📄 Save this Stotram as PDF Click the button to open the Save dialog
How to save: 1 Click "Save as PDF" 2 A dialog opens 3 Choose "Save as PDF" as printer 4 Click Save
श्री महान्यासम् (पूर्णं)
Shri Mahanyasam (purnam)
Devanagari
कलश प्रतिष्ठापन मन्त्राः
ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विवः॑ ।
नाके॑ सुप॒र्ण मुप॒य-त्पत॑न्तग्ं हृ॒दा वेन॑न्तो अ॒भ्यच॑क्ष-तत्वा ।
हिर॑ण्यपक्षं॒-वँरु॑णस्य दू॒तं-यँ॒मस्य॒ योनौ॑ शकु॒न-म्भु॑र॒ण्युम् ।
आप्या॑यस्व॒ समे॑तु ते वि॒श्वतः॑ सोम॒ वृष्णि॑यम् । भवा॒ वाज॑स्य सङ्ग॒थे ।
यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒
भुव॑ना-ऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु । 1 (अप उपस्पृश्य)
इ॒दं-विँष्णु॒ र्विच॑क्रमे त्रे॒धा निद॑धे प॒दम् । समू॑ढमस्य पाग्ं सु॒रे ।
इन्द्रं॒-विँश्वा॑ अवीवृधन्-थ्समु॒द्रव्य॑चस॒-ङ्गिरः॑ ।
र॒थीत॑मग्ं रथी॒नां-वाँजा॑ना॒ग्ं॒ सत्प॑ति॒-म्पति᳚म् ।
आपो॒ वा इ॒दंग्ं सर्वं॒-विँश्वा॑ भू॒तान्यापः॑ प्रा॒णा वा आपः॑ प॒शव॒ आपो-ऽन्न॒मापो-ऽमृ॑त॒माप॑-स्स॒म्राडापो॑ वि॒राडाप॑-स्स्व॒राडाप॒-श्छन्दा॒ग्॒श्यापो॒ ज्योती॒ग्॒ष्यापो॒ यजू॒ग्॒ष्याप॑-स्स॒त्यमाप॒-स्सर्वा॑ दे॒वता॒ आपो॒ भूर्भुव॒स्सुव॒राप॒ ओम् । 2
अ॒पः प्रण॑यति । श्र॒द्धा वा आपः॑ । श्र॒द्धामे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
य॒ज्ञो वा आपः॑ । य॒ज्ञमे॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति ।
वज्रो॒ वा आपः॑ । वज्र॑मे॒व भ्रातृ॑व्येभ्यः प्र॒हृत्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
आपो॒ वै र॑क्षो॒घ्नीः । रक्ष॑सा॒मप॑हत्यै । अ॒पः प्रण॑यति ।
आपो॒ वै दे॒वाना᳚-म्प्रि॒य-न्धाम॑ । दे॒वाना॑मे॒व प्रि॒य-न्धाम॑ प्र॒णीय॒ प्रच॑रति । अ॒पः प्रण॑यति ।
आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वारभ्य॑ प्र॒णीय॒ प्रच॑रति ।
अ॒पः प्रण॑यति ।
आपो॒ वै शा॒न्ताः । शा॒न्ताभि॑रे॒वास्य॒ शुचग्ं॑ शमयति । दे॒वो वः॑
3
सवि॒तो-त्पु॑ना॒त्व-च्छि॑द्रेण प॒वित्रे॑ण॒ वसो॒स्सूर्य॑स्य र॒श्मिभिः॑ ॥ 3
कूर्चाग्रै र्राक्षसा-न्घोरान् छिन्धि कर्मविघातिनः ।
त्वामर्पयामि कुम्भे-ऽस्मिन् साफल्य-ङ्कुरु कर्मणि ।
वृक्षराज समुद्भूता-श्शाखायाः पल्लवत्व चः ।
युष्मान् कुम्भेष्वर्पयामि सर्वपापापनुत्तये ।
नालिकेर-समुद्भूत त्रिनेत्र हर सम्मित ।
शिखया दुरितं सर्व-म्पाप-म्पीडा-ञ्च मे नुद ।
स॒ हि रत्ना॑नि दा॒शुषे॑ सु॒वाति॑ सवि॒ता भगः॑ ।
त-म्भा॒ग-ञ्चि॒त्रमी॑महे । (ऋग्वेद मन्त्रः)
तत्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒-स्तदाशा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒द्ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
ओ-म्भूर्भुव॒स्सुव॒रोम् । अस्मिन् कुम्भे वरुणमावाहयामि ।
वरुणस्य इदमासनम् । वरुणाय नमः । सकलाराधनै-स्स्वर्चितम् ।
रत्नसिंहासनं समर्पयामि । पाद्यं समर्पयामि ।
अर्घ्यं समर्पयामि । आचमनीयं समर्पयामि ।
मधुपर्क्कं समर्पयामि । स्नानं समर्पयामि ।
स्नानानन्तरं आचमनीयं समर्पयामि ।
वस्त्रोत्तरीयं समर्पयामि । उपवीतं समर्पयामि ।
गन्धा-न्धारयामि । अक्षतान् समर्पयामि ।
पुष्पाणि समर्पयामि ।
1. ॐ-वँरुणाय नमः
2. ओ-म्प्रचेतसे नमः
3. ॐ सुरूपिणे नमः
4. ॐ अपाम्पतये नमः
5. ओ-म्मकरवाहनाय नमः
6. जलाधिपतये नमः
7. ओ-म्पाशहस्ताय नमः
8. ओ-न्तीर्थराजाय नमः
ॐ-वँरुणाय नमः । नानाविध परिमल पत्र पुष्पाणि समर्पयामि ।
धूपं आघ्रापयामि । दीप-न्दर्​शयामि ।
धूपदीपानन्तरं आचमनीयं समर्पयामि ।
ओ-म्भूर्भुवस्सुवः । तथ्स॑वि॒तुर्वरे᳚ण्य॒-म्भर्गो॑ दे॒वस्य॑ धीमहि ।
धियो॒ योन॑ प्रचो॒दया᳚त् ।
देव सवितः प्रसुवः । सत्य-न्त्वर्तेन परिषिञ्चामि ।
(रात्रौ - ऋत-न्त्वा सत्येन परिषिञ्चामि) ।
ॐ-वँरुणाय नमः । अमृत-म्भवतु । अमृतोपस्तरणमसि ।
ओ-म्प्राणाय स्वाहा । ॐ अपानाय स्वाहा । ॐ-व्याँनाय स्वाहा ।
ॐ उदानाय स्वाहा । ॐ समानाय स्वाहा । ओ-म्ब्रह्मणे स्वाहा ।
कदलीफल-न्निवेदयामि । मद्ध्येमद्ध्ये अमृतपानीयं समर्पयामि । अमृतापिधानमसि । नैवेद्यानन्तरं आचमनीयं समर्पयामि ।
ताम्बूलं समर्पयामि । कर्पूर नीराजन-म्प्रदर्​शयामि ।
नीराजनानन्तरं आचमनीयं समर्पयामि । मन्त्र पुष्पं समर्पयामि ।
सुवर्ण पुष्पं समर्पयामि । समस्तोपचारान् समर्पयामि ॥
1. पञ्चाङ्ग रुद्रन्यासः
अथातः पञ्चाङ्गरुद्राणां
न्यासपूर्वक-ञ्जप-होमा-र्चना-भिषेक-विधिं-व्याँ᳚ख्यास्यामः ।
अथातः पञ्चाङ्गरुद्राणां
न्यासपूर्वक-ञ्जप-होमा-र्चनाभिषेक-ङ्करिष्यमाणः ।
हरिः ॐ अथातः पञ्चाङ्ग रुद्राणाम् ॥
ओङ्कारमन्त्र सं​युँक्त-न्नित्य-न्ध्यायन्ति योगिनः ।
कामद-म्मोक्षद-न्तस्मै ओङ्काराय नमो नमः ॥
नमस्ते देव देवेश नमस्ते परमेश्वर ।
नमस्ते वृषभारूढ नकाराय नमो नमः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ओ-म्भूर्भुव॒स्सुवः॑ ॥ ओ-न्नम् ॥
नम॑स्ते रुद्र म॒न्यव॑ उ॒तोत॒ इष॑वे॒ नमः॑ ।
नम॑स्ते अस्तु॒ धन्व॑ने बा॒हुभ्या॑मु॒त ते॒ नमः॑ ॥
या त॒ इषुः॑ शि॒वत॑मा शि॒व-म्ब॒भूव॑ ते॒ धनुः॑ ।
शि॒वा श॑र॒व्या॑ या तव॒ तया॑ नो रुद्र मृडय ।
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ नं ओम् । पूर्वाङ्ग रुद्राय॒ नमः ॥ (प्राच्यै दिश, East)
महादेव-म्महात्मान-म्महापातकनाशनम् ।
महापापहरं-वँन्दे मकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ओ-म्मम् ॥
ओ-न्निध॑नपतये॒ नमः । निधनपतान्तिकाय॒ नमः ।
ऊर्ध्वाय॒ नमः । ऊर्ध्वलिङ्गाय॒ नमः ।
हिरण्याय॒ नमः । हिरण्यलिङ्गाय॒ नमः ।
सुवर्णाय॒ नमः । सुवर्णलिङ्गाय॒ नमः ।
दिव्याय॒ नमः । दिव्यलिङ्गाय॒ नमः ।
भवायः॒ नमः । भवलिङ्गाय॒ नमः ।
शर्वाय॒ नमः । शर्वलिङ्गाय॒ नमः ।
शिवाय॒ नमः । शिवलिङ्गाय॒ नमः ।
ज्वलाय॒ नमः । ज्वललिङ्गाय॒ नमः ।
आत्माय॒ नमः । आत्मलिङ्गाय॒ नमः ।
परमाय॒ नमः । परमलिङ्गाय॒ नमः ।
एतथ्सोमस्य॑ सूर्य॒स्य सर्वलिङ्गग्ग्॑ स्थाप॒य॒ति॒ पाणिमन्त्र-म्पवि॒त्रम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ मं ओम् ॥
दक्षिणाङ्ग रुद्राय॒ नमः ॥ (दक्षिण दिश, South)
शिवं शान्त-ञ्जगन्नाथं-लोँकानुग्रहकारणम् ।
शिवमेक-म्परं-वँन्दे शिकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ॐ शिम् ॥
अपै॑तुमृ॒त्युरमृत॑-न्न॒ आग॑न् वैवस्व॒तो नो॒ अ॑भय-ङ्कृणोतु । प॒र्णं-वँन॒स्पतेरिवा॒भिनश्शीयताग्ं र॒यिस्सच॑ता-न्न॒श्शची॒पतिः॑ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ शिं ओम् ॥ पश्चिमाङ्ग रुद्राय॒ नमः ॥ (पश्चिम दिश, West)
वाहनं-वृँषभो यस्य वासुकी कण्ठभूषणम् ।
वामे शक्तिधरं-वँन्दे वकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ॐ-वाँम् ॥
प्राणाना-ङ्ग्रन्थिरसि रुद्रो मा॑ विशा॒न्तकः । तेनान्नेना᳚प्याय॒स्व ॥ ओ-न्नमो भगवते रुद्राय विष्णवे मृत्यु॑र्मे पा॒हि ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ वां ओम् ॥ उत्तराङ्ग रुद्राय॒ नमः ॥ (उत्तर दिश, North)
यत्र कुत्र स्थित-न्देवं सर्वव्यापिनमीश्वरम् ।
यल्लिङ्ग-म्पूजयेन्नित्यं-यँकाराय नमो नमः ॥
ओ-म्भूर्भुव॒स्सुवः॒ ॥ ॐ-यँम् ॥
यो रु॒द्रो अ॒ग्नौ यो अ॒प्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना वि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ यं ओम् ॥ ऊर्ध्वाङ्ग रुद्राय॒ नमः ॥ (ऊर्ध्व दिश, Up)
2. पञ्चमुख ध्यानम्
ओ-न्नम् ॥ तत्पुरु॒षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि । तन्नो॑ रुद्रः प्रचोदया᳚त् ॥
सं​वँर्ताग्नि तटित्प्रदीप्त कनक प्रस्पर्थि तेजोमयम् ।
गम्भीरध्वनि सामवेदजनक-न्ताम्राधरं सुन्दरम् ।
अर्धेन्दुद्युति लोलपिङ्गल जटाभारप्रबद्धोरगम् ।
वन्दे सिद्ध सुरासुरेन्द्रनमित-म्पूर्व-म्मुखं शूलिनः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ओ-न्नम् ॥ पूर्व मुखाय॒ नमः ॥
अ॒घोरे᳚भ्यो-ऽथघो॒रे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ॥ सर्वे᳚भ्यस्सर्व शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
कालाभ्रभ्रमराञ्जनद्युतिनिभं-व्याँवृत्त पिङ्गेक्षणम्
कर्णोद्भासित भोगिमस्तक मणिप्रोद्गीर्ण दंष्ट्राङ्कुरम् ।
सर्पप्रोत कपाल शुक्ति शकल व्याकीर्ण सच्छेखरम्
वन्दे दक्षिणमीश्वरस्य कुटिल भ्रूभङ्ग रौद्र-म्मुखम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ओ-म्मम् ॥ दक्षिण मुखाय॒ नमः ॥
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ । भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
प्रालेयाचलमिन्दुकुन्द धवल-ङ्गोक्षीरफेनप्रभम्
भस्माभ्यक्तमनङ्ग देह दहन ज्वालावली लोचनम् ।
ब्रह्मेन्द्रादि मरुद्गणैस्पुतिपदै रभ्यर्चितं-योँगिभिः
वन्दे-ऽहं सकल-ङ्कलङ्करहितं स्थाणोर्मुख-म्पश्चिमम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ॐ शिम् ॥ पश्चिम मुखाय॒ नमः ॥
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥
गौर-ङ्कुङ्कुम पङ्किलं स्तिलकं-व्याँपाण्डु गण्डस्थलम्
भ्रूविक्षेप कटाक्ष लसत्संसक्त कर्णोत्फलम् ।
स्निग्ध-म्बिम्बफलाधर-म्प्रहसित-न्नीलालकाल-ङ्कृतम्
वन्दे पूर्ण शशाङ्क मण्डलनिभं-वँक्त्रं हरस्योत्तरम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ॐ-वाँम् ॥ उत्तर मुखाय॒ नमः ॥
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒ना॒-म्ब्रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ (कनिष्ठिकाभ्या-न्नमः)
व्यक्ताव्यक्त गुणेतर-म्परतरं षट्त्रिंशतत्त्वात्मकम्
तस्मादुत्तम तत्त्वमक्षरमिद-न्ध्येयं सदा योगिभिः ।
ओङ्कारादि समस्त मन्त्रजनकं सूक्ष्मादि सूक्ष्म-म्परं
शान्त-म्पञ्चममीश्वरस्य वदन-ङ्खं​व्याँप्ति तेजोमयम् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ ॐ-वाँम् ॥ ऊर्ध्व मुखाय॒ नमः ॥
दिङ्नमस्कारः
पूर्वे पशुपतिः पातु । दक्षिणे पातु शङ्करः ।
पश्चिमे पातु विश्वेशः । नीलकण्ठस्तदोत्तरे ॥
ईशान्या-म्पातु मे शर्वः । आग्नेया-म्पार्वतीपतिः ।
नैऋत्या-म्पातु मे रुद्रः । वायव्या-न्नीललोहितः ॥
ऊर्ध्वे त्रिलोचनः पातु । अधराया-म्महेश्वरः ।
एताभ्यो दश दिग्भ्यस्तु । सर्वतः पातु शङ्करः ॥
(ना रुद्रो रुद्रमर्चये᳚त् ।
न्यासपूर्वक-ञ्जपहोमार्चना-ऽभिषेकविधि व्याख्यास्यामः ।)
3. अङ्गन्यासः
या ते॑ रुद्र शि॒वा त॒नूरघो॒रा-ऽपा॑पकाशिनी ।
तया॑ न स्त॒नुवा॒ शन्त॑मया॒ गिरि॑शन्ता॒भि चा॑कशीहि ।
शिखायै नमः । 1
अ॒स्मि-न्म॑ह॒त्य॑र्ण॒वे᳚-ऽन्तरि॑क्षे भ॒वा अधि॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽव॒धन्वा॑नि तन्मसि ।
शिरसे नमः । 2
स॒हस्रा॑णि सहस्र॒शो ये रु॒द्रा अधि॒ भूम्या᳚म् ।
तेषाग्ं॑ सहस्र-योज॒ने-ऽव॒धन्वा॑नि तन्मसि ।
ललाटाय नमः । 3
ह॒ग्ं॒स-श्शु॑चि॒ष-द्वसु॑रन्तरिक्ष॒सद्धोता॑ वेदि॒षदति॑थि-र्दुरोण॒सत् ।
नृ॒षद्व॑र॒-सदृ॑त॒-सद्व्यो॑म॒ सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒त-म्बृ॒हत् ।
भ्रुवोर्मद्ध्याय नमः । 4
त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्
मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता᳚त् ।
नेत्राभ्या-न्नमः । 5
नम॒-स्स्रुत्या॑य च॒ पथ्या॑य च॒ नमः॑ का॒ट्या॑य च नी॒प्या॑य च ।
कर्णाभ्या-न्नमः । 6
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
वी॒रान्मानो॑ रुद्र भामि॒तो व॑धीर्-ह॒विष्म॑न्तो॒ नम॑सा विधेम ते ।
नासिकाभ्या-न्नमः । 7
अ॒व॒तत्य॒ धनु॒स्त्वग्ं सह॑स्राक्ष॒ शते॑षुधे ।
नि॒शीर्य॑ श॒ल्याना॒-म्मुखा॑ शि॒वो नः॑ सु॒मना॑ भव ।
मुखाय नमः । 8
नील॑ग्रीवा श्शिति॒कण्ठा᳚-श्श॒र्वा अ॒धः, क्ष॑माच॒राः ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
कण्ठाय नमः । 9.1
नील॑ग्रीवा-श्शिति॒कण्ठा॒ दिवग्ं॑ रु॒द्रा उप॑श्रिताः ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
उपकण्ठाय नमः । 9.2
नम॑स्ते अ॒स्त्वायु॑धा॒या-ना॑तताय धृ॒ष्णवे᳚ ।
उ॒भाभ्या॑मु॒त ते॒ नमो॑ बा॒हुभ्या॒-न्तव॒ धन्व॑ने ।
बाहुभ्या-न्नमः । 10
या ते॑ हे॒ति-र्मी॑ढुष्टम॒ हस्ते॑ ब॒भूव॑ ते॒ धनुः॑ ।
तया॒-ऽस्मान् वि॒श्वत॒स्त्व-म॑य॒क्ष्मया॒ परि॑ब्भुज ।
उपबाहुभ्या-न्नमः । 11
परि॑णो रु॒द्रस्य॑ हे॒ति-र्वृ॑णक्तु॒ परि॑त्वे॒षस्य॑ दुर्म॒तिर॑घा॒योः ।
अव॑ स्थि॒रा म॒घव॑द्भ्यः तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृडय ।
मणिबन्धाभ्या-न्नमः । 12
ये ती॒र्थानि॑ प्र॒चर॑न्ति सृ॒काव॑न्तो निष॒ङ्गिणः॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
हस्ताभ्या-न्नमः । 13
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑ भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
अगुंष्ठाभ्या-न्नमः । 14.1
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ।
तर्जनीभ्या-न्नमः । 14.2
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्र रू॑पेभ्यः ॥
मद्ध्यमाभ्या-न्नमः । 14.3
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
अनामिकाभ्या-न्नमः । 14.4
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वर-स्सर्व॑भूता॒नां॒
रह्माधि॑पति॒-र्ब्रह्म॒णो ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
कनिष्ठिकाभ्या-न्नमः । 14.5
नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ग्ं॒ हृद॑येभ्यः ।
हृदयाय नमः । 15
नमो॑ ग॒णेभ्यो॑ ग॒णप॑तिभ्यश्च वो॒ नमः॑ ।
पृष्ठाय नमः । 16
नमो॒ हिर॑ण्यबाहवे सेना॒न्ये॑ दि॒शाञ्च॒ पत॑ये॒ नमः॑ ।
पार्​श्वाभ्या-न्नमः । 17
विज्य॒-न्धनुः॑ कप॒र्दिनो॒ विश॑ल्यो॒ बाण॑वाग्ं उ॒त ।
अने॑शन्न॒स्येष॑व आ॒भुर॑स्य निष॒ङ्गथिः॑ ।
जठराय नमः । 18
हि॒र॒ण्य॒ग॒र्भ स्सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वी-न्द्यामु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ।
नाभ्यै नमः । 19
मीढु॑ष्टम॒ शिव॑तम शि॒वो न॑स्सु॒मना॑ भव ।
प॒र॒मे वृ॒क्ष आयु॑ध-न्नि॒धाय॒ कृत्तिं॒-वँसा॑न॒ आच॑र॒ पिना॑क॒-म्बिभ्र॒दाग॑हि ।
कठ्यै नमः । 20
ये भू॒ताना॒-मधि॑पतयो विशि॒खासः॑ कप॒र्दि॑नः ।
तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
गुह्याय नमः । 21
ये अन्ने॑षु वि॒विद्ध्य॑न्ति॒ पात्रे॑षु॒ पिब॑तो॒ जनान्॑ ।
तेषाग्ं॑ सहस्रयोज॒ने-ऽ व॒धन्वा॑नि तन्मसि ।
अण्डाभ्या-न्नमः । 22
स॒ शि॒रा जा॒तवे॑दा अ॒क्षर॑-म्पर॒म-म्प॒दम् ।
वेदा॑ना॒ग्ं॒ शिर॑सि मा॒ता॒ आ॒यु॒ष्मन्त॑-ङ्करोतु॒ माम् ।
अपानाय नमः । 23
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् ।
मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिषः ।
ऊरुभ्या-न्नमः । 24
ए॒ष ते॑ रुद्रभा॒ग-स्तञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो
मूज॑व॒तो-ऽती॒ह्यव॑तत-धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ।
जानुभ्या-न्नमः । 25
स॒ग्ं॒ सृ॒ष्ट॒जिथ्सो॑म॒पा बा॑हु-श॒र्ध्यू᳚र्ध्व ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ ।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒बाध॑मानः ।
जङ्घाभ्या-न्नमः । 26
विश्व॑-म्भू॒त-म्भुव॑न-ञ्चि॒त्र-म्ब॑हु॒धा जा॒त-ञ्जाय॑मान-ञ्च॒ यत् ।
सर्वो॒ ह्ये॑ष रु॒द्र-स्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु ॥
गुल्फाभ्या-न्नमः । 27
ये प॒था-म्प॑थि॒रक्ष॑य ऐलबृ॒दा य॒व्युधः॑ ।
तेषाग्ं॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
पादाभ्या-न्नमः । 28
अद्ध्य॑वोच-दधिव॒क्ता प्र॑थ॒मो दैव्यो॑ भि॒षक् ।
अहीग्॑श्च॒ सर्वा᳚न् ज॒भं​यँ॒-न्थ्सर्वा᳚श्च यातु धा॒न्यः॑ ।
कवचाय हुम् । 29
नमो॑ बि॒ल्मिने॑ च कव॒चिने॑ च॒
नमः॑ श्रु॒ताय॑ च श्रुतसे॒नाय॑ च ।
उपकवचाय हुम् । 30
नमो॑ अस्तु॒ नील॑ग्रीवाय सहस्रा॒क्षाय॑ मी॒ढुषे᳚ ।
अथो॒ ये अ॑स्य॒ सत्वा॑नो॒-ऽह-न्तेभ्यो॑-ऽकर॒न्नमः॑ ।
तृतीय नेत्राय नमः । 31
प्रमु॑ञ्च॒ धन्व॑न॒स्त्व-मु॒भयो॒-रार्त्नि॑यो॒र्ज्याम् ।
याश्च॑ ते॒ हस्त॒ इष॑वः॒ परा॒ ता भ॑गवो वप ।
अस्त्राय फट् । 32
य ए॒ताव॑न्तश्च॒ भूयाग्ं॑सश्च॒ दिशो॑ रु॒द्रा वि॑तस्थि॒रे ।
तेषाग्ं॑॑ सहस्रयोज॒ने ऽव॒धन्वा॑नि तन्मसि ।
इति दिग्बन्धः । 33
-----------इति प्रथम न्यासः------------
(शिखादि अस्त्रपर्यन्तं एकत्रिंशदङ्गन्यासः दिग्बन्ध सहितः प्रथमः)
4. दशाङ्ग न्यासः
ओ-न्नमो भगवते॑ रुद्रा॒य । इति नमस्कारा-न्न्यसे᳚त् ॥
ॐ ओ-म्मूर्थ्ने नमः (मूर्ध्नि) ।
ओ-न्न-न्नासिकायै नमः (नासिकाग्रः) ।
ओ-म्मों-लँलटाय नमः (ललाटः) ।
ओ-म्भ-म्मुखाय नमः (मुखाम्) ।
ओ-ङ्ग-ङ्कण्ठाय नमः (कण्ठः) ।
ॐ-वंँ हृदयाय नमः (हृदयः) ।
ओ-न्ते-न्दक्षिण हस्ताय नमः (दक्षिण हस्तः) ।
ॐ रुं-वाँम हस्ताय नमः (वाम हस्तः) ।
ओ-न्द्रा-न्नाभ्यै नमः (नाभ्ही) ।
ॐ-यँ-म्पादाभ्या-न्नमः (पादौ) ॥
[अप उपस्पृश्य]
-----------इति द्वितीय न्यासः----------
मूर्धादि पादान्त-न्दशाङ्ग न्यासः द्वितीयः
5. पञ्चाङ्ग न्यासः
स॒द्यो जा॒त-म्प्र॑पद्या॒मि॒ स॒द्यो जा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् । भ॒वो-द्भ॑वाय॒ नमः॑ ॥
पादाभ्या-न्नमः । 1
[अप उपस्पृश्य]
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒
काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒
बल॑प्रमथनाय॒ नम॒ स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ।
ऊरुमध्यमाभ्या-न्नमः । 2
अ॒घोरे᳚भ्यो ऽथ॒घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
सर्वे᳚भ्य-स्सर्व॒ शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥
हृदयाय नमः । 3
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥
मुखाय नमः । 4
ईशान-स्सर्व॑विद्या॒ना॒-मीश्वरसर्व॑ भूता॒नां॒
ब्रह्माधि॑पति॒-र्ब्रह्म॒णो-ऽधि॑पति॒-र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥
मूर्ध्ने नमः । 5
5.1 हंस गायत्री
अस्य श्री हंसगायत्री महामन्त्रस्य, अव्यक्त परब्रह्म ऋषिः,
अनुष्टु-प्छन्दः, परमहंसो देवता ।
हंसा-म्बीजम्, हंसीं शक्तिः । हंसू-ङ्कीलकम् ।
1
परमहंस प्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ 1
करन्यासः -
हंसां अगुंष्ठाभ्या-न्नमः । हंसी-न्तर्जनीभ्या-न्नमः ।
हंसूं - मद्ध्यमाभ्या-न्नमः । हंसैं - अनामिकाभ्या-न्नमः ।
हंसौं - कनिष्ठिकाभ्या-न्नमः । हंसः-करतल करपृष्ठाभ्या-न्नमः । 2
हृदयादि न्यासः -
हंसां - हृदयाय नमः । हंसीं - शिरसे स्वाहा ।
हंसूं - शिखायै वषट् । हंसैं - कवचाय हुम् ।
हंसौं - नेत्रत्रयाय वौषट् । हंसः - अस्त्राय फट् ॥
ओ-म्भूर्भुव॒स्सुव॒रोमिति दिग्बन्धः । 3
ध्यानं -
गमागमस्थ-ङ्गमनादिशून्य-ञ्चि-द्रूपदीप-न्तिमिरापहारम् ।
4
पश्यामि ते सर्वजनान्तरस्थ-न्नमामि हंस-म्परमात्मरूपम् ॥ 4
देहो देवालयः प्रोक्तो जीवो देव-स्सनातनः ।
त्यजेदज्ञाननिर्माल्यं सो-ऽहम्भावेन पूजयेत् ॥
हं॒स हं॒साय॑ वि॒द्महे॑ परमहं॒साय॑ धीमहि ।
5
तन्नो॑ हंसः प्रचो॒दया᳚त् ॥ 5
(इति त्रिवार-ञ्जपित्वा)
हंस हं॒सेति यो ब्रूया-धंसो (ब्रूयाद्धंसो) नाम सदाशिवः ।
6
एव-न्न्यास विधि-ङ्कृत्वा तत-स्सम्पुटमारभेत् ॥ 6
5.2 दिक् सम्पुटन्यासः (सम्पुटीकरणम्)
इन्द्रादी-न्दिक्षुविन्यस्य ।
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्र-म्पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
पूर्वदिग्भागे इन्द्राय नमः ॥ 1 (तै.सं.1-6-12-50)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्नम् ।
त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडो-ऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । नं ओम् ।
आग्नेयदिग्भागे अग्नये नमः ॥ 2 (तै.सं.2-5-12-72)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-म्मोम् ।
सु॒ग-न्नः॒ पन्था॒मभ॑य-ङ्कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । मों ओम् ।
दक्षिणदिग्भागे यमाय नमः ॥ 3 (तै.ब्रा.3-1-2-11-23)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-म्भम् ।
असु॑न्वन्त॒मय॑जमानमिच्छ स्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । भं ओम् ।
निर्-ऋतिदिग्भागे निर्-ऋतये नमः ॥ 4 (तै.सं.4-2-5-21)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-ङ्गम् ।
तत्त्वा॑ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । गं ओम् ।
पश्चिमदिग्भागे वरुणाय नमः ॥ 5 (तै.सं.2-1-11-65)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ-वँम् ।
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् । स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । वं ओम् ।
वायव्यदिग्भागे वायवे नमः ॥ 6 (तै.ब्रा.2-8-1-2)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्तेम् ।
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒ बिभ्र॑तः ।
प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । तें ओम् ।
उत्तरदिग्भागे कुबेराय नमः ॥ 7 (तै.ब्रा.2-4-2-7-18)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ रुम् ।
तमीशा᳚न॒-ञ्जग॑तस्त॒स्थुष॒स्पति᳚-न्धिय-ञ्जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध-स्स्व॒स्तये᳚ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । रुं ओम् ।
8
ईशान्यदिग्भागे ईशानाय नमः ॥ 8
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्द्राम् ।
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
य-श्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्मां अ॑वन्तु दे॒वाः ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । द्रां ओम् ।
9
ऊर्ध्वदिग्भागे आकाशाय नमः ॥ 9
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ-यँम् ।
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः᳚ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । यं ओम् ।
10
अधोदिग्भागे पृथिव्यै नमः ॥ 10
[अप उपस्पृश्य]
5.3 दशाङ्ग रौद्रीकरणम्
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्रा॒तार॒मिन्द्र॑ मवि॒तार॒मिन्द्र॒ग्ं॒ हवे॑ हवे सु॒हव॒ग्ं॒ शूर॒मिन्द्र᳚म् ।
हु॒वे नु श॒क्र-म्पु॑रुहू॒तमिन्द्रग्ग्॑ स्व॒स्ति नो॑ म॒घवा॑ धा॒त्विन्द्रः॑ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
पूर्वदिग्भागे ललाटस्थाने इन्द्राय नमः ॥ 1 ॥ (तै.सं.1-6-12-50)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्नम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
त्व-न्नो॑ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेडो-ऽव॑ यासिसीष्ठाः ।
यजि॑ष्ठो॒ वह्नि॑तम॒-श्शोशु॑चानो॒ विश्वा॒ द्वेषाग्ं॑सि॒ प्रमु॑मुग्ध्य॒स्मत् ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । नं ओम् ।
आग्नेयदिग्भागे नेत्रयोस्थाने अग्नये नमः ॥ 2 ॥ (तै.सं.2-5-12-72)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-म्मोम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
सु॒ग-न्नः॒ पन्था॒मभ॑य-ङ्कृणोतु । यस्मि॒न्नक्ष॑त्रे य॒म एति॒ राजा᳚ ।
यस्मि॑न्नेनम॒भ्यषि॑ञ्चन्त दे॒वाः । तद॑स्य चि॒त्रग्ं ह॒विषा॑ यजाम ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । मों ओम् ।
दक्षिणदिग्भागे कर्णयोस्थाने यमाय नमः ॥ 3 ॥ (तै.ब्रा.3-1-2-11-23)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-म्भम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
असु॑न्वन्त॒ मय॑जमानमिच्छस्ते॒नस्ये॒त्यान्तस्क॑र॒स्यान्वे॑षि ।
अ॒न्यम॒स्मदि॑च्छ॒ सा त॑ इ॒त्या नमो॑ देवि निर्.ऋते॒ तुभ्य॑मस्तु ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । भं ओम् ।
निर्.ऋतिदिग्भागे मुखस्थाने निर्.ऋतये नमः ॥ 4 ॥ (तै.सं.4-2-5-21)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-ङ्गम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तत्त्वा॑यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ ।
अहे॑डमानो वरुणे॒ह बो॒ध्युरु॑शग्ंस॒ मा न॒ आयुः॒ प्रमो॑षीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । गं ओम् ।
पश्चिमदिग्भागे बाह्वोस्थाने वरुणाय नमः ॥ 5 ॥ (तै.सं.2-1-11-65)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ-वँम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
आ नो॑ नि॒युद्भिः॑ श॒तिनी॑भिरध्व॒रग्म् । स॑ह॒स्रिणी॑भि॒रुप॑ याहि य॒ज्ञम् ।
वायो॑ अ॒स्मिन् ह॒विषि॑ मादयस्व । यू॒य-म्पा॑त स्व॒स्तिभि॒-स्सदा॑ नः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । वं ओम् ।
वायव्यदिग्भागे नासिकास्थाने वायवे नमः ॥ 6 ॥ (तै.ब्रा.2-8-1-2)
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्तेम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
व॒यग्ं सो॑म व्र॒ते तव॑ । मन॑स्त॒नूषु॒बिभ्र॑तः ।
प्र॒जाव॑न्तो अशीमहि । इ॒न्द्रा॒णी दे॒वी सु॒भगा॑ सु॒पत्नी᳚ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । तें ओम् ।
उत्तरदिग्भागे जठरस्थाने कुबेराय नमः ॥ 7 ॥ (तै.ब्रा.2-4-2-7-18)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ रुम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तमीशा᳚न॒-ञ्जग॑तस्त॒स्थुष॒स्पति᳚-न्धिय-ञ्जि॒न्वमव॑से हूमहे व॒यम् ।
पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्ध-स्स्व॒स्तये᳚ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । रुं ओम् ।
ईशान्यदिग्भागे नाभिस्थाने ईशानाय नमः ॥ 8 ॥
ओ-म्भूर्भुव॒स्सुवः॑ । ओ-न्द्राम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ ।
य-श्शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । द्रां ओम् ।
ऊर्ध्वदिग्भागे मूर्ध्निस्थाने आकाशाय नमः ॥ 9 ॥
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ-यँम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स्यो॒ना पृ॑थिवि॒ भवा॑नृक्ष॒रा नि॒वेश॑नी ।
यच्छा॑ न॒-श्शर्म॑ स॒प्रथाः᳚ ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । यं ओम् ।
अधोदिग्भागे पादस्थाने पृथिव्यै नमः ॥ 10 ॥
[अप उपस्पृश्य]
5.4 षोडशाङ्ग रौद्रीकरणं
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ अम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
वि॒भूर॑सि प्र॒वाह॑णो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । अं ओम् ।
शिखास्थाने रुद्राय नमः ॥ 1 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ आम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
वह्नि॑रसि हव्य॒वाह॑नो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । आं ओम् ।
शिरस्थाने रुद्राय नमः ॥ 2 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ इम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
श्वा॒त्रो॑सि॒ प्रचे॑ता॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । इं ओम् ।
मूर्ध्निस्थाने रुद्राय नमः ॥ 3 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ईम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
तु॒थो॑सि वि॒श्ववे॑दा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ईं ओम् ।
ललाटस्थाने रुद्राय नमः ॥ 4 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ उम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
उ॒शिग॑सिक॒वी रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । उं ओम् ।
नेत्रयोस्थाने रुद्राय नमः ॥ 5 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ऊम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अङ्घा॑रिरसि॒ बम्भा॑री॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ऊं ओम् ।
कर्णयोस्थाने रुद्राय नमः ॥ 6 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ऋम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒व॒स्युर॑सि॒ दुव॑स्वा॒-न्रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ऋं ओम् ।
मुखस्थाने रुद्राय नमः ॥ 7 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ॠम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
शु॒न्ध्यूर॑सि मार्जा॒लीयो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ॠं ओम् ।
कण्ठस्थाने रुद्राय नमः ॥ 8 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ऌम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
स॒म्राड॑सि कृ॒शानू॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ऌं ओम् ।
बाह्वोस्थाने रुद्राय नमः ॥ 9 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ॡम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
प॒रि॒षद्यो॑सि॒ पव॑मानो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ॡं ओम् ।
हृदिस्थाने रुद्राय नमः ॥ 10 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ एम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
प्र॒तक्वा॑-ऽसि॒ नभ॑स्वा॒-न्रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । एं ओम् ।
नाभिस्थाने रुद्राय नमः ॥ 11 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ऐम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अस॑म्मृष्टोसि हव्य॒सूदो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ऐं ओम् ।
कटिस्थाने रुद्राय नमः ॥ 12 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ ओम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ऋ॒तधा॑मा-ऽसि॒ सुव॑र्ज्योती॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । ॐ ओम् ।
ऊरुस्थाने रुद्राय नमः ॥ 13 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ औम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ब्रह्म॑ज्योतिरसि॒ सुव॑र्धामा॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । औं ओम् ।
जानुस्थाने रुद्राय नमः ॥ 14 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ अम् ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अ॒जो᳚-ऽस्येक॑पा॒त् रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । अं ओम् ।
जङ्घास्थाने रुद्राय नमः ॥ 15 ॥ (तै.सं.1-3-3-5)
ओ-म्भूर्भुव॒स्सुवः॑ । ॐ अः ।
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
अहि॑रसि बु॒ध्नियो॒ रौद्रे॒णानी॑केन पा॒हि मा᳚-ऽग्ने पिपृ॒हि मा॒ मा मा॑ हिग्ंसीः ॥
नमः॑ श॒म्भवे॑ च मयो॒भवे॑ च॒ नमः॑ शङ्क॒राय॑ च
मयस्क॒राय॑ च॒ नमः॑ शि॒वाय॑ च शि॒वत॑राय च॒ ॥
ओ-न्नमो भगवते॑ रुद्रा॒य । अः ओम् ।
पादयो-स्स्थाने रुद्राय नमः ॥ 16 ॥ (तै.सं.1-3-3-5)
[अप उपस्पृश्य]
त्वगस्थिगतै-स्सर्वपापैः प्रमुच्यते । सर्वभूतेष्वपराजितो भवति । ततो भूतप्रेत पिशाच बद्ध ब्रह्मराक्षस यक्ष यमदूत शाकिनी डाकिनी हाकिनी शत्रु सर्प श्वापद तस्कर ज्वराद्युपद्रवजोपघाता-स्सर्वे ज्वलन्त-म्पश्यन्तु ।
[कर्तस्य वचनम्] मां रक्षन्तु ॥
[पुरोहित वचनम्] यजमानग्ं रक्षन्तु ॥
-----------इति तृतीयः न्यासः------------
पादाति मूर्धान्त-म्पञ्चाङ्ग न्यासः
6. आत्मरक्षा
6.1 मनो ज्योतिः
मनो॒ ज्योति॑ र्जुषता॒-माज्यं॒-विँच्छि॑न्नं-यँ॒ज्ञग्ं समि॒म-न्द॑धातु ।
या इ॒ष्टा उ॒षसो॑ नि॒म्रुच॑श्च॒ तास्सन्द॑धामि ह॒विषा॑ घृ॒तेन॑ ।
(गुह्याय नमः) । 1 (तै. सं. 1.5.10.2)
अबो᳚द्ध्य॒ग्नि-स्स॒मिधा॒ जना॑ना॒-म्प्रति॑धे॒नु-मि॑वाय॒ती मु॒षास᳚म् ।
य॒ह्वा इ॑व॒ प्रव॒या-मु॒ज्जिहा॑नाः॒ प्रभा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ।
(नाभ्यै नमः) । 2 (तै. सं. 4.4.4.2)
अ॒ग्नि र्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् ।
अ॒पाग्ं रेताग्ं॑सि जिन्वति । (हृदयाय नमः) । 3 (तै. सं. 1.5.5.1)
मू॒र्धान॑-न्दि॒वो अ॑र॒ति-म्पृ॑थि॒व्या वै᳚श्वान॒र-मृ॒ताय॑ जा॒तम॒ग्निम् ।
क॒विग्ं स॒म्राज॒-मति॑थि॒-ञ्जना॑ना-मा॒सन्ना पात्र॑-ञ्जनयन्त दे॒वाः । (कण्ठाय नमः) । 4 (तै. सं. 1.4.13.1)
मर्मा॑णि ते॒ वर्म॑भिश्छा-दयामि॒ सोम॑स्त्वा॒ राजा॒-ऽमृ॑ते ना॒भिव॑स्ताम् ।
उ॒रो र्वरी॑यो॒ वरि॑वस्ते अस्तु॒ ज॑यन्त॒-न्त्वा मनु॑मदन्तु दे॒वाः ।
(मुखाय नमः) । 5 (तै. सं. 4.6.4.5)
जा॒तवे॑दा॒ यदि॑ वा पाव॒को-ऽसि॑ । वै॒श्वा॒न॒रो यदि॑ वा वैद्यु॒तो-ऽसि॑ ।
श-म्प्र॒जाभ्यो॒ यज॑मानाय लो॒कम् । ऊर्ज॒-म्पुष्टि॒-न्दद॑ द॒भ्याव॑ वृथ्स्व ॥ (शिरसे नमः) ॥ 6 (तै. ब्रा. 3.10.5.1)
6.2 आत्मरक्षा
(तै. ब्रा. 2.3.11.1 - तै. ब्रा. 2.3.11.4)
ब्रह्मा᳚त्म॒न् वद॑सृजत । तद॑कामयत । समा॒त्मना॑ पद्ये॒येति॑ ।
आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ दश॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
स दश॑हूतो-ऽभवत् । दश॑हूतो ह॒वै नामै॒षः । तं-वाँ ए॒त-न्दश॑हूत॒ग्ं॒ सन्त᳚म् ।
1
दश॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 1
आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ सप्त॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
2
स स॒प्तहू॑तो-ऽभवत् । स॒प्तहू॑तो ह॒वै नामै॒षः । तं-वाँ ए॒तग्ं स॒प्तहू॑त॒ग्ं॒ सन्त᳚म् । स॒प्तहो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 2
आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ ष॒ष्ठग्ं हू॒तः प्रत्य॑शृणोत् ।
स षड्ढू॑तो-ऽभवत् । षड्ढू॑तो ह॒वै नामै॒षः । तं-वाँ ए॒तग्ं षड्ढू॑त॒ग्ं॒ सन्त᳚म् ।
3
षड्ढो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 3
आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ पञ्च॒मग्ं हू॒तः प्रत्य॑शृणोत् ।
4
स पञ्च॑हूतो-ऽभवत् । पञ्च॑हूतो ह॒वै नामै॒षः । तं-वाँ ए॒त-म्पञ्च॑हूत॒ग्ं॒ सन्त᳚म् । पञ्च॑हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 4
आत्म॒न्ना-त्म॒न्नित्या-म॑न्त्रयत । तस्मै॑ चतु॒र्थग्ं हू॒तः प्रत्य॑शृणोत् ।
स चतु॑र्​हूतो-ऽभवत् । चतु॑र्​हूतो ह॒वै नामै॒षः । तं-वाँ ए॒त-ञ्चतु॑र्​हूत॒ग्ं॒
5
सन्त᳚म् । चतु॑र्​हो॒तेत्या च॑क्षते प॒रोक्षे॑ण । प॒रोक्ष॑प्रिया इव॒ हि दे॒वाः ॥ 5
तम॑ब्रवीत् । त्वं-वैँ मे॒ नेदि॑ष्ठग्ं हू॒तः प्रत्य॑श्रौषीः ।
त्वयै॑ नानाख्या॒तार॒ इति॑ । तस्मा॒न्नुहै॑ना॒ग्॒-श्च॑तु र्​होतार॒ इत्याच॑क्षते ।
तस्मा᳚च्छुश्रू॒षुः पु॒त्राणा॒ग्ं॒ हृद्य॑तमः । नेदि॑ष्ठो॒ हृद्य॑तमः ।
नेदि॑ष्ठो॒ ब्रह्म॑णो भवति । य ए॒वं-वेँद॑ ॥ 6 (आत्मने॒ नमः॑)
------------इति चतुर्थ न्यासः------------
गुह्यादि मस्तकान्त षडङ्गन्यास-श्चतुर्थः
7. शिवसङ्कल्पाः
(ऋग् वेद खिल काण्डं 4.11 9.1)
येने॒द-म्भू॒त-म्भुव॑न-म्भवि॒ष्य-त्परि॑गृहीत-म॒मृते॑न॒ सर्व᳚म् । येन॑ य॒ज्ञस्ता॑यते
1
(य॒ज्ञस्त्रा॑यते) स॒प्तहो॑ता॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 1
येन॒ कर्मा॑णि प्र॒चर॑न्ति॒ धीरा॒ यतो॑ वा॒चा मन॑सा॒ चारु॒यन्ति॑ ।
2
य-थ्स॒म्मित॒मनु॑ सं॒​यँन्ति॑ प्रा॒णिन॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 2
येन॒ कर्मा᳚ण्य॒पसो॑ मनी॒षिणो॑ य॒ज्ञे कृ॑ण्वन्ति वि॒दथे॑षु॒ धीराः᳚ ।
3
यद॑पू॒र्वं-यँ॒क्ष्मम॒न्तः प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 3
यत्प्र॒ज्ञान॑-मु॒त चेतो॒ धृति॑श्च॒ यज्ज्योति॑ र॒न्तर॒मृत॑-म्प्र॒जासु॑ ।
4
यस्मा॒न्न ऋ॒ते किञ्च॒न कर्म॑ क्रि॒यते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 4
सु॒षा॒र॒थि-रश्वा॑निव॒ यन्म॑नु॒ष्या᳚न्ने नी॒यते॑-ऽभी॒शु॑भि र्वा॒जिन॑ इव ।
5
हृत्प्र॑तिष्ठं॒-यँद॑जिर॒-ञ्जवि॑ष्ठ॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 5
यस्मि॒न् ऋच॒स्साम॒-यजूग्ं॑षि॒ यस्मि॑-न्प्रतिष्ठि॒ता र॑थ॒नाभा॑ वि॒वाराः᳚ ।
6
यस्मिग्ग्॑श्चि॒त्तग्ं सर्व॒मोत॑-म्प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 6
यदत्र॑ ष॒ष्ठ-न्त्रि॒शतग्ं॑ सु॒वीरं॑-यँ॒ज्ञस्य॑ गु॒ह्य-न्नव॑ नाव॒माय्य᳚म् ।
7
दश॒ पञ्च॑ त्रि॒ग्ं॒शतं॒-यँत्पर॑-ञ्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 7
यज्जाग्र॑तो दू॒रमु॒दैति॒ दैव॒-न्तदु॑ सु॒प्तस्य॒ तथै॒वैति॑ ।
8
दू॒र॒ग॒म्म-ञ्ज्योति॑षा॒-ञ्ज्योति॒रेक॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 8
येने॒दं-विँश्व॒-ञ्जग॑तो ब॒भूव॒ ये दे॒वापि॑ मह॒तो जा॒तवे॑दाः ।
9
तदे॒वाग्नि-स्तम॑सो॒ ज्योति॒रेक॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 9
येन॒ द्यौः पृ॑थि॒वी चा॒न्तरि॑क्ष-ञ्च॒ ये पर्व॑ताः प्र॒दिशो॒ दिश॑श्च ।
10
येने॒द-ञ्जग॒-द्व्याप्त॑-म्प्र॒जाना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 10
ये म॑नो॒ हृद॑यं॒-येँ च॑ दे॒वा ये दि॒व्या आपो॒ ये सूर्य॑रश्मिः ।
11
ते श्रोत्रे॒ चक्षु॑षी स॒ञ्चर॑न्त॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 11
अचि॑न्त्य॒-ञ्चा प्र॑मेय॒-ञ्च व्य॒क्ता-व्यक्त॑ पर॒-ञ्च य॑त् ।
12
सूक्ष्मा᳚-थ्सूक्ष्मत॑र-ञ्ज्ञे॒य॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 12
एका॑ च द॒श श॒त-ञ्च॑ स॒हस्र॑-ञ्चा॒युत॑-ञ्च नि॒युत॑-ञ्च प्र॒युतं॒
चार्बु॑द-ञ्च॒ न्य॑र्बुद-ञ्च समु॒द्रश्च॒ मद्ध्य॒-ञ्चान्त॑श्च परा॒र्धश्च॒ तन्मे॒ मनः॑
13
शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 13
ये प॑ञ्च॒ पञ्च॑ दश श॒तग्ं स॒हस्र॑-म॒युत॒-न्न्य॑र्बुद-ञ्च ।
14
ते अ॑ग्नि-चि॒त्येष्ट॑का॒स्तग्ं शरी॑र॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 14
वेदा॒हमे॒त-म्पु॑रुष-म्म॒हान्त॑-मादि॒त्य-व॑र्ण॒-न्तम॑सः॒ पर॑स्तात् ।
15
यस्य॒ योनि॒-म्परि॒पश्य॑न्ति॒ धीरा॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 15
यस्ये॒द-न्धीराः᳚ पु॒नन्ति॑ क॒वयो᳚ ब्र॒ह्माण॑मे॒त-न्त्वा॑ वृणत॒ इन्दु᳚म् ।
16
स्था॒व॒र-ञ्जङ्ग॑मं॒-द्यौ॑राका॒श-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 16
परा᳚-त्प॒रत॑र-ञ्चै॒व॒ य॒-त्परा᳚श्चैव॒ यत्प॑रम् ।
17
य॒त्परा᳚-त्पर॑तो ज्ञे॒य॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 17
परा᳚-त्परत॑रो ब्र॒ह्मा॒ त॒त्परा᳚-त्पर॒तो ह॑रिः ।
18
त॒त्परा᳚-त्पर॑तो ऽधी॒श॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 18
या वे॑दा॒दिषु॑ गाय॒त्री॒ स॒र्व॒व्यापि॑ महे॒श्वरी ।
19
ऋग् य॑जु-स्सामा-थर्वै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 19
यो वै॑ दे॒व-म्म॑हादे॒व॒-म्प्र॒णव॑-म्पर॒मेश्व॑रम् ।
20
य-स्सर्वे॑ सर्व॑ वेदै॒श्च॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 20
प्रय॑तः॒ प्रण॑वोङ्का॒र॒-म्प्र॒णव॑-म्पुरु॒षोत्त॑मम् ।
21
ओकां॑र॒-म्प्रण॑वात्मा॒न॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 21
22
यो-ऽसौ॑ स॒र्वेषु॑ वेदे॒षु॒ प॒ठ्यते᳚ ह्यज॒ ईश्व॑रः । अ॒कायो॑ निर्गु॑णो ह्या॒त्मा॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 22
23
गोभि॒ र्जुष्ट॒-न्धने॑न॒ ह्यायु॑षा च॒ बले॑न च । प्र॒जया॑ प॒शुभिः॑ पुष्करा॒क्ष॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 23
कैला॑स॒ शिख॑रे र॒म्ये॒ श॒ङ्कर॑स्य शि॒वाल॑ये ।
24
दे॒वता᳚स्तत्र॑ मोद॒न्ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 24
25
त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् । उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृ॒त्यो-र्मु॑क्षीय॒ मा-ऽमृता॒-त्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 25
वि॒श्वत॑-श्चक्षुरु॒त वि॒श्वतो॑ मुखो वि॒श्वतो॑ हस्त उ॒त वि॒श्वत॑स्पात् ।
26
सम्बा॒हुभ्यां॒-नम॑ति॒ सम्प॑तत्रै॒ र्द्यावा॑ पृथि॒वी ज॒नय॑-न्दे॒व एक॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 26
27
च॒तुरो॑ वे॒दान॑धीयी॒त॒ स॒र्व शा᳚स्त्रम॒यं-विँ॑दुः । इ॒ति॒हा॒स॒ पु॒रा॒णा॒ना॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 27
28
मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒क-म्मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तर॒-म्मोत मा॒तर॑-म्प्रि॒या मा न॑स्त॒नुवो॑ रुद्र रीरिष॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 28
मा न॑स्तो॒के तन॑ये॒ मा न॒ आयु॑षि॒ मा नो॒ गोषु॒ मा नो॒ अश्वे॑षु रीरिषः ।
29
वी॒रान्मानो॑ रुद्र भामि॒तोव॑धी र्​ह॒विष्म॑न्तो॒ नम॑सा विधेम ते॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 29
ऋ॒तग्ं स॒त्य-म्प॑र-म्ब्र॒ह्म॒ पु॒रुष॑-ङ्कृष्ण॒पिङ्ग॑लम् ।
30
ऊ॒र्ध्वरे॑तं-विँ॑रूपा॒क्षं॒-विँ॒श्वरू॑पाय॒ वै नमो॒ नम॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 30
क-द्रु॒द्राय॒ प्रचे॑तसे मी॒ढुष्ट॑माय॒ तव्य॑से । वो॒चेम॒ शन्त॑मग्ं हृ॒दे ।
31
सर्वो॒ ह्ये॑ष रु॒द्रस्तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 31
ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
32
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒-मस॑तश्च॒ विव॒स्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 32
33
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ । य ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 33
य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒-यँस्य॑ दे॒वाः ।
34
यस्य॑ छा॒या-ऽमृतं॒-यँस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 34
35
यो रु॒द्रो अ॒ग्नौ यो अ॒फ्सु य ओष॑धीषु॒ यो रु॒द्रो विश्वा॒ भुव॑ना-ऽऽवि॒वेश॒ तस्मै॑ रु॒द्राय॒ नमो॑ अस्तु॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 35
36
ग॒न्ध॒द्वा॒रा-न्दु॑राध॒र्​षा॒-न्नि॒त्यपु॑ष्टा-ङ्करी॒षिणी᳚म् । ई॒श्वरीग्ं॑ सर्व॑ भूता॒ना॒-न्तामि॒होप॑ह्वये॒ श्रिय॒-न्तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 36
37
य इदग्ं॑ शिव॑सङ्क॒ल्प॒ग्ं॒ स॒दा ध्या॑यन्ति॒ ब्राह्म॑णाः । ते प॑र-म्मोक्ष॑-ङ्गमिष्य॒न्ति॒ तन्मे॒ मनः॑ शि॒वस॑ङ्क॒ल्पम॑स्तु ॥ 37
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ शिवसङ्कल्पग्ं हृदयाय नमः॑ ॥
7.2 पुरुष सूक्तं
(तै. अर. 3.12.1 - तै. अर. 3.12.7)
स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्ष-स्स॒हस्र॑पात् । स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठ-द्दशाङ्गु॒लम् । पुरु॑ष ए॒वेदग्ं सर्व᳚म् । य-द्भू॒तं-यँच्च॒ भव्य᳚म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑ना-ति॒रोह॑ति ।
1
ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्॑श्च॒ पूरु॑षः ॥ 1
पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒-मृत॑-न्दि॒वि । त्रि॒पादू॒र्ध्व उदै॒-त्पुरु॑षः । पादो᳚ ऽस्ये॒हा-ऽऽभ॑वा॒-त्पुनः॑ ।
2
ततो॒ विष्वं॒-व्यँ॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ॥ तस्मा᳚-द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चा-द्भूमि॒मथो॑ पु॒रः ॥ 2
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत । व॒स॒न्तो अ॑स्यासी॒दाज्य᳚म् । ग्री॒ष्म इ॒द्ध्म श्श॒रद्ध॒विः । स॒प्तास्या॑स-न्परि॒धयः॑ । त्रि-स्स॒प्त स॒मिधः॑ कृ॒ताः । दे॒वाय-द्य॒ज्ञ-न्त॑न्वा॒नाः । अब॑ध्न॒-न्पुरु॑ष-म्प॒शुम् ॥
3
तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्न्॑ । पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ॥ 3
तेन॑ दे॒वा अय॑जन्त । सा॒द्ध्या ऋष॑यश्च॒ ये ।
तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ । सम्भृ॑त-म्पृषदा॒ज्यम् । प॒शूग्​स्ताग्​श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्या-न्ग्रा॒म्याश्च॒ ये । तस्मा᳚-द्य॒ज्ञा-थ्स॑र्व॒हुतः॑ । ऋच॒-स्सामा॑नि जज्ञिरे ।
4
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑-दजायत ॥ 4
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् ।
5
मुख॒-ङ्किम॑स्य॒ कौ बा॒हू । कावू॒रू पादा॑वुच्येते । ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ 5
ऊ॒रू तद॑स्य॒ य-द्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत । च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒-स्सूर्यो॑ अजायत । मुखा॒-दिन्द्र॑श्चा॒ग्निश्च॑ ।
6
प्रा॒णा-द्वा॒युर॑जायत । नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्​ष्णो द्यौ-स्सम॑वर्तत । प॒द्भ्या-म्भूमि॒ र्दिश॒-श्श्रोत्रा᳚त् । तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ 6
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् । आ॒दि॒त्यव॑र्ण॒-न्तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ । नामा॑नि कृ॒त्वाभि॒वद॒न् यदास्ते᳚ । धा॒ता पु॒रस्ता॒-द्यमु॑दाज॒हार॑ । श॒क्रः प्रवि॒द्वा-न्प्र॒दिश॒श्चत॑स्रः । तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॒ अय॑नाय विद्यते ।
7
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः । तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् । ते ह॒ नाक॑-म्महि॒मान॑-स्सचन्ते । यत्र॒ पूर्वे॑ सा॒द्ध्या-स्सन्ति॑ दे॒वाः ॥ 7
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ पुरुषसूक्तग्ं शिरसे स्वाहा ॥
7.3 उत्तर नारायणं
(तै. अर. 3.13.1 - तै. अर. 3.13.2)
अ॒द्भ्य-स्सम्भू॑तः पृथि॒व्यै रसा᳚च्च । वि॒श्वक॑र्मण॒-स्सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑-द्रू॒पमे॑ति । तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ।
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् । आ॒दि॒त्यव॑र्ण॒-न्तम॑सः॒ पर॑स्तात् ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति । नान्यः पन्था॑ विद्य॒ते-ऽय॑नाय । प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः । अ॒जाय॑मानो बहु॒धा विजा॑यते ।
1
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि᳚म् । मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ ॥ 1
यो दे॒वेभ्य॒ आत॑पति । यो दे॒वाना᳚-म्पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुच॑-म्ब्रा॒ह्म-ञ्ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् । यस्त्वै॒व-म्ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न् वशे᳚ । ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्​श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्ट-म्म॑निषाण ।
2
अ॒मु-म्म॑निषाण । सर्व॑-म्मनिषाण ॥ 2
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ उत्तर नारायणग्ं शिखायै वषट् ॥
7.4 अप्रतिरथं
(तै. सं. 4.6.4.1 - तै. सं. 4.6.4.5)
आ॒शु-श्शिशा॑नो वृष॒भो न यु॒ध्मो घ॑नाघ॒नः, क्षोभ॑ण-श्चर्​षणी॒नाम् ।
स॒॒ङ्क्रन्द॑नो-ऽनिमि॒ष ए॑क वी॒रश्श॒तग्ं सेना॑ अजयथ्सा॒-कमिन्द्रः॑ ।
स॒ङ्क्रन्द॑नेना निमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ ।
तदिन्द्रे॑ण जयत॒ तथ्स॑हध्वं॒-युँधो॑ नर॒ इषु॑ हस्तेन॒ वृष्णा᳚ ।
स इषु॑हस्तै॒-स्स नि॑ष॒ङ्गिभि॑ र्व॒शी सग्ग्​स्र॑ष्टा॒ सयुध॒ इन्द्रो॑ ग॒णेन॑ ।
स॒ग्ं॒सृ॒ष्ट॒-जिथ्सो॑म॒पा बा॑हु श॒र्ध्यू᳚र्ध्व-ध॑न्वा॒ प्रति॑हिता-भि॒रस्ता᳚ ।
बृह॑स्पते॒ परि॑दीया॒ रथे॑न रक्षो॒हा-ऽमित्राग्ं॑ अप॒ बाध॑मानः । 1
प्र॒भ॒ञ्ज-न्थ्सेनाः᳚ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑-मेद्ध्यवि॒ता रथा॑नाम् ।
गो॒त्र॒भिद॑-ङ्गो॒विदं॒-वँज्र॑बाहु॒-ञ्जय॑न्त॒मज्म॑ प्रमृ॒णन्त॒-मोज॑सा ।
इ॒मग्ं स॑जाता॒ अनु॑वीर-यध्व॒मिन्द्रग्ं॑ सखा॒यो-ऽनु॒ सर॑भध्वम् ।
ब॒ल॒वि॒ज्ञा॒य-स्स्थवि॑रः॒ प्रवी॑र॒-स्सह॑स्वान् वा॒जी सह॑मान उ॒ग्रः ।
अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒माति॑ष्ठ गो॒वित् । 2
अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानो-ऽदा॒यो वी॒र श्श॒त-म॑न्यु॒रिन्द्रः॑ ।
दु॒श्च्य॒व॒नः पृ॑तना॒षाड॑ यु॒द्ध्यो᳚-ऽस्माक॒ग्ं॒ सेना॑ अवतु॒ प्रयु॒थ्सु ।
इन्द्र॑ आसा-न्ने॒ता बृह॒स्पति॒ र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।
दे॒व॒से॒नाना॑-मभिभ-ञ्जती॒ना-ञ्जय॑न्तीना-म्म॒रुतो॑ य॒न्त्वग्रे᳚ ।
इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्याना᳚-म्म॒रुता॒ग्ं॒ शर्ध॑ उ॒ग्रम् ।
म॒हाम॑नसा-म्भुवनच्य॒वाना॒-ङ्घोषो॑ दे॒वाना॒-ञ्जय॑ता॒ मुद॑स्थात् ।
अ॒स्माक॒-मिन्द्रः॒-समृ॑तेषु-ध्व॒जे-ष्व॒स्माकं॒-याँ इष॑व॒स्ता ज॑यन्तु । 3
अ॒स्माकं॑-वीँ॒रा उत्त॑रे भवन्त्व॒स्मानु॑ देवा अवता॒ हवे॑षु । उद्ध॑र्​षय मघव॒न्ना-यु॑धा॒-न्युथ्सत्व॑ना-म्माम॒काना॒-म्महाग्ं॑सि ।
उद्वृ॑त्रहन् वा॒जिनां॒-वाँजि॑ना॒-न्युद्रथा॑ना॒-ञ्जय॑तामेतु॒ घोषः॑ ।
उप॒प्रेत॒ जय॑ता नर-स्स्थि॒रा वः॑ सन्तु बा॒हवः॑ । इन्द्रो॑ व॒-श्शर्म॑ यच्छत्वना-धृ॒ष्या यथा-ऽस॑थ । अव॑सृष्टा॒ परा॑पत॒ शर॑व्ये॒ ब्रह्म॑ सग्ंशिता । गच्छा॒मित्रा॒-न्प्रवि॑श॒ मैषा॒-ङ्कञ्च॒नोच्छि॑षः ।
मर्मा॑णि ते॒ वर्म॑भिश्छा-दयामि॒ सोम॑स्त्वा॒ राजा॒-ऽमृते॑ना॒-भिव॑स्ताम् । उ॒रो र्वरी॑यो॒ वरि॑वस्ते अस्तु॒ जय॑न्त॒-न्त्वामनु॑ मदन्तु दे॒वाः । यत्र॑ बा॒णा-स्स॒म्पत॑न्ति कुमा॒रा वि॑शि॒खा इ॑व ।
इन्द्रो॑ न॒स्तत्र॑ वृत्र॒हा वि॑श्वा॒हा शर्म॑ यच्छतु ॥ 4 ॥
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ आशुश्शिशानो-ऽप्रतिरथ-ङ्कवचाय हुम् ।
7.5 प्रति पूरुषं
(तै. सं. 1.8.6.1 - तै. सं. 1.8.6.2)
(तै. ब्रा. 1.6.10.1 - तै. ब्रा. 1.6.10.5)
प्र॒ति॒पू॒रु॒ष मेक॑कपाला॒-न्निर्व॑प॒त्ये-क॒मति॑रिक्तं॒-याँव॑न्तो गृ॒ह्या᳚-स्स्मस्तेभ्यः॒ कम॑कर-म्पशू॒नाग्ं शर्मा॑सि॒ शर्म॒ यज॑मानस्य॒ शर्म॑ मे
य॒च्छैक॑ ए॒व रु॒द्रो न द्वि॒तीया॑य तस्थ आ॒खुस्ते॑ रुद्र प॒शुस्त-ञ्जु॑षस्वै॒ष ते॑ रुद्र भा॒ग-स्स॒ह स्वस्रां-ऽबि॑कया॒ तञ्जु॑षस्व भेष॒ज-ङ्गवे-ऽश्वा॑य॒
पुरु॑षाय भेष॒जमथो॑ अ॒स्मभ्य॑-म्भेष॒जग्ं सुभे॑षजं॒-यँथा-ऽस॑ति । 1
सु॒ग-म्मे॒षाय॑ मे॒ष्या॑ अवा᳚बं रु॒द्रम॑दि-म॒ह्यव॑ दे॒व-न्त्र्य॑बङ्कम् ।
यथा॑ न॒-श्श्रेय॑सः॒ कर॒द्यथा॑ नो॒ वस्य॑ सः॒ कर॒द्यथा॑ नः पशु॒मतः॒
कर॒द्यथा॑ नो व्यवसा॒यया᳚त् । त्र्य॑बङ्कं-यँजामहे सुग॒न्धि-म्पु॑ष्टि॒वर्ध॑नम् ।
उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑ना-न्मृ॒त्यो र्मु॑क्षीय॒ मा-ऽमृता᳚त् । ए॒षते॑ रुद्र भा॒ग स्तञ्जु॑षस्व॒ तेना॑व॒सेन॑ प॒रो मूज॑व॒तो-ऽती॒ह्यव॑तत
2
धन्वा॒ पिना॑कहस्तः॒ कृत्ति॑वासाः ॥ 2
प्र॒ति॒पू॒रु॒ष-मेक॑कपाला॒-न्निर्व॑पति । जा॒ता ए॒व प्र॒जा रु॒द्रा-न्नि॒रव॑दयते । एक॒मति॑रिक्तम् । ज॒नि॒ष्यमा॑णा ए॒व प्र॒जा रु॒द्रा-न्नि॒रव॑दयते । एक॑कपाला भवन्ति । ए॒क॒धैव रु॒द्र-न्नि॒रव॑दयते । नाभिघा॑रयति । यद॑भिघा॒रये᳚त् । अ॒न्त॒र॒व॒-चा॒रिणग्ं॑ रु॒द्र-ङ्कु॑र्यात् ।
ए॒को॒ल्मु॒केन॑ यन्ति । 3
तद्धि रु॒द्रस्य॑ भाग॒धेय᳚म् । इ॒मा-न्दिशं॑-यँन्ति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑ मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते । रु॒द्रो वा अ॑प॒शुका॑या॒ आहु॑त्यै॒ नाति॑ष्ठत । अ॒सौ ते॑ प॒शुरिति॒ निर्दि॑शे॒द्य-न्द्वि॒ष्यात् । यमे॒व द्वेष्टि॑ ।
तम॑स्मै प॒शु-न्निर्दि॑शति । यदि॒ न द्वि॒ष्यात् ।
आ॒खुस्ते॑ प॒शुरिति॑ ब्रूयात् । 4
न ग्रा॒म्या-न्प॒शून् हि॒नस्ति॑ । नार॒ण्यान् । च॒तु॒ष्प॒थे जु॑होति । ए॒ष वा अ॑ग्नी॒ना-म्पड्बी॑शो॒ नाम॑ । अ॒ग्नि॒वत्ये॒व जु॑होति ।
म॒द्ध्य॒मेन॑ प॒र्णेन॑ जुहोति । स्रुग्घ्ये॑षा । अथो॒ खलु॑ । अ॒न्त॒मेनै॒व हो॑त॒व्य᳚म् । अ॒न्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते । 5
एष॒ ते॑ रुद्रभा॒ग-स्स॒हस्वस्रां-ऽबि॑क॒येत्या॑ह । श॒रद्वा अ॒स्याम्बि॑का॒ स्वसा᳚ ।
तया॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तयै॒वैनग्ं॑ स॒ह श॑मयति ।
भे॒ष॒जङ्गव॒ इत्या॑ह । याव॑न्त ए॒व ग्रा॒म्याः प॒शवः॑ । तेभ्यो॑ भेष॒ज-ङ्क॑रोति । अवा᳚बं रु॒द्रम॑दि म॒हीत्या॑ह । आ॒शिष॑मे॒वै-तामा शा᳚स्ते । 6
त्र्य॑बङ्कं-यँजामह॒ इत्या॑ह । मृ॒त्यो र्मु॑क्षीय॒ मा-ऽमृता॒-दिति॒ वा वै तदा॑ह ।
उत्कि॑रन्ति । भग॑स्य लीफ्सन्ते । मूते॑ कृ॒त्वा स॑जन्ति ।
7
यथा॒ जनं॑-यँ॒ते॑-ऽव॒स-ङ्क॒रोति॑ । ता॒दृगे॒व तत् । ए॒ष ते॑ रुद्रभा॒ग इत्या॑ह नि॒रव॑त्यै । अप्र॑तीक्ष॒-माय॑न्ति । अ॒पः परि॑षिञ्चति । रु॒द्रस्या॒न्त र्​हि॑त्यै । प्रवा ए॒ते᳚-ऽस्मा-ल्लो॒का-च्च्य॑वन्ते । ये त्र्य॑बङ्कै॒-श्चर॑न्ति । आ॒दि॒त्य-ञ्च॒रु-म्पुन॒रेत्य॒ निर्व॑पति । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठन्ति ॥ 7
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ प्रतिपूरुषं-विँभाडिति नेत्रत्रया॑य वौ॒षट् ॥
7.6 शत रुद्रीयं (त्वमग्ने रुद्रो-ऽनुवाकः)
तै. ब्रा. 3.11.2.1 - तै. ब्रा. 3.11.2.4
त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वः । त्वग्ं शर्धो॒ मारु॑त-म्पृ॒क्ष ई॑शिषे ।
त्वं-वाँतै॑ररु॒णै र्या॑सि शङ्ग॒यः । त्व-म्पू॒षा वि॑ध॒तः पा॑सि॒ नुत्मनाः᳚ ।
देवा॑ दे॒वेषु॑ श्रयद्ध्वम् । प्रथ॑मा द्वि॒तीये॑षु श्रयद्ध्वम् ।
द्विती॑या-स्तृ॒तीये॑षु श्रयद्ध्वम् । तृती॑या-श्चतु॒र्थेषु॑ श्रयद्ध्वम् ।
च॒तु॒र्थाः प॑ञ्च॒मेषु॑ श्रयद्ध्वम् । प॒ञ्च॒मा-ष्ष॒ष्ठेषु॑ श्रयद्ध्वम् । 1
ष॒ष्ठा-स्स॑प्त॒मेषु॑ श्रयद्ध्वम् । स॒प्त॒मा अ॑ष्ट॒मेषु॑ श्रयद्ध्वम् ।
अ॒ष्ट॒मा न॑व॒मेषु॑ श्रयद्ध्वम् । न॒व॒मा द॑श॒मेषु॑ श्रयद्ध्वम् ।
द॒श॒मा ए॑काद॒शेषु॑ श्रयद्ध्वम् । ए॒क॒द॒शा द्वा॑द॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒द॒शा-स्त्र॑योद॒शेषु॑ श्रयद्ध्वम् । त्र॒यो॒द॒शा-श्च॑तु र्दे॒शेषु॑ श्रयद्ध्वम् ।
च॒तु॒र्द॒शाः प॑ञ्चद॒शेषु॑ श्रयद्ध्वम् । प॒ञ्च॒द॒शा-ष्षो॑ड॒शेषु॑ श्रयद्ध्वम् । 2
षो॒ड॒शा-स्स॑प्तद॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒द॒शा अ॑ष्टाद॒शेषु॑ श्रयद्ध्वम् ।
अ॒ष्टा॒द॒शा ए॑कान्नवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒का॒न्न॒वि॒ग्ं॒शा वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
वि॒ग्ं॒शा ए॑कवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
ए॒क॒वि॒ग्ं॒शा द्वा॑वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
द्वा॒वि॒ग्ं॒शा स्त्र॑योवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
त्र॒यो॒वि॒ग्ं॒शा श्च॑तुर्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । च॒तु॒र्वि॒ग्ं॒शाः प॑ञ्चवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् ।
प॒ञ्च॒वि॒ग्ं॒शा-ष्ष॑ड्वि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । 3
ष॒ड्वि॒ग्ं॒शा स्स॑प्तवि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । स॒प्त॒वि॒ग्ं॒शा अ॑ष्टावि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । अ॒ष्टा॒वि॒ग्ं॒शा ए॑कान्नत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । ए॒का॒न्न॒त्रि॒ग्ं॒शा स्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । त्रि॒ग्ं॒शा ए॑कत्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । ए॒क॒त्रि॒ग्ं॒शा द्वा᳚त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । द्वा॒त्रि॒ग्ं॒शा त्र॑यस्त्रि॒ग्ं॒शेषु॑ श्रयद्ध्वम् । देवा᳚स्त्रिरेकादशा॒ स्त्रिस्त्र॑यस्त्रिग्ंशाः । उत्त॑रे भवत । उत्त॑र वर्त्मान॒ उत्त॑र सत्वानः । यत्का॑म इ॒द-ञ्जु॒होमि॑ । तन्मे॒ समृ॑द्ध्यताम् । व॒यग्ग्​स्या॑म॒ पत॑यो रयी॒णाम् । भूर्भुव॒स्व॑स्स्वाहा᳚ । 4
ओ-न्नमो भगवते॑ रुद्रा॒य ॥ त्वमग्ने त्वमग्ने शतरुद्रीयमित्यस्त्राय फट् ॥
7.7 पञ्चाङ्ग जपः
अथ पञ्चाङ्गजपः ॥
स॒द्योजा॒त-म्प्र॑पद्या॒मि॒ स॒द्योजा॒ताय॒ वै नमो॒ नमः॑ ।
भ॒वे भ॑वे॒ नाति॑भवे भवस्व॒ माम् ।
1
भ॒वोद्भ॑वाय॒ नमः॑ ॥ 1
2
वा॒म॒दे॒वाय॒ नमो᳚ ज्ये॒ष्ठाय॒ नमः॑ श्रे॒ष्ठाय॒ नमो॑ रु॒द्राय॒ नमः॒ काला॑य॒ नमः॒ कल॑विकरणाय॒ नमो॒ बल॑विकरणाय॒ नमो॒ बला॑य॒ नमो॒ बल॑प्रमथनाय॒ नम॒-स्सर्व॑भूतदमनाय॒ नमो॑ म॒नोन्म॑नाय॒ नमः॑ ॥ 2
अ॒घोरे᳚भ्यो-ऽथ॒ घोरे᳚भ्यो॒ घोर॒घोर॑तरेभ्यः ।
3
सर्वे᳚भ्य-स्सर्व॒शर्वे᳚भ्यो॒ नम॑स्ते अस्तु रु॒द्ररू॑पेभ्यः ॥ 3
तत्पुरु॑षाय वि॒द्महे॑ महादे॒वाय॑ धीमहि ।
4
तन्नो॑ रुद्रः प्रचो॒दया᳚त् ॥ 4
ईशान-स्सर्व॑विद्या॒ना॒मीश्वर-स्सर्व॑भूता॒नां॒
5
ब्रह्माधि॑पति॒र्ब्रह्म॒णो-ऽधि॑पति॒र्ब्रह्मा॑ शि॒वो मे॑ अस्तु सदाशि॒वोम् ॥ 5
7.8 अष्टाङ्ग प्रणामः
हि॒र॒ण्य॒ग॒र्भ-स्सम॑वर्त॒-ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।
सदा॑धार पृथि॒वी-न्द्यामु॒तेमा-ङ्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
उरसा नमः ॥ 1 (तै. सं. 4.1.8.3)
यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।
य ईशे॑ अ॒स्य द्वि॒पद॒-श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥
शिरसा नमः ॥ 2 (तै. सं. 4.1.8.4)
ब्रह्म॑जज्ञा॒न-म्प्र॑थ॒म-म्पु॒रस्ता॒-द्विसी॑म॒त-स्सु॒रुचो॑ वे॒न आ॑वः ।
स बु॒ध्निया॑ उप॒मा अ॑स्य वि॒ष्ठा-स्स॒तश्च॒ योनि॒म-स॑तश्च॒ विवः॑ । (
दृष्या नमः । 3 (तै. सं. 4.2.8.2.)
म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं-यँ॒ज्ञ-म्मि॑मिक्षताम् ।
पि॒पृ॒तान्नो॒ भरी॑मभिः ।
मनसा नमः ॥ 4 (तै. सं. 3.3.10.2)
उप॑श्वासय पृथि॒वी-मु॒त द्या-म्पु॑रु॒त्रा ते॑ मनुतां॒-विँष्ठि॑त॒-ञ्जग॑त् ।
स दु॑न्दुभे स॒जूरिन्द्रे॑ण दे॒वै-र्दू॒राद्दवी॑यो॒ अप॑सेध॒ शत्रून्॑ ।
वचसा नमः ॥ 5 (तै. सं. 4.6.6.6)
अग्ने॒ नय॑ सु॒पथा॑ रा॒ये अ॒स्मान् विश्वा॑नि देव व॒युना॑नि वि॒द्वान् ।
यु॒यो॒द्ध्य॑स्म-ज्जु॑हुरा॒ण-मेनो॒ भूयि॑ष्ठान्ते॒ नम॑ उक्तिं-विँधेम ॥
पध्भ्या-न्नमः ॥ 6 (तै. सं. 1.1.14.3)
या ते॑ अग्ने॒ रुद्रि॑या त॒नूस्तया॑ नः पाहि॒ तस्या᳚स्ते॒ स्वाहा᳚ ।
या ते॑ अग्ने-ऽयाश॒या र॑जाश॒या ह॑राश॒या त॒नूर्वर्​षि॑ष्ठा गह्वरे॒ष्ठोग्रं-वँचो॒ अपा॑वधी-न्त्वे॒षं-वँचो॒ अपा॑वधी॒ग्ं॒ स्वाहा᳚ ॥
कराभ्या-न्नमः ॥ 7 (तै. सं. 1.2.11.2)
इ॒मं-यँ॑मप्रस्त॒रमाहि सीदाङ्गि॑रोभिः पि॒तृभिः॑ सं​विँदा॒नः ।
आत्वा॒ मन्त्राः॑ कविश॒स्ता व॑हन्त्वे॒ना रा॑जन् ह॒विषा॑ मादयस्व ॥
कर्णाभ्या-न्नमः ॥ 8 (तै. सं. 2.6.12.6)
उरसा शिरसा दृष्ट्या मन॑सा वचसा त॒था ।
पद्भ्या-ङ्कराभ्या-ङ्कर्णाभ्या-म्प्रणामो-ऽष्टाङ्ग॑ उच्यते ॥
उमामहेश्वराभ्या-न्नमः ॥
Roman (IAST) Transliteration
kalaśa pratiṣṭhāpana mantrāḥ
brahma̭jajñā॒na-mpra̭tha॒ma-mpu॒rastā॒-dvisī̭ma॒ta-ssu॒ruco̭ ve॒na ā̭vaḥ |
sa bu॒dhniyā̭ upa॒mā a̭sya vi॒ṣṭhā-ssa॒taśca॒ yoni॒-masa̭taśca॒ vivaḥ̭ |
nākḙ supa॒rṇa mupa॒ya-tpata̭ntagṃ hṛ॒dā vena̭nto a॒bhyaca̭kṣa-tatvā |
hira̭ṇyapakṣaṃ॒-va~rṷṇasya dū॒taṃ-ya~॒masya॒ yonaṷ śaku॒na-mbhṷra॒ṇyum |
āpyā̭yasva॒ samḙtu te vi॒śvataḥ̭ soma॒ vṛṣṇi̭yam | bhavā॒ vāja̭sya saṅga॒the |
yo ru॒dro a॒gnau yo a॒phsu ya oṣa̭dhīṣu॒ yo ru॒dro viśvā॒
bhuva̭nā-''vi॒veśa॒ tasmai̭ ru॒drāya॒ namo̭ astu | 1 (apa upaspṛśya)
i॒daṃ-vi~ṣṇu॒ rvica̭krame tre॒dhā nida̭dhe pa॒dam | samṷ̄ḍhamasya pāgṃ su॒re |
indraṃ॒-vi~śvā̭ avīvṛdhan-thsamu॒dravya̭casa॒-ṅgiraḥ̭ |
ra॒thīta̭magṃ rathī॒nāṃ-vā~jā̭nā॒gṃ॒ satpa̭ti॒-mpati᳚m |
āpo॒ vā i॒daṃgṃ sarvaṃ॒-vi~śvā̭ bhū॒tānyāpaḥ̭ prā॒ṇā vā āpaḥ̭ pa॒śava॒ āpo-'nna॒māpo-'mṛ̭ta॒māpa̭-ssa॒mrāḍāpo̭ vi॒rāḍāpa̭-ssva॒rāḍāpa॒-śchandā॒g॒śyāpo॒ jyotī॒g॒ṣyāpo॒ yajū॒g॒ṣyāpa̭-ssa॒tyamāpa॒-ssarvā̭ de॒vatā॒ āpo॒ bhūrbhuva॒ssuva॒rāpa॒ om | 2
a॒paḥ praṇa̭yati | śra॒ddhā vā āpaḥ̭ | śra॒ddhāme॒vārabhya̭ pra॒ṇīya॒ praca̭rati |
a॒paḥ praṇa̭yati |
ya॒jño vā āpaḥ̭ | ya॒jñame॒vārabhya̭ pra॒ṇīya॒ praca̭rati | a॒paḥ praṇa̭yati |
vajro॒ vā āpaḥ̭ | vajra̭me॒va bhrātṛ̭vyebhyaḥ pra॒hṛtya̭ pra॒ṇīya॒ praca̭rati |
a॒paḥ praṇa̭yati |
āpo॒ vai ra̭kṣo॒ghnīḥ | rakṣa̭sā॒mapa̭hatyai | a॒paḥ praṇa̭yati |
āpo॒ vai de॒vānā᳚-mpri॒ya-ndhāma̭ | de॒vānā̭me॒va pri॒ya-ndhāma̭ pra॒ṇīya॒ praca̭rati | a॒paḥ praṇa̭yati |
āpo॒ vai sarvā̭ de॒vatāḥ᳚ | de॒vatā̭ e॒vārabhya̭ pra॒ṇīya॒ praca̭rati |
a॒paḥ praṇa̭yati |
āpo॒ vai śā॒ntāḥ | śā॒ntābhi̭re॒vāsya॒ śucagṃ̭ śamayati | de॒vo vaḥ̭
savi॒to-tpṷnā॒tva-cchi̭dreṇa pa॒vitrḙṇa॒ vaso॒ssūrya̭sya ra॒śmibhiḥ̭ || 3
kūrcāgrai rrākṣasā-nghorān chindhi karmavighātinaḥ |
tvāmarpayāmi kumbhe-'smin sāphalya-ṅkuru karmaṇi |
vṛkṣarāja samudbhūtā-śśākhāyāḥ pallavatva caḥ |
yuṣmān kumbheṣvarpayāmi sarvapāpāpanuttaye |
nālikera-samudbhūta trinetra hara sammita |
śikhayā duritaṃ sarva-mpāpa-mpīḍā-ñca me nuda |
sa॒ hi ratnā̭ni dā॒śuṣḙ su॒vāti̭ savi॒tā bhagaḥ̭ |
ta-mbhā॒ga-ñci॒tramī̭mahe | (ṛgveda mantraḥ)
tatvā̭ yāmi॒ brahma̭ṇā॒ vanda̭māna॒-stadāśā᳚ste॒ yaja̭māno ha॒virbhiḥ̭ |
ahḙḍamāno varuṇe॒ha bo॒ddhyurṷśagṃsa॒ mā na॒ āyuḥ॒ pramo̭ṣīḥ ||
o-mbhūrbhuva॒ssuva॒rom | asmin kumbhe varuṇamāvāhayāmi |
varuṇasya idamāsanam | varuṇāya namaḥ | sakalārādhanai-ssvarcitam |
ratnasiṃhāsanaṃ samarpayāmi | pādyaṃ samarpayāmi |
arghyaṃ samarpayāmi | ācamanīyaṃ samarpayāmi |
madhuparkkaṃ samarpayāmi | snānaṃ samarpayāmi |
snānānantaraṃ ācamanīyaṃ samarpayāmi |
vastrottarīyaṃ samarpayāmi | upavītaṃ samarpayāmi |
gandhā-ndhārayāmi | akṣatān samarpayāmi |
puṣpāṇi samarpayāmi |
1. oṃ-va~ruṇāya namaḥ
2. o-mpracetase namaḥ
3. oṃ surūpiṇe namaḥ
4. oṃ apāmpataye namaḥ
5. o-mmakaravāhanāya namaḥ
6. jalādhipataye namaḥ
7. o-mpāśahastāya namaḥ
8. o-ntīrtharājāya namaḥ
oṃ-va~ruṇāya namaḥ | nānāvidha parimala patra puṣpāṇi samarpayāmi |
dhūpaṃ āghrāpayāmi | dīpa-ndar​śayāmi |
dhūpadīpānantaraṃ ācamanīyaṃ samarpayāmi |
o-mbhūrbhuvassuvaḥ | tathsa̭vi॒turvare᳚ṇya॒-mbhargo̭ de॒vasya̭ dhīmahi |
dhiyo॒ yona̭ praco॒dayā᳚t |
deva savitaḥ prasuvaḥ | satya-ntvartena pariṣiñcāmi |
(rātrau - ṛta-ntvā satyena pariṣiñcāmi) |
oṃ-va~ruṇāya namaḥ | amṛta-mbhavatu | amṛtopastaraṇamasi |
o-mprāṇāya svāhā | oṃ apānāya svāhā | oṃ-vyā~nāya svāhā |
oṃ udānāya svāhā | oṃ samānāya svāhā | o-mbrahmaṇe svāhā |
kadalīphala-nnivedayāmi | maddhyemaddhye amṛtapānīyaṃ samarpayāmi | amṛtāpidhānamasi | naivedyānantaraṃ ācamanīyaṃ samarpayāmi |
tāmbūlaṃ samarpayāmi | karpūra nīrājana-mpradar​śayāmi |
nīrājanānantaraṃ ācamanīyaṃ samarpayāmi | mantra puṣpaṃ samarpayāmi |
suvarṇa puṣpaṃ samarpayāmi | samastopacārān samarpayāmi ||
1. pañcāṅga rudranyāsaḥ
athātaḥ pañcāṅgarudrāṇāṃ
nyāsapūrvaka-ñjapa-homā-rcanā-bhiṣeka-vidhiṃ-vyā~᳚khyāsyāmaḥ |
athātaḥ pañcāṅgarudrāṇāṃ
nyāsapūrvaka-ñjapa-homā-rcanābhiṣeka-ṅkariṣyamāṇaḥ |
hariḥ oṃ athātaḥ pañcāṅga rudrāṇām ||
oṅkāramantra saṃ​yu~kta-nnitya-ndhyāyanti yoginaḥ |
kāmada-mmokṣada-ntasmai oṅkārāya namo namaḥ ||
namaste deva deveśa namaste parameśvara |
namaste vṛṣabhārūḍha nakārāya namo namaḥ ||
o-nnamo bhagavatḙ rudrā॒ya || o-mbhūrbhuva॒ssuvaḥ̭ || o-nnam ||
nama̭ste rudra ma॒nyava̭ u॒tota॒ iṣa̭ve॒ namaḥ̭ |
nama̭ste astu॒ dhanva̭ne bā॒hubhyā̭mu॒ta te॒ namaḥ̭ ||
yā ta॒ iṣuḥ̭ śi॒vata̭mā śi॒va-mba॒bhūva̭ te॒ dhanuḥ̭ |
śi॒vā śa̭ra॒vyā̭ yā tava॒ tayā̭ no rudra mṛḍaya |
o-nnamo bhagavatḙ rudrā॒ya || naṃ om | pūrvāṅga rudrāya॒ namaḥ || (prācyai diśa, East)
mahādeva-mmahātmāna-mmahāpātakanāśanam |
mahāpāpaharaṃ-va~nde makārāya namo namaḥ ||
o-mbhūrbhuva॒ssuvaḥ॒ || o-mmam ||
o-nnidha̭napataye॒ namaḥ | nidhanapatāntikāya॒ namaḥ |
ūrdhvāya॒ namaḥ | ūrdhvaliṅgāya॒ namaḥ |
hiraṇyāya॒ namaḥ | hiraṇyaliṅgāya॒ namaḥ |
suvarṇāya॒ namaḥ | suvarṇaliṅgāya॒ namaḥ |
divyāya॒ namaḥ | divyaliṅgāya॒ namaḥ |
bhavāyaḥ॒ namaḥ | bhavaliṅgāya॒ namaḥ |
śarvāya॒ namaḥ | śarvaliṅgāya॒ namaḥ |
śivāya॒ namaḥ | śivaliṅgāya॒ namaḥ |
jvalāya॒ namaḥ | jvalaliṅgāya॒ namaḥ |
ātmāya॒ namaḥ | ātmaliṅgāya॒ namaḥ |
paramāya॒ namaḥ | paramaliṅgāya॒ namaḥ |
etathsomasya̭ sūrya॒sya sarvaliṅgagg̭ sthāpa॒ya॒ti॒ pāṇimantra-mpavi॒tram ||
o-nnamo bhagavatḙ rudrā॒ya || maṃ om ||
dakṣiṇāṅga rudrāya॒ namaḥ || (dakṣiṇa diśa, South)
śivaṃ śānta-ñjagannāthaṃ-lo~kānugrahakāraṇam |
śivameka-mparaṃ-va~nde śikārāya namo namaḥ ||
o-mbhūrbhuva॒ssuvaḥ॒ || oṃ śim ||
apai̭tumṛ॒tyuramṛta̭-nna॒ āga̭n vaivasva॒to no॒ a̭bhaya-ṅkṛṇotu | pa॒rṇaṃ-va~na॒spaterivā॒bhinaśśīyatāgṃ ra॒yissaca̭tā-nna॒śśacī॒patiḥ̭ ||
o-nnamo bhagavatḙ rudrā॒ya || śiṃ om || paścimāṅga rudrāya॒ namaḥ || (paścima diśa, West)
vāhanaṃ-vṛ~ṣabho yasya vāsukī kaṇṭhabhūṣaṇam |
vāme śaktidharaṃ-va~nde vakārāya namo namaḥ ||
o-mbhūrbhuva॒ssuvaḥ॒ || oṃ-vā~m ||
prāṇānā-ṅgranthirasi rudro mā̭ viśā॒ntakaḥ | tenānnenā᳚pyāya॒sva || o-nnamo bhagavate rudrāya viṣṇave mṛtyṷrme pā॒hi ||
o-nnamo bhagavatḙ rudrā॒ya || vāṃ om || uttarāṅga rudrāya॒ namaḥ || (uttara diśa, North)
yatra kutra sthita-ndevaṃ sarvavyāpinamīśvaram |
yalliṅga-mpūjayennityaṃ-ya~kārāya namo namaḥ ||
o-mbhūrbhuva॒ssuvaḥ॒ || oṃ-ya~m ||
yo ru॒dro a॒gnau yo a॒psu ya oṣa̭dhīṣu॒ yo ru॒dro viśvā॒ bhuva̭nā vi॒veśa॒ tasmai̭ ru॒drāya॒ namo̭ astu ||
o-nnamo bhagavatḙ rudrā॒ya || yaṃ om || ūrdhvāṅga rudrāya॒ namaḥ || (ūrdhva diśa, Up)
2. pañcamukha dhyānam
o-nnam || tatpuru॒ṣāya vi॒dmahḙ mahāde॒vāya̭ dhīmahi | tanno̭ rudraḥ pracodayā᳚t ||
saṃ​va~rtāgni taṭitpradīpta kanaka prasparthi tejomayam |
gambhīradhvani sāmavedajanaka-ntāmrādharaṃ sundaram |
ardhendudyuti lolapiṅgala jaṭābhāraprabaddhoragam |
vande siddha surāsurendranamita-mpūrva-mmukhaṃ śūlinaḥ ||
o-nnamo bhagavatḙ rudrā॒ya || o-nnam || pūrva mukhāya॒ namaḥ ||
a॒ghore᳚bhyo-'thagho॒re᳚bhyo॒ ghora॒ghora̭tarebhyaḥ || sarve᳚bhyassarva śarve᳚bhyo॒ nama̭ste astu ru॒drarṷ̄pebhyaḥ ||
kālābhrabhramarāñjanadyutinibhaṃ-vyā~vṛtta piṅgekṣaṇam
karṇodbhāsita bhogimastaka maṇiprodgīrṇa daṃṣṭrāṅkuram |
sarpaprota kapāla śukti śakala vyākīrṇa sacchekharam
vande dakṣiṇamīśvarasya kuṭila bhrūbhaṅga raudra-mmukham ||
o-nnamo bhagavatḙ rudrā॒ya || o-mmam || dakṣiṇa mukhāya॒ namaḥ ||
sa॒dyo jā॒ta-mpra̭padyā॒mi॒ sa॒dyo jā॒tāya॒ vai namo॒ namaḥ̭ | bha॒ve bha̭ve॒ nāti̭ bhave bhavasva॒ mām | bha॒vo-dbha̭vāya॒ namaḥ̭ ||
prāleyācalamindukunda dhavala-ṅgokṣīraphenaprabham
bhasmābhyaktamanaṅga deha dahana jvālāvalī locanam |
brahmendrādi marudgaṇaisputipadai rabhyarcitaṃ-yo~gibhiḥ
vande-'haṃ sakala-ṅkalaṅkarahitaṃ sthāṇormukha-mpaścimam ||
o-nnamo bhagavatḙ rudrā॒ya || oṃ śim || paścima mukhāya॒ namaḥ ||
vā॒ma॒de॒vāya॒ namo᳚ jye॒ṣṭhāya॒ namaḥ̭ śre॒ṣṭhāya॒ namo̭ ru॒drāya॒ namaḥ॒ kālā̭ya॒ namaḥ॒ kala̭vikaraṇāya॒ namo॒ bala̭vikaraṇāya॒ namo॒ balā̭ya॒ namo॒ bala̭pramathanāya॒ nama॒-ssarva̭bhūtadamanāya॒ namo̭ ma॒nonma̭nāya॒ namaḥ̭ ||
gaura-ṅkuṅkuma paṅkilaṃ stilakaṃ-vyā~pāṇḍu gaṇḍasthalam
bhrūvikṣepa kaṭākṣa lasatsaṃsakta karṇotphalam |
snigdha-mbimbaphalādhara-mprahasita-nnīlālakāla-ṅkṛtam
vande pūrṇa śaśāṅka maṇḍalanibhaṃ-va~ktraṃ harasyottaram ||
o-nnamo bhagavatḙ rudrā॒ya || oṃ-vā~m || uttara mukhāya॒ namaḥ ||
īśāna-ssarva̭vidyā॒nā॒-mīśvara-ssarva̭bhūtā॒nā॒-mbrahmādhi̭pati॒-rbrahma॒ṇo 'dhi̭pati॒-rbrahmā̭ śi॒vo mḙ astu sadāśi॒vom || (kaniṣṭhikābhyā-nnamaḥ)
vyaktāvyakta guṇetara-mparataraṃ ṣaṭtriṃśatattvātmakam
tasmāduttama tattvamakṣaramida-ndhyeyaṃ sadā yogibhiḥ |
oṅkārādi samasta mantrajanakaṃ sūkṣmādi sūkṣma-mparaṃ
śānta-mpañcamamīśvarasya vadana-ṅkhaṃ​vyā~pti tejomayam ||
o-nnamo bhagavatḙ rudrā॒ya || oṃ-vā~m || ūrdhva mukhāya॒ namaḥ ||
diṅnamaskāraḥ
pūrve paśupatiḥ pātu | dakṣiṇe pātu śaṅkaraḥ |
paścime pātu viśveśaḥ | nīlakaṇṭhastadottare ||
īśānyā-mpātu me śarvaḥ | āgneyā-mpārvatīpatiḥ |
naiṛtyā-mpātu me rudraḥ | vāyavyā-nnīlalohitaḥ ||
ūrdhve trilocanaḥ pātu | adharāyā-mmaheśvaraḥ |
etābhyo daśa digbhyastu | sarvataḥ pātu śaṅkaraḥ ||
(nā rudro rudramarcaye᳚t |
nyāsapūrvaka-ñjapahomārcanā-'bhiṣekavidhi vyākhyāsyāmaḥ |)
3. aṅganyāsaḥ
yā tḙ rudra śi॒vā ta॒nūragho॒rā-'pā̭pakāśinī |
tayā̭ na sta॒nuvā॒ śanta̭mayā॒ giri̭śantā॒bhi cā̭kaśīhi |
śikhāyai namaḥ | 1
a॒smi-nma̭ha॒tya̭rṇa॒ve᳚-'ntari̭kṣe bha॒vā adhi̭ |
teṣāgṃ̭ sahasrayoja॒ne-'va॒dhanvā̭ni tanmasi |
śirase namaḥ | 2
sa॒hasrā̭ṇi sahasra॒śo ye ru॒drā adhi॒ bhūmyā᳚m |
teṣāgṃ̭ sahasra-yoja॒ne-'va॒dhanvā̭ni tanmasi |
lalāṭāya namaḥ | 3
ha॒gṃ॒sa-śśṷci॒ṣa-dvasṷrantarikṣa॒saddhotā̭ vedi॒ṣadati̭thi-rduroṇa॒sat |
nṛ॒ṣadva̭ra॒-sadṛ̭ta॒-sadvyo̭ma॒ sada॒bjā go॒jā ṛ̭ta॒jā a̭dri॒jā ṛ॒ta-mbṛ॒hat |
bhruvormaddhyāya namaḥ | 4
trya̭baṅkaṃ-ya~jāmahe suga॒ndhi-mpṷṣṭi॒vardha̭nam |
u॒rvā॒ru॒kami̭va॒ bandha̭nān
mṛ॒tyo-rmṷkṣīya॒ mā-'mṛtā᳚t |
netrābhyā-nnamaḥ | 5
nama॒-ssrutyā̭ya ca॒ pathyā̭ya ca॒ namaḥ̭ kā॒ṭyā̭ya ca nī॒pyā̭ya ca |
karṇābhyā-nnamaḥ | 6
mā na̭sto॒ke tana̭ye॒ mā na॒ āyṷṣi॒ mā no॒ goṣu॒ mā no॒ aśvḙṣu rīriṣaḥ |
vī॒rānmāno̭ rudra bhāmi॒to va̭dhīr-ha॒viṣma̭nto॒ nama̭sā vidhema te |
nāsikābhyā-nnamaḥ | 7
a॒va॒tatya॒ dhanu॒stvagṃ saha̭srākṣa॒ śatḙṣudhe |
ni॒śīrya̭ śa॒lyānā॒-mmukhā̭ śi॒vo naḥ̭ su॒manā̭ bhava |
mukhāya namaḥ | 8
nīla̭grīvā śśiti॒kaṇṭhā᳚-śśa॒rvā a॒dhaḥ, kṣa̭māca॒rāḥ |
teṣāgṃ̭ sahasrayoja॒ne-' va॒dhanvā̭ni tanmasi |
kaṇṭhāya namaḥ | 9.1
nīla̭grīvā-śśiti॒kaṇṭhā॒ divagṃ̭ ru॒drā upa̭śritāḥ |
teṣāgṃ̭ sahasrayoja॒ne-' va॒dhanvā̭ni tanmasi |
upakaṇṭhāya namaḥ | 9.2
nama̭ste a॒stvāyṷdhā॒yā-nā̭tatāya dhṛ॒ṣṇave᳚ |
u॒bhābhyā̭mu॒ta te॒ namo̭ bā॒hubhyā॒-ntava॒ dhanva̭ne |
bāhubhyā-nnamaḥ | 10
yā tḙ he॒ti-rmī̭ḍhuṣṭama॒ hastḙ ba॒bhūva̭ te॒ dhanuḥ̭ |
tayā॒-'smān vi॒śvata॒stva-ma̭ya॒kṣmayā॒ pari̭bbhuja |
upabāhubhyā-nnamaḥ | 11
pari̭ṇo ru॒drasya̭ he॒ti-rvṛ̭ṇaktu॒ pari̭tve॒ṣasya̭ durma॒tira̭ghā॒yoḥ |
ava̭ sthi॒rā ma॒ghava̭dbhyaḥ tanuṣva॒ mīḍhva̭sto॒kāya॒ tana̭yāya mṛḍaya |
maṇibandhābhyā-nnamaḥ | 12
ye tī॒rthāni̭ pra॒cara̭nti sṛ॒kāva̭nto niṣa॒ṅgiṇaḥ̭ |
teṣāgṃ̭ sahasrayoja॒ne-' va॒dhanvā̭ni tanmasi |
hastābhyā-nnamaḥ | 13
sa॒dyo jā॒ta-mpra̭padyā॒mi॒ sa॒dyo jā॒tāya॒ vai namo॒ namaḥ̭ |
bha॒ve bha̭ve॒ nāti̭ bhave bhavasva॒ mām | bha॒vo-dbha̭vāya॒ namaḥ̭ ||
aguṃṣṭhābhyā-nnamaḥ | 14.1
vā॒ma॒de॒vāya॒ namo᳚ jye॒ṣṭhāya॒ namaḥ̭ śre॒ṣṭhāya॒ namo̭ ru॒drāya॒ namaḥ॒ kālā̭ya॒ namaḥ॒ kala̭vikaraṇāya॒ namo॒ bala̭vikaraṇāya॒ namo॒ balā̭ya॒ namo॒ bala̭pramathanāya॒ nama॒-ssarva̭bhūtadamanāya॒ namo̭ ma॒nonma̭nāya॒ namaḥ̭ |
tarjanībhyā-nnamaḥ | 14.2
a॒ghore᳚bhyo 'tha॒ghore᳚bhyo॒ ghora॒ghora̭tarebhyaḥ |
sarve᳚bhya-ssarva॒ śarve᳚bhyo॒ nama̭ste astu ru॒dra rṷ̄pebhyaḥ ||
maddhyamābhyā-nnamaḥ | 14.3
tatpurṷṣāya vi॒dmahḙ mahāde॒vāya̭ dhīmahi |
tanno̭ rudraḥ praco॒dayā᳚t ||
anāmikābhyā-nnamaḥ | 14.4
īśāna-ssarva̭vidyā॒nā॒-mīśvara-ssarva̭bhūtā॒nāṃ॒
rahmādhi̭pati॒-rbrahma॒ṇo 'dhi̭pati॒-rbrahmā̭ śi॒vo mḙ astu sadāśi॒vom ||
kaniṣṭhikābhyā-nnamaḥ | 14.5
namo̭ vaḥ kiri॒kebhyo̭ de॒vānā॒gṃ॒ hṛda̭yebhyaḥ |
hṛdayāya namaḥ | 15
namo̭ ga॒ṇebhyo̭ ga॒ṇapa̭tibhyaśca vo॒ namaḥ̭ |
pṛṣṭhāya namaḥ | 16
namo॒ hira̭ṇyabāhave senā॒nyḙ di॒śāñca॒ pata̭ye॒ namaḥ̭ |
pār​śvābhyā-nnamaḥ | 17
vijya॒-ndhanuḥ̭ kapa॒rdino॒ viśa̭lyo॒ bāṇa̭vāgṃ u॒ta |
anḙśanna॒syeṣa̭va ā॒bhura̭sya niṣa॒ṅgathiḥ̭ |
jaṭharāya namaḥ | 18
hi॒ra॒ṇya॒ga॒rbha ssama̭varta॒tāgrḙ bhū॒tasya̭ jā॒taḥ pati॒reka̭ āsīt |
sadā̭dhāra pṛthi॒vī-ndyāmu॒temā-ṅkasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema |
nābhyai namaḥ | 19
mīḍhṷṣṭama॒ śiva̭tama śi॒vo na̭ssu॒manā̭ bhava |
pa॒ra॒me vṛ॒kṣa āyṷdha-nni॒dhāya॒ kṛttiṃ॒-va~sā̭na॒ āca̭ra॒ pinā̭ka॒-mbibhra॒dāga̭hi |
kaṭhyai namaḥ | 20
ye bhū॒tānā॒-madhi̭patayo viśi॒khāsaḥ̭ kapa॒rdi̭naḥ |
teṣāgṃ̭ sahasrayoja॒ne 'va॒dhanvā̭ni tanmasi |
guhyāya namaḥ | 21
ye annḙṣu vi॒viddhya̭nti॒ pātrḙṣu॒ piba̭to॒ janāṋ |
teṣāgṃ̭ sahasrayoja॒ne-' va॒dhanvā̭ni tanmasi |
aṇḍābhyā-nnamaḥ | 22
sa॒ śi॒rā jā॒tavḙdā a॒kṣara̭-mpara॒ma-mpa॒dam |
vedā̭nā॒gṃ॒ śira̭si mā॒tā॒ ā॒yu॒ṣmanta̭-ṅkarotu॒ mām |
apānāya namaḥ | 23
mā no̭ ma॒hānta̭mu॒ta mā no̭ arbha॒ka-mmā na॒ ukṣa̭ntamu॒ta mā na̭ ukṣi॒tam |
mā no̭ vadhīḥ pi॒tara॒-mmota mā॒tara̭-mpri॒yā mā na̭sta॒nuvo̭ rudra rīriṣaḥ |
ūrubhyā-nnamaḥ | 24
e॒ṣa tḙ rudrabhā॒ga-stañjṷṣasva॒ tenā̭va॒sena̭ pa॒ro
mūja̭va॒to-'tī॒hyava̭tata-dhanvā॒ pinā̭kahastaḥ॒ kṛtti̭vāsāḥ |
jānubhyā-nnamaḥ | 25
sa॒gṃ॒ sṛ॒ṣṭa॒jithso̭ma॒pā bā̭hu-śa॒rdhyū᳚rdhva dha̭nvā॒ prati̭hitā-bhi॒rastā᳚ |
bṛha̭spate॒ pari̭dīyā॒ rathḙna rakṣo॒hā-'mitrāgṃ̭ apa॒bādha̭mānaḥ |
jaṅghābhyā-nnamaḥ | 26
viśva̭-mbhū॒ta-mbhuva̭na-ñci॒tra-mba̭hu॒dhā jā॒ta-ñjāya̭māna-ñca॒ yat |
sarvo॒ hyḙṣa ru॒dra-stasmai̭ ru॒drāya॒ namo̭ astu ||
gulphābhyā-nnamaḥ | 27
ye pa॒thā-mpa̭thi॒rakṣa̭ya ailabṛ॒dā ya॒vyudhaḥ̭ |
teṣāgṃ̭ sahasrayoja॒ne 'va॒dhanvā̭ni tanmasi |
pādābhyā-nnamaḥ | 28
addhya̭voca-dadhiva॒ktā pra̭tha॒mo daivyo̭ bhi॒ṣak |
ahīg̭śca॒ sarvā᳚n ja॒bhaṃ​ya~॒-nthsarvā᳚śca yātu dhā॒nyaḥ̭ |
kavacāya hum | 29
namo̭ bi॒lminḙ ca kava॒cinḙ ca॒
namaḥ̭ śru॒tāya̭ ca śrutase॒nāya̭ ca |
upakavacāya hum | 30
namo̭ astu॒ nīla̭grīvāya sahasrā॒kṣāya̭ mī॒ḍhuṣe᳚ |
atho॒ ye a̭sya॒ satvā̭no॒-'ha-ntebhyo̭-'kara॒nnamaḥ̭ |
tṛtīya netrāya namaḥ | 31
pramṷñca॒ dhanva̭na॒stva-mu॒bhayo॒-rārtni̭yo॒rjyām |
yāśca̭ te॒ hasta॒ iṣa̭vaḥ॒ parā॒ tā bha̭gavo vapa |
astrāya phaṭ | 32
ya e॒tāva̭ntaśca॒ bhūyāgṃ̭saśca॒ diśo̭ ru॒drā vi̭tasthi॒re |
teṣāgṃ̭̭ sahasrayoja॒ne 'va॒dhanvā̭ni tanmasi |
iti digbandhaḥ | 33
-----------iti prathama nyāsaḥ------------
(śikhādi astraparyantaṃ ekatriṃśadaṅganyāsaḥ digbandha sahitaḥ prathamaḥ)
4. daśāṅga nyāsaḥ
o-nnamo bhagavatḙ rudrā॒ya | iti namaskārā-nnyase᳚t ||
oṃ o-mmūrthne namaḥ (mūrdhni) |
o-nna-nnāsikāyai namaḥ (nāsikāgraḥ) |
o-mmoṃ-la~laṭāya namaḥ (lalāṭaḥ) |
o-mbha-mmukhāya namaḥ (mukhām) |
o-ṅga-ṅkaṇṭhāya namaḥ (kaṇṭhaḥ) |
oṃ-vaṃ~ hṛdayāya namaḥ (hṛdayaḥ) |
o-nte-ndakṣiṇa hastāya namaḥ (dakṣiṇa hastaḥ) |
oṃ ruṃ-vā~ma hastāya namaḥ (vāma hastaḥ) |
o-ndrā-nnābhyai namaḥ (nābhhī) |
oṃ-ya~-mpādābhyā-nnamaḥ (pādau) ||
[apa upaspṛśya]
-----------iti dvitīya nyāsaḥ----------
mūrdhādi pādānta-ndaśāṅga nyāsaḥ dvitīyaḥ
5. pañcāṅga nyāsaḥ
sa॒dyo jā॒ta-mpra̭padyā॒mi॒ sa॒dyo jā॒tāya॒ vai namo॒ namaḥ̭ |
bha॒ve bha̭ve॒ nāti̭bhave bhavasva॒ mām | bha॒vo-dbha̭vāya॒ namaḥ̭ ||
pādābhyā-nnamaḥ | 1
[apa upaspṛśya]
vā॒ma॒de॒vāya॒ namo᳚ jye॒ṣṭhāya॒ namaḥ̭ śre॒ṣṭhāya॒ namo̭ ru॒drāya॒ namaḥ॒
kālā̭ya॒ namaḥ॒ kala̭vikaraṇāya॒ namo॒ bala̭vikaraṇāya॒ namo॒ balā̭ya॒ namo॒
bala̭pramathanāya॒ nama॒ ssarva̭bhūtadamanāya॒ namo̭ ma॒nonma̭nāya॒ namaḥ̭ |
ūrumadhyamābhyā-nnamaḥ | 2
a॒ghore᳚bhyo 'tha॒ghore᳚bhyo॒ ghora॒ghora̭tarebhyaḥ |
sarve᳚bhya-ssarva॒ śarve᳚bhyo॒ nama̭ste astu ru॒drarṷ̄pebhyaḥ ||
hṛdayāya namaḥ | 3
tatpurṷṣāya vi॒dmahḙ mahāde॒vāya̭ dhīmahi |
tanno̭ rudraḥ praco॒dayā᳚t ||
mukhāya namaḥ | 4
īśāna-ssarva̭vidyā॒nā॒-mīśvarasarva̭ bhūtā॒nāṃ॒
brahmādhi̭pati॒-rbrahma॒ṇo-'dhi̭pati॒-rbrahmā̭ śi॒vo mḙ astu sadāśi॒vom ||
mūrdhne namaḥ | 5
5.1 haṃsa gāyatrī
asya śrī haṃsagāyatrī mahāmantrasya, avyakta parabrahma ṛṣiḥ,
anuṣṭu-pchandaḥ, paramahaṃso devatā |
haṃsā-mbījam, haṃsīṃ śaktiḥ | haṃsū-ṅkīlakam |
paramahaṃsa prasāda siddhyarthe jape viniyogaḥ || 1
karanyāsaḥ -
haṃsāṃ aguṃṣṭhābhyā-nnamaḥ | haṃsī-ntarjanībhyā-nnamaḥ |
haṃsūṃ - maddhyamābhyā-nnamaḥ | haṃsaiṃ - anāmikābhyā-nnamaḥ |
haṃsauṃ - kaniṣṭhikābhyā-nnamaḥ | haṃsaḥ-karatala karapṛṣṭhābhyā-nnamaḥ | 2
hṛdayādi nyāsaḥ -
haṃsāṃ - hṛdayāya namaḥ | haṃsīṃ - śirase svāhā |
haṃsūṃ - śikhāyai vaṣaṭ | haṃsaiṃ - kavacāya hum |
haṃsauṃ - netratrayāya vauṣaṭ | haṃsaḥ - astrāya phaṭ ||
o-mbhūrbhuva॒ssuva॒romiti digbandhaḥ | 3
dhyānaṃ -
gamāgamastha-ṅgamanādiśūnya-ñci-drūpadīpa-ntimirāpahāram |
paśyāmi te sarvajanāntarastha-nnamāmi haṃsa-mparamātmarūpam || 4
deho devālayaḥ prokto jīvo deva-ssanātanaḥ |
tyajedajñānanirmālyaṃ so-'hambhāvena pūjayet ||
haṃ॒sa haṃ॒sāya̭ vi॒dmahḙ paramahaṃ॒sāya̭ dhīmahi |
tanno̭ haṃsaḥ praco॒dayā᳚t || 5
(iti trivāra-ñjapitvā)
haṃsa haṃ॒seti yo brūyā-dhaṃso (brūyāddhaṃso) nāma sadāśivaḥ |
eva-nnyāsa vidhi-ṅkṛtvā tata-ssampuṭamārabhet || 6
5.2 dik sampuṭanyāsaḥ (sampuṭīkaraṇam)
indrādī-ndikṣuvinyasya |
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ om |
trā॒tāra॒mindra̭ mavi॒tāra॒mindra॒gṃ॒ havḙ have su॒hava॒gṃ॒ śūra॒mindra᳚m |
hu॒ve nu śa॒kra-mpṷruhū॒tamindragg̭ sva॒sti no̭ ma॒ghavā̭ dhā॒tvindraḥ̭ ||
o-nnamo bhagavatḙ rudrā॒ya | oṃ om |
pūrvadigbhāge indrāya namaḥ || 1 (tai.saṃ.1-6-12-50)
o-mbhūrbhuva॒ssuvaḥ̭ | o-nnam |
tva-nno̭ agne॒ varṷṇasya vi॒dvānde॒vasya॒ heḍo-'va̭ yāsisīṣṭhāḥ |
yaji̭ṣṭho॒ vahni̭tama॒-śśośṷcāno॒ viśvā॒ dveṣāgṃ̭si॒ pramṷmugdhya॒smat ||
o-nnamo bhagavatḙ rudrā॒ya | naṃ om |
āgneyadigbhāge agnaye namaḥ || 2 (tai.saṃ.2-5-12-72)
o-mbhūrbhuva॒ssuvaḥ̭ | o-mmom |
su॒ga-nnaḥ॒ panthā॒mabha̭ya-ṅkṛṇotu | yasmi॒nnakṣa̭tre ya॒ma eti॒ rājā᳚ |
yasmi̭nnenama॒bhyaṣi̭ñcanta de॒vāḥ | tada̭sya ci॒tragṃ ha॒viṣā̭ yajāma ||
o-nnamo bhagavatḙ rudrā॒ya | moṃ om |
dakṣiṇadigbhāge yamāya namaḥ || 3 (tai.brā.3-1-2-11-23)
o-mbhūrbhuva॒ssuvaḥ̭ | o-mbham |
asṷnvanta॒maya̭jamānamiccha ste॒nasye॒tyāntaska̭ra॒syānvḙṣi |
a॒nyama॒smadi̭ccha॒ sā ta̭ i॒tyā namo̭ devi nir.ṛte॒ tubhya̭mastu ||
o-nnamo bhagavatḙ rudrā॒ya | bhaṃ om |
nir-ṛtidigbhāge nir-ṛtaye namaḥ || 4 (tai.saṃ.4-2-5-21)
o-mbhūrbhuva॒ssuvaḥ̭ | o-ṅgam |
tattvā̭ yāmi॒ brahma̭ṇā॒ vanda̭māna॒stadā śā᳚ste॒ yaja̭māno ha॒virbhiḥ̭ |
ahḙḍamāno varuṇe॒ha bo॒dhyurṷśagṃsa॒ mā na॒ āyuḥ॒ pramo̭ṣīḥ ||
o-nnamo bhagavatḙ rudrā॒ya | gaṃ om |
paścimadigbhāge varuṇāya namaḥ || 5 (tai.saṃ.2-1-11-65)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ-va~m |
ā no̭ ni॒yudbhiḥ̭ śa॒tinī̭bhiradhva॒ragm | sa̭ha॒sriṇī̭bhi॒rupa̭ yāhi ya॒jñam |
vāyo̭ a॒smin ha॒viṣi̭ mādayasva | yū॒ya-mpā̭ta sva॒stibhi॒-ssadā̭ naḥ ||
o-nnamo bhagavatḙ rudrā॒ya | vaṃ om |
vāyavyadigbhāge vāyave namaḥ || 6 (tai.brā.2-8-1-2)
o-mbhūrbhuva॒ssuvaḥ̭ | o-ntem |
va॒yagṃ so̭ma vra॒te tava̭ | mana̭sta॒nūṣu॒ bibhra̭taḥ |
pra॒jāva̭nto aśīmahi | i॒ndrā॒ṇī de॒vī su॒bhagā̭ su॒patnī᳚ ||
o-nnamo bhagavatḙ rudrā॒ya | teṃ om |
uttaradigbhāge kuberāya namaḥ || 7 (tai.brā.2-4-2-7-18)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ rum |
tamīśā᳚na॒-ñjaga̭tasta॒sthuṣa॒spati᳚-ndhiya-ñji॒nvamava̭se hūmahe va॒yam |
pū॒ṣā no॒ yathā॒ veda̭sā॒masa̭dvṛ॒dhe ra̭kṣi॒tā pā॒yurada̭bdha-ssva॒staye᳚ ||
o-nnamo bhagavatḙ rudrā॒ya | ruṃ om |
īśānyadigbhāge īśānāya namaḥ || 8
o-mbhūrbhuva॒ssuvaḥ̭ | o-ndrām |
a॒sme ru॒drā me॒hanā॒ parva̭tāso vṛtra॒hatye॒ bhara̭hūtau sa॒joṣāḥ᳚ |
ya-śśaṃsa̭te stuva॒te dhāyi̭ pa॒jra indra̭jyeṣṭhā a॒smāṃ a̭vantu de॒vāḥ ||
o-nnamo bhagavatḙ rudrā॒ya | drāṃ om |
ūrdhvadigbhāge ākāśāya namaḥ || 9
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ-ya~m |
syo॒nā pṛ̭thivi॒ bhavā̭nṛkṣa॒rā ni॒veśa̭nī |
yacchā̭ na॒-śśarma̭ sa॒prathāḥ᳚ ||
o-nnamo bhagavatḙ rudrā॒ya | yaṃ om |
adhodigbhāge pṛthivyai namaḥ || 10
[apa upaspṛśya]
5.3 daśāṅga raudrīkaraṇam
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ om |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
trā॒tāra॒mindra̭ mavi॒tāra॒mindra॒gṃ॒ havḙ have su॒hava॒gṃ॒ śūra॒mindra᳚m |
hu॒ve nu śa॒kra-mpṷruhū॒tamindragg̭ sva॒sti no̭ ma॒ghavā̭ dhā॒tvindraḥ̭ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | oṃ om |
pūrvadigbhāge lalāