श्रीमद्वाल्मीकीय रामायणे सुन्दरकाण्डम् ।
अथ षष्ठस्सर्गः ।
स निकामं विमानेषु निषण्णः कामरूपधृत् ।
विचचार पुनर्लङ्कां लाघवेन समन्वितः ॥ 1 ॥
आससादाथ लक्ष्मीवान्राक्षसेन्द्रनिवेशनम् ।
प्राकारेणार्कवर्णेन भास्वरेणाभिसम्वृतम् ॥ 2 ॥
रक्षितं राक्षसैर्घोरैः सिंहैरिव महद्वनम् ।
समीक्षमाणो भवनं चकाशे कपिकुञ्जरः ॥ 3 ॥
रूप्यकोपहितै श्चित्रैस्तोरणैर्हेमभूषितैः ।
विचित्राभिश्च कक्ष्याभिर्द्वारैश्च रुचिरैर्वृतम् ॥ 4 ॥
गजास्थितैर्महामात्रैः शूरैश्च विगतश्रमैः ।
उपस्थितमसंहार्यैः र्हयैः स्यन्दनयायिभिः ॥ 5 ॥
सिंहव्याघ्रतनुत्राणैर्दान्तकाञ्चनराजतैः ।
घोषवद्भिर्विचित्रैश्च सदा विचरितं रथैः ॥ 6 ॥
बहुरत्नसमाकीर्णं परार्थ्यसनभाजनम् ।
महारथसमावासं महारथमहास्वनम् ॥ 7 ॥
दृश्यैश्च परमोदारैस्तैस्तैश्च मृगपक्षिभिः ।
विविधै र्बहुसाहस्रैः परिपूर्णं समन्ततः ॥ 8 ॥
विनीतैरन्तपालैश्च रक्षोभिश्च सुरक्षितम् ।
मुख्याभिश्च वरस्त्रीभिः परिपूर्णं समन्ततः ॥ 9 ॥
मुदितप्रमदारत्नं राक्षसेन्द्रनिवेशनम् ।
वराभरणसंह्रादैः समुद्रस्वनन्निस्वनम् ॥ 10 ॥
तद्राजगुणसम्पन्नं मुख्यैश्चागुरुचन्दनैः ।
महाजनैः समाकीर्णां सिंहैरिव महद्वनम् ॥ 11 ॥
भेरीमृदङ्गाभिरुतं शङ्खघोषनिनादितम् ।
नित्यार्चितं पर्वहुतं पूजितं राक्षसैः सदा ॥ 12 ॥
समुद्रमिव गम्भीरं समुद्रमिव निस्स्वनम् ।
महात्मनो महाद्वेश्म महारत्नपरिच्छदम् ॥ 13 ॥
महारत्नसमाकीर्णं ददर्श स महाकपिः ।
विराजमानं वपुषा गजाश्वरथसङ्कुलम् ॥ 14 ॥
लङ्काभरणमित्येव सोऽमन्यत महाकपिः ।
चचार हनुमांस्तत्र रावणस्य समीपतः ॥ 15 ॥
गृहाद्गृहं राक्षसानामुद्यानानि च वानरः ।
वीक्षमाणोऽह्यसन्त्रस्तः प्रासादांश्च चचार सः ॥ 16 ॥
अवप्लुत्य महावेगः प्रहस्तस्य निवेशनम् ।
ततोऽन्यत्पुप्लुवे वेश्म महापार्श्वस्य वीर्यवान् ॥ 17 ॥
अथ मेघप्रतीकाशं कुम्भकर्णनिवेशनम् ।
विभीषणस्य च तदा पुप्लुवे स महाकपिः ॥ 18 ॥
महोदरस्य च गृहं विरूपाक्षस्य चैव हि ।
विद्युज्जिह्वस्य भवनं विद्युन्मालेस्तथैव च ॥ 19 ॥
वज्रदंष्ट्रस्य च तथा पुप्लुवे स महाकपिः ।
शुकस्य च महातेजाः सारणस्य च धीमतः ॥ 20 ॥
तथा चेन्द्रजितो वेश्म जगाम हरियूथपः ।
जम्बुमालेः सुमालेश्च जगाम हरिसत्तमः ॥ 21 ॥
रश्मिकेतोश्च भवनं सूर्यकेतोस्तथैव च ।
वज्रकायस्य च तथा पुप्लुवे स महाकपिः ॥ 22 ॥
धूम्राक्षस्य च सम्पातेर्भवनं मारुतात्मजः ।
विद्युद्रूपस्य भीमस्य घनस्य विघनस्य च ॥ 23 ॥
शुकनासस्य वक्रस्य शठस्य विकटस्य च ।
ब्रह्मकर्णस्य दंष्ट्रस्य रोमशस्य च रक्षसः ॥ 24 ॥
युद्धोन्मत्तस्य मत्तस्य ध्वजग्रीवस्य नादिनः ।
