīta॒ yadyu॒kthyaḥ̭ syāda̭tirā॒tra-ṅkṷrvīta yajñakra॒tubhi̭re॒vāsya̭ de॒vatā̭ vṛṅkte॒ vasī̭yā-nbhavati || 22 ||
(prā॒ṇā॒pā॒nayo᳚ - rbhū॒taṃ - ~vṛ̭ṅkte॒ - 'ṣṭāvigṃ̭śatiśca) (a. 7)
ni॒grā॒bhyā᳚-sstha deva॒śruta॒ āyṷrme tarpayata prā॒ṇa-mmḙ tarpayatāpā॒na-mmḙ tarpayata vyā॒na-mmḙ tarpayata॒ cakṣṷrme tarpayata॒ śrotra̭-mme tarpayata॒ mano̭me tarpayata॒ vāca̭-mme tarpayatā॒-''tmāna̭-mme tarpaya॒tāṅgā̭ni me tarpayata pra॒jā-mmḙ tarpayata pa॒śū-nmḙ tarpayata gṛ॒hā-nmḙ tarpayata ga॒ṇā-nmḙ tarpayata sa॒rvaga̭ṇa-mmā tarpayata ta॒rpaya̭ta mā [ ] 23
ga॒ṇā me॒ mā vi tṛ̭ṣa॒nnoṣa̭dhayo॒ vai soma̭sya॒ viśo॒ viśaḥ॒ khalu॒ vai rājñaḥ॒ pradā̭torīśva॒rā ai॒ndra-ssomo-'vī̭vṛdhaṃ-vo~॒ mana̭sā sujātā॒ ṛta̭prajātā॒ bhaga॒ idvaḥ̭ syāma | indrḙṇa de॒vīrvī॒rudhaḥ̭ saṃvi~dā॒nā anṷ manyantā॒gṃ॒ sava̭nāya॒ soma॒mityā॒hauṣa̭dhībhya e॒vaina॒gg॒ svāyai̭ vi॒śa-ssvāyai̭ de॒vatā̭yai ni॒ryācyā॒bhi ṣṷṇoti॒ yo vai soma̭syābhiṣū॒yamā̭ṇasya [soma̭syābhiṣū॒yamā̭ṇasya, pra॒tha॒mo-'gṃ̭śu-] 24
pratha॒mo-'gṃ̭śu-sskanda̭ti॒ sa ī᳚śva॒ra i̭ndri॒yaṃ-vī~॒rya̭-mpra॒jā-mpa॒śūn. yaja̭mānasya॒ nirha̭nto॒stama॒bhi ma̭ntraye॒tā-'' mā᳚-'skānthsa॒ha pra॒jayā̭ sa॒ha rā॒yaspoṣḙṇendri॒ya-mmḙ vī॒rya̭-mmā niva̭rdhī॒rityā॒śiṣa̭me॒vaitāmā śā᳚sta indri॒yasya̭ vī॒ya̭rsya pra॒jāyai̭ paśū॒nāmani̭rghātāya dra॒phsaśca̭skanda pṛthi॒vīmanu॒ dyāmi॒mañca॒ yoni॒manu॒ yaśca॒ pūrvaḥ̭ | tṛ॒tīyaṃ॒-yo~ni॒manṷ sa॒ñcara̭nta-ndra॒phsa-ñjṷho॒myanṷ sa॒pta hotrāḥ᳚ || 25 ||
(ta॒rpaya̭ta mā - 'bhiṣū॒yamā̭ṇasya॒ - yaśca॒ - daśa̭ ca) (a. 8)
yo vai de॒vā-ndḙvayaśa॒senā॒rpaya̭ti manu॒ṣyā᳚-nmanuṣyayaśa॒sena̭ devayaśa॒syḙva de॒veṣu॒ bhava̭ti manuṣyayaśa॒sī ma̭nu॒ṣyḙṣu॒ yā-nprā॒cīna̭-māgraya॒ṇā-dgrahā᳚-ngṛhṇī॒yā-ttānṷpā॒gṃ॒śu gṛ̭hṇīyā॒dyānū॒rdhvāgstānṷpabdi॒mato̭ de॒vāne॒va taddḙvayaśa॒senā᳚rpayati manu॒ṣyā᳚-nmanuṣyayaśa॒sena̭ devayaśa॒syḙva de॒veṣṷ bhavati manuṣyayaśa॒sī ma̭nu॒ṣye᳚ṣva॒gniḥ prā̭tassava॒ne pā᳚tva॒smān. vai᳚śvāna॒ro ma̭hi॒nā vi॒śvaśa̭mbhūḥ | sa naḥ̭ pāva॒ko dravi̭ṇa-ndadhā॒- [dravi̭ṇa-ndadhātu, āyṷṣmanta-] 26
-tvāyṷṣmanta-ssa॒habha̭kṣā-ssyāma || viśvḙ de॒vā ma॒ruta॒ indro̭ a॒smāna॒smi-ndvi॒tīye॒ sava̭ne॒ na ja̭hyuḥ | āyṷṣmantaḥ pri॒yamḙṣāṃ॒-va~da̭nto va॒ya-nde॒vānāgṃ̭ suma॒tau syā̭ma || i॒da-ntṛ॒tīya॒gṃ॒ sava̭na-ṅkavī॒nāmṛ॒tena॒ ye ca̭ma॒samaira̭yanta | te saṷdhanva॒nā-ssuva̭rānaśā॒nā-ssvi̭ṣṭi-nno a॒bhi vasī̭yo nayantu || ā॒yata̭navatī॒rvā a॒nyā āhṷtayo hū॒yantḙ-'nāyata॒nā a॒nyā yā ā̭ghā॒rava̭tī॒stā ā॒yatana̭vatī॒ryā- [ā॒yatana̭vatī॒ryāḥ, sau॒myāstā] 27
-ssau॒myāstā a̭nāyata॒nā ai᳚ndravāya॒va-mā॒dāyā̭-''ghā॒ramā ghā̭rayedaddhva॒ro ya॒jño̭-'yama̭stu devā॒ oṣa̭dhībhyaḥ pa॒śavḙ no॒ janā̭ya॒ viśva̭smai bhū॒tāyā᳚-'ddhva॒ro̭-'si॒ sa pi̭nvasva ghṛ॒tava̭ddeva so॒meti̭ sau॒myā e॒va tadāhṷtīrā॒yata̭navatīḥ karotyā॒yata̭navā-nbhavati॒ ya e॒vaṃ-ve~dātho॒ dyāvā̭pṛthi॒vī e॒va ghṛ॒tena॒ vyṷnatti॒ te vyṷtte upajīva॒nīyḙ bhavata upajīva॒nīyo̭ bhavati॒ [bhavati, ya e॒vaṃ-ve~dai॒ṣa] 28
ya e॒vaṃ-ve~dai॒ṣa tḙ rudrabhā॒go ya-nni॒rayā̭cathā॒sta-ñjṷṣasva vi॒dergaṷpa॒tyagṃ rā॒yaspoṣagṃ̭ su॒vīryagṃ̭ saṃva~thsa॒rīṇāg̭ sva॒stim || manuḥ̭ pu॒trebhyo̭ dā॒yaṃ-vya~̭bhaja॒-thsa nābhā॒nedi̭ṣṭha-mbrahma॒caryaṃ॒-va~sa̭nta॒-nnira̭bhaja॒-thsa ā-'ga̭ccha॒-thso᳚-'bravī-tka॒thā mā॒ nira̭bhā॒giti॒ na tvā॒ nira̭bhākṣa॒mitya̭-bravī॒daṅgi̭rasa i॒me sa॒tramā̭sate॒ te [sa॒tramā̭sate॒ te, su॒va॒rgaṃ-lo~॒ka-nna] 29
sṷva॒rgaṃ-lo~॒ka-nna prajā̭nanti॒ tebhya̭ i॒da-mbrāhma̭ṇa-mbrūhi॒ te sṷva॒rgaṃ-lo~॒kaṃ-ya~nto॒ ya ḙṣā-mpa॒śava॒stāgstḙ dāsya॒ntīti॒ tade᳚bhyo-'bravī॒-tte sṷva॒rgaṃ-lo~॒kaṃ-ya~nto॒ ya ḙṣā-mpa॒śava॒ āsa॒-ntāna̭smā adadu॒sta-mpa॒śubhi॒ścara̭ntaṃ-ya~jñavā॒stau ru॒dra ā-'ga̭ccha॒-thso᳚-'bravī॒nmama॒ vā i॒me pa॒śava॒ ityadu॒rvai - [ ] 30
mahya̭mi॒mānitya̭bravī॒nna vai tasya॒ ta ī̭śata॒ itya̭bravī॒-dya-dya̭jñavā॒stau hīya̭te॒ mama॒ vai taditi॒ tasmā᳚-dyajñavā॒stu nābhya॒vetya॒gṃ॒ so᳚-'bravī-dya॒jñe mā ''bha॒jātha̭ te pa॒śū-nnābhi magg̭sya॒ iti॒ tasmā̭ e॒ta-mma॒nthinaḥ̭ sagg srā॒vama̭juho॒-ttato॒ vai tasya̭ ru॒draḥ pa॒śū-nnābhya̭manyata॒ yatrai॒ta me॒vaṃ-vi~॒dvā-nma॒nthinaḥ̭ sagg srā॒va-ñju॒hoti॒ na tatra̭ ru॒draḥ pa॒śūna॒bhi ma̭nyate || 31 ||
(da॒dhā॒tvā॒ - yata̭navatī॒ryā - ṷpajīva॒nīyo̭ bhavati॒ - te-' - du॒rvai - yatrai॒ta - mekā̭daśa ca) (a. 9)
juṣṭo̭ vā॒co bhṷ̄yāsa॒-ñjuṣṭo̭ vā॒caspata̭ye॒ devi̭ vāk | yadvā॒co madhṷma॒-ttasmi̭-nmā dhā॒-ssvāhā॒ sara̭svatyai || ṛ॒cā stoma॒gṃ॒ sama̭rdhaya gāya॒treṇa̭ rathanta॒ram | bṛ॒ha-dgā̭ya॒trava̭rtani ||yaste᳚ dra॒phsa-sskanda̭ti॒ yastḙ a॒gṃ॒śurbā॒hucyṷto dhi॒ṣaṇa̭yoru॒pasthā᳚t | a॒ddhva॒ryorvā॒ pari॒ yastḙ pa॒vitrā॒-thsvāhā̭kṛta॒mindrā̭ya॒ ta-ñjṷhomi || yo dra॒phso a॒gṃ॒śuḥ pa̭ti॒taḥ pṛ̭thi॒vyā-mpa̭rivā॒pā- [pṛ̭thi॒vyā-mpa̭rivā॒pāt, pu॒ro॒ḍāśā᳚-tkara॒mbhāt |] 32
-tpṷro॒ḍāśā᳚-tkara॒mbhāt | dhā॒nā॒so॒mānma॒nthina̭ indra śu॒krā-thsvāhā̭kṛta॒mindrā̭ya॒ ta-ñjṷhomi || yaste᳚ dra॒phso madhṷmāgṃ indri॒yāvā॒n-thsvāhā̭kṛtaḥ॒ puna̭ra॒pyeti̭ de॒vān | di॒vaḥ pṛ̭thi॒vyāḥ parya॒ntari̭kṣā॒-thsvāhā̭ kṛta॒mindrā̭ya॒ ta-ñjṷhomi || a॒ddhva॒ryurvā ṛ॒tvijā᳚-mpratha॒mo yṷjyate॒ tena॒ stomo̭ yokta॒vya̭ ityā̭hu॒rvāga̭gre॒gā agra̭ etvṛju॒gā de॒vebhyo॒ yaśo॒ mayi॒ dadha̭tī prā॒ṇā-npa॒śuṣṷ pra॒jā-mmayi̭ [ ] 33
ca॒ yaja̭māne॒ cetyā̭ha॒ vāca̭me॒va tadya̭jñamu॒khe yṷnakti॒ vāstu॒ vā e॒tadya॒jñasya̭ kriyate॒ yadgrahā᳚-ngṛhī॒tvā ba̭hiṣpavamā॒nagṃ sarpa̭nti॒parā᳚ñco॒ hi yanti॒ parā̭cībhi-sstu॒vatḙ vaiṣṇa॒vyarcā puna॒retyopa̭ tiṣṭhate ya॒jño vai viṣṇṷ rya॒jñame॒vāka॒rviṣṇo॒ tvanno॒ anta̭ma॒-śśarma̭ yaccha sahantya | pra te॒ dhārā̭ madhu॒ścuta॒ uthsa̭-nduhrate॒ akṣi̭ta॒mityā̭ha॒ yade॒vāsya॒ śayā̭nasyopa॒śuṣya̭ti॒ tade॒vāsyai॒tenā ''pyā̭yayati || 34 ||
(pa॒ri॒vā॒pāt - pra॒jā-mmayi̭ - duhrate॒ - catṷrdaśa ca) (a. 10)
a॒gninā̭ ra॒yima̭śñava॒-tpoṣa̭me॒va di॒vedi̭ve | ya॒śasaṃ̭-vī~॒rava̭ttamam || gomāgṃ̭ a॒gne-'vi̭māgṃ a॒śvī ya॒jño nṛ॒vathsa̭khā॒ sada॒mida̭pramṛ॒ṣyaḥ | iḍā̭vāgṃ e॒ṣo a̭sura pra॒jāvā᳚-ndī॒rgho ra॒yiḥ pṛ̭thubu॒dhna-ssa॒bhāvāṋ || āpyā̭yasva॒, sante᳚ || i॒ha tvaṣṭā̭ramagri॒yaṃ-vi~॒śvarṷ̄pa॒mupa̭ hvaye | a॒smāka̭mastu॒ keva̭laḥ || tanna̭stu॒rīpa॒madha̭ poṣayi॒tnu deva̭ tvaṣṭa॒rvi ra̭rā॒ṇa-ssya̭sva | yato̭ vī॒raḥ [yato̭ vī॒raḥ, ka॒rma॒ṇyaḥ̭ su॒dakṣo̭] 35
ka̭rma॒ṇyaḥ̭ su॒dakṣo̭ yu॒ktagrā̭vā॒ jāya̭te de॒vakā̭maḥ ||śi॒vastva̭ṣṭari॒hā-'' ga̭hi vi॒bhuḥ poṣa̭ u॒tatmanā᳚ | ya॒jñeya̭jñe na॒ uda̭va || pi॒śaṅga̭rūpa-ssu॒bharo̭ vayo॒dhā-śśru॒ṣṭī vī॒ro jā̭yate de॒vakā̭maḥ | pra॒jā-ntvaṣṭā॒ viṣya̭tu॒ nābhi̭ma॒sme athā̭ de॒vānā॒mapyḙtu॒ pāthaḥ̭ || praṇo̭de॒ vyā, no̭ di॒vaḥ || pī॒pi॒vāgṃ sa॒gṃ॒ sara̭svata॒-sstanaṃ॒-yo~ vi॒śvada̭rśataḥ | dhukṣī॒mahi̭ pra॒jāmiṣa᳚m || 36 ||
ye tḙ sarasva ū॒rmayo॒ madhṷmanto ghṛta॒ścutaḥ̭ | teṣā᳚-nte su॒mnamī̭mahe || yasya̭ vra॒ta-mpa॒śavo॒ yanti॒ sarve॒ yasya̭ vra॒tamṷpa॒tiṣṭha̭nta॒ āpaḥ̭ | yasya̭ vra॒te pṷṣṭi॒pati॒rnivi̭ṣṭa॒stagṃ sara̭svanta॒mava̭se huvema || di॒vyagṃ sṷpa॒rṇaṃ-va~̭ya॒sa-mbṛ॒hanta̭ma॒pā-ṅgarbhaṃ̭-vṛ~ṣa॒bhamoṣa̭dhīnām | a॒bhī॒pa॒to vṛ॒ṣṭyā ta॒rpaya̭nta॒-ntagṃ sara̭svanta॒mava̭se huvema || sinī̭vāli॒ pṛthṷṣṭuke॒ yā de॒vānā॒masi॒ svasā᳚ | ju॒ṣasva̭ ha॒vya- [ha॒vyam, āhṷta-mpra॒jā-ndḙvi] 37
-māhṷta-mpra॒jā-ndḙvi didiḍḍhi naḥ || yā sṷpā॒ṇi-ssva̭ṅgu॒ri-ssu॒ṣūmā̭ bahu॒sūva̭rī | tasyai̭ vi॒śpatni̭yai ha॒vi-ssi̭nīvā॒lyai jṷhotana || indraṃ̭-vo~ vi॒śvata॒sparī, ndra॒-nnaraḥ̭ || asi̭tavarṇā॒ hara̭ya-ssupa॒rṇā miho॒ vasā̭nā॒ diva॒mu-tpa̭tanti || ta ā-'va̭vṛtra॒n-thsada̭nāni kṛ॒tvā-''di-tpṛ̭thi॒vī ghṛ॒tairvyṷdyate || hira̭ṇyakeśo॒ raja̭so visā॒re-'hi॒rdhuni॒rvāta̭ iva॒ dhrajī̭mān | śuci̭bhrājā u॒ṣaso॒ [u॒ṣasaḥ̭, navḙdā॒ yaśa̭svatī-] 38
navḙdā॒ yaśa̭svatī-rapa॒syuvo॒ na sa॒tyāḥ || ā tḙ supa॒rṇā a̭minanta॒ evaiḥ᳚ kṛ॒ṣṇo no̭nāva vṛṣa॒bho yadī॒dam | śi॒vābhi॒rna smaya̭mānābhi॒rā-'gā॒-tpata̭nti॒ mihaḥ̭ sta॒naya̭ntya॒bhrā || vā॒śreva̭ vi॒dyunmi̭māti va॒thsa-nna mā॒tā si̭ṣakti | yadḙṣāṃ-vṛ~॒ṣṭirasa̭rji || parva̭taści॒nmahi̭ vṛ॒ddho bi̭bhāya di॒vaści॒-thsānṷ rejata sva॒ne vaḥ̭ | ya-tkrīḍa̭tha maruta [marutaḥ, ṛ॒ṣṭi॒manta॒] 39
ṛṣṭi॒manta॒ āpa̭ iva sa॒ddhriya̭ñco dhavaddhve || a॒bhi kra̭nda sta॒naya॒ garbha॒mā dhā̭ uda॒nvatā॒ pari̭ dīyā॒ rathḙna | dṛti॒gṃ॒ su ka̭rṣa॒ viṣi̭ta॒-nnya̭ñcagṃ sa॒mā bha̭vantū॒dvatā̭ nipā॒dāḥ || tva-ntyā ci॒dacyu॒tā-'gnḙ pa॒śurna yava̭se | dhāmā̭ ha॒ ya-ttḙ ajara॒ vanā̭ vṛ॒ścanti॒ śikva̭saḥ || agne॒ bhūrī̭ṇi॒ tava̭ jātavedo॒ deva̭ svadhāvo॒-'mṛta̭sya॒ dhāma̭ | yāśca̭ [ ] 40
mā॒yā mā॒yināṃ᳚-vi~śvaminva॒ tve pū॒rvī-ssa̭nda॒dhuḥ pṛ̭ṣṭabandho || di॒vo no̭ vṛ॒ṣṭi-mma̭ruto rarīddhva॒-mprapi̭nvata॒ vṛṣṇo॒ aśva̭sya॒ dhārāḥ᳚ | a॒rvāṃe॒tena̭ stanayi॒tnunehya॒po ni̭ṣi॒ñcannasṷraḥ pi॒tā naḥ̭ || pinva̭ntya॒po ma॒rutaḥ̭ su॒dāna̭vaḥ॒ payo̭ ghṛ॒tava̭dvi॒dathe᳚ṣvā॒ bhuvaḥ̭ | atya॒-nna mi॒he vi na̭yanti vā॒jina॒muthsa̭-nduhanti sta॒naya̭nta॒makṣi̭tam || u॒da॒pruto̭ maruta॒stāgṃ i̭yarta॒ vṛṣṭiṃ॒- [vṛṣṭi᳚m, ye viśvḙ] 41
-~ye viśvḙ ma॒ruto̭ ju॒nanti̭ | krośā̭ti॒ gardā̭ ka॒nyḙva tu॒nnā perṷ-ntuñjā॒nā patyḙva jā॒yā || ghṛ॒tena॒ dyāvā̭pṛthi॒vī madhṷnā॒ samṷkṣata॒ paya̭svatīḥ kṛṇa॒tā-''pa॒ oṣa̭dhīḥ | ūrja̭-ñca॒ tatra̭ suma॒ti-ñca̭ pinvatha॒ yatrā̭ naro maruta-ssi॒ñcathā॒ madhṷ || udu॒tyam, ci॒tram || au॒rva॒-bhṛ॒gu॒vacchuci̭mapnavāna॒vadā hṷve | a॒gnigṃ sa̭mu॒dravā̭sasam || ā sa॒vagṃ sa̭vi॒turya̭thā॒ bhaga̭sye va bhu॒jigṃ hṷve | a॒gnigṃ sa̭mu॒dravā̭sasam || hu॒ve vāta̭svana-ṅka॒vi-mpa॒rjanya̭krandya॒gṃ॒ sahaḥ̭ | a॒gnigṃ sa̭mu॒dravā̭sasam || 42 ||
(vī॒ra - iṣagṃ̭ - ha॒vya - mu॒ṣaso̭ - maruta - śca॒ - vṛṣṭiṃ॒ - bhaga̭sya॒ - dvāda̭śa ca) (a. 11)
(pra॒jāpa̭tirakāmayatai॒ - ṣa tḙ gāya॒tro - ya॒jñaṃ-vai~ - pra॒jāpa̭te॒rjāya̭mānāḥ - prājāpa॒tyā - yo vā aya̭thādevata - mi॒ṣṭargo̭ - nigrā॒bhyā᳚-sstha॒ - yo vai de॒vā - ñjuṣṭo॒ - 'gninā̭ ra॒yi - mekā̭daśa )
(pra॒jāpa̭tirakāmayata - pra॒jāpa̭te॒rjāya̭mānā॒ - vyāya̭cchante॒ - mahya̭mi॒mā - nmā॒yā mā॒yinā॒n - dvica̭tvārigṃśat)
(pra॒jāpa̭tirakāmayatā॒, a॒gnigṃ sa̭mu॒dravā̭sasaṃ )
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya saṃhitāyā-ntṛtīyakāṇḍe prathamaḥ praśna-ssamāptaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.