विद्युज्जिह्वेन्द्रजिह्वानां तथा हस्तिमुखस्य च ॥ 25 ॥
करालस्य पिशाचस्य शोणित अक्षस्य चैव हि ।
क्रममाणः क्रमेण एव हनूमान् मारुत आत्मजः ॥ 26 ॥
तेषु तेषु महार्हेषु भवनेषु महायशाः ।
तेषामृद्धिमतामृद्धिं ददर्श स महाकपिः ॥ 27 ॥
सर्वेषां समतिक्रम्य भवनानि समन्ततः ।
आससादाथ लक्ष्मीवान् राक्षसेद्रनिवेशनम् ॥ 28 ॥
रावणस्योपशायिन्यो ददर्श हरिसत्तमः ।
विचरन्हरिशार्दूलो राक्षसीर्विकृतेक्षणाः ॥ 29 ॥
शूलमुद्गरहस्ताश्च शक्तितोमरधारिणीः ।
ददर्श विविधान् गुल्मान् तस्य रक्षःपतेर्गृहे ॥ 30 ॥
राक्षसांश्च महाकायान्नानाप्रहरणोद्यतान् ।
रक्तान् श्वेतान् सितांश्चैव हरींश्चापि महाजवान् ॥ 31 ॥
कुलीनान् रूपसम्पन्नान् गजान्परगजारुजान् ।
निष्ठितान् गजशिक्षयामैरावतसमान्युधि ॥ 32 ॥
निहन्त्रून् परसैन्यानां गृहे तस्मिन् ददर्श सः ।
क्षरतश्च यथा मेघान् स्रवतश्च यथा गिरीन् ॥ 33 ॥
मेघसन्ततिनिर्घोषान् दुर्धर्षान् समरे परैः ।
सहस्रं वाहिनीस्तत्र जाम्बूनदपरिष्कृताः ॥ 34 ॥
हेमजालपरिच्छन्नास्तरुणादित्यसन्निभाः ।
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ॥ 35 ॥
शिबिका विविधाकाराः स कपिर्मारुतात्मजः ।
लतागृहाणि चित्राणि चित्रशालागृहाणि च ॥ 36 ॥
क्रीडागृहाणि चान्यानि दारुपर्वतकानपि ।
कामस्य गृहकं रम्यं दिवागृहकमेव च ॥ 37 ॥
ददर्श राक्षसेन्द्रस्य रावणस्य निवेशने ।
स मन्दरगिरिप्रख्यं मयूरस्थानसङ्कुलम् ॥ 38 ॥
ध्वजयष्टिभिराकीर्णं ददर्श भवनोत्तमम् ।
अनेकरत्नसङ्कीर्णं निधिजालं समन्ततः ॥ 39 ॥
धीरनिष्ठितकर्मान्तं गृहं भूतपतेरिव ।
अर्चिर्भिश्चापि रत्नानां तेजसा रावणस्य च ॥ 40 ॥
विरराजाथ तद्वेश्म रश्मिमानिव रश्मिभिः ।
जाम्बूनदमयान्येन शयनान्यासनानि च ॥ 41 ॥
भाजनानि च मुख्यानि ददर्श हरियूथपः ।
मध्वासवकृतक्लेदं मणिभाजनसङ्कुलम् ॥ 42 ॥
मनोरममसम्बाधं कुबेरभवनं यथा ।
नूपुराणां च घोषेण काञ्चीनां निनदेन च ॥ 43 ॥
मृदङ्तलघोषैश्च घोषवद्भिर्विनादितम् ।
प्रासादसङ्घातयुतं स्त्रीरत्नशतसङ्कुलम् ॥ 44 ॥
इत्यार्षे श्रीमद्रामायणे वाल्मीकीय आदिकाव्ये सुन्दरकाण्डे षष्ठस्सर्गः ॥
Roman (IAST) Transliteration
śrīmadvālmīkīya rāmāyaṇe sundarakāṇḍam |
atha ṣaṣṭhassargaḥ |
sa nikāmaṃ vimāneṣu niṣaṇṇaḥ kāmarūpadhṛt |
vicacāra punarlaṅkāṃ lāghavena samanvitaḥ || 1 ||
āsasādātha lakṣmīvānrākṣasendraniveśanam |
prākāreṇārkavarṇena bhāsvareṇābhisamvṛtam || 2 ||
rakṣitaṃ rākṣasairghoraiḥ siṃhairiva mahadvanam |
samīkṣamāṇo bhavanaṃ cakāśe kapikuñjaraḥ || 3 ||
rūpyakopahitai ścitraistoraṇairhemabhūṣitaiḥ |
vicitrābhiśca kakṣyābhirdvāraiśca rucirairvṛtam || 4 ||
gajāsthitairmahāmātraiḥ śūraiśca vigataśramaiḥ |
upasthitamasaṃhāryaiḥ rhayaiḥ syandanayāyibhiḥ || 5 ||
siṃhavyāghratanutrāṇairdāntakāñcanarājataiḥ |
ghoṣavadbhirvicitraiśca sadā vicaritaṃ rathaiḥ || 6 ||
bahuratnasamākīrṇaṃ parārthyasanabhājanam |
mahārathasamāvāsaṃ mahārathamahāsvanam || 7 ||
dṛśyaiśca paramodāraistaistaiśca mṛgapakṣibhiḥ |
vividhai rbahusāhasraiḥ paripūrṇaṃ samantataḥ || 8 ||
vinītairantapālaiśca rakṣobhiśca surakṣitam |
mukhyābhiśca varastrībhiḥ paripūrṇaṃ samantataḥ || 9 ||
muditapramadāratnaṃ rākṣasendraniveśanam |
varābharaṇasaṃhrādaiḥ samudrasvanannisvanam || 10 ||
tadrājaguṇasampannaṃ mukhyaiścāgurucandanaiḥ |
mahājanaiḥ samākīrṇāṃ siṃhairiva mahadvanam || 11 ||
bherīmṛdaṅgābhirutaṃ śaṅkhaghoṣanināditam |
nityārcitaṃ parvahutaṃ pūjitaṃ rākṣasaiḥ sadā || 12 ||
samudramiva gambhīraṃ samudramiva nissvanam |
mahātmano mahādveśma mahāratnaparicchadam || 13 ||
mahāratnasamākīrṇaṃ dadarśa sa mahākapiḥ |
virājamānaṃ vapuṣā gajāśvarathasaṅkulam || 14 ||
laṅkābharaṇamityeva so'manyata mahākapiḥ |
cacāra hanumāṃstatra rāvaṇasya samīpataḥ || 15 ||
gṛhādgṛhaṃ rākṣasānāmudyānāni ca vānaraḥ |
vīkṣamāṇo'hyasantrastaḥ prāsādāṃśca cacāra saḥ || 16 ||
avaplutya mahāvegaḥ prahastasya niveśanam |
tato'nyatpupluve veśma mahāpārśvasya vīryavān || 17 ||
atha meghapratīkāśaṃ kumbhakarṇaniveśanam |
vibhīṣaṇasya ca tadā pupluve sa mahākapiḥ || 18 ||
mahodarasya ca gṛhaṃ virūpākṣasya caiva hi |
vidyujjihvasya bhavanaṃ vidyunmālestathaiva ca || 19 ||
vajradaṃṣṭrasya ca tathā pupluve sa mahākapiḥ |
śukasya ca mahātejāḥ sāraṇasya ca dhīmataḥ || 20 ||
tathā cendrajito veśma jagāma hariyūthapaḥ |
jambumāleḥ sumāleśca jagāma harisattamaḥ || 21 ||
raśmiketośca bhavanaṃ sūryaketostathaiva ca |
vajrakāyasya ca tathā pupluve sa mahākapiḥ || 22 ||
dhūmrākṣasya ca sampāterbhavanaṃ mārutātmajaḥ |
vidyudrūpasya bhīmasya ghanasya vighanasya ca || 23 ||
śukanāsasya vakrasya śaṭhasya vikaṭasya ca |
brahmakarṇasya daṃṣṭrasya romaśasya ca rakṣasaḥ || 24 ||
yuddhonmattasya mattasya dhvajagrīvasya nādinaḥ |
vidyujjihvendrajihvānāṃ tathā hastimukhasya ca || 25 ||
karālasya piśācasya śoṇita akṣasya caiva hi |
kramamāṇaḥ krameṇa eva hanūmān māruta ātmajaḥ || 26 ||
teṣu teṣu mahārheṣu bhavaneṣu mahāyaśāḥ |
teṣāmṛddhimatāmṛddhiṃ dadarśa sa mahākapiḥ || 27 ||
sarveṣāṃ samatikramya bhavanāni samantataḥ |
āsasādātha lakṣmīvān rākṣasedraniveśanam || 28 ||
rāvaṇasyopaśāyinyo dadarśa harisattamaḥ |
vicaranhariśārdūlo rākṣasīrvikṛtekṣaṇāḥ || 29 ||
śūlamudgarahastāśca śaktitomaradhāriṇīḥ |
dadarśa vividhān gulmān tasya rakṣaḥpatergṛhe || 30 ||
rākṣasāṃśca mahākāyānnānāpraharaṇodyatān |
raktān śvetān sitāṃścaiva harīṃścāpi mahājavān || 31 ||
kulīnān rūpasampannān gajānparagajārujān |
niṣṭhitān gajaśikṣayāmairāvatasamānyudhi || 32 ||
nihantrūn parasainyānāṃ gṛhe tasmin dadarśa saḥ |
kṣarataśca yathā meghān sravataśca yathā girīn || 33 ||
meghasantatinirghoṣān durdharṣān samare paraiḥ |
sahasraṃ vāhinīstatra jāmbūnadapariṣkṛtāḥ || 34 ||
hemajālaparicchannāstaruṇādityasannibhāḥ |
dadarśa rākṣasendrasya rāvaṇasya niveśane || 35 ||
śibikā vividhākārāḥ sa kapirmārutātmajaḥ |
latāgṛhāṇi citrāṇi citraśālāgṛhāṇi ca || 36 ||
krīḍāgṛhāṇi cānyāni dāruparvatakānapi |
kāmasya gṛhakaṃ ramyaṃ divāgṛhakameva ca || 37 ||
dadarśa rākṣasendrasya rāvaṇasya niveśane |
sa mandaragiriprakhyaṃ mayūrasthānasaṅkulam || 38 ||
dhvajayaṣṭibhirākīrṇaṃ dadarśa bhavanottamam |
anekaratnasaṅkīrṇaṃ nidhijālaṃ samantataḥ || 39 ||
dhīraniṣṭhitakarmāntaṃ gṛhaṃ bhūtapateriva |
arcirbhiścāpi ratnānāṃ tejasā rāvaṇasya ca || 40 ||
virarājātha tadveśma raśmimāniva raśmibhiḥ |
jāmbūnadamayānyena śayanānyāsanāni ca || 41 ||
bhājanāni ca mukhyāni dadarśa hariyūthapaḥ |
madhvāsavakṛtakledaṃ maṇibhājanasaṅkulam || 42 ||
manoramamasambādhaṃ kuberabhavanaṃ yathā |
nūpurāṇāṃ ca ghoṣeṇa kāñcīnāṃ ninadena ca || 43 ||
mṛdaṅtalaghoṣaiśca ghoṣavadbhirvināditam |
prāsādasaṅghātayutaṃ strīratnaśatasaṅkulam || 44 ||
ityārṣe śrīmadrāmāyaṇe vālmīkīya ādikāvye sundarakāṇḍe ṣaṣṭhassargaḥ ||
Sanskrit — Devanagari (original)

🕉️ This is the original Sanskrit rendered in Devanagari script.
Pronunciation is identical to the Sanskrit Devanagari version.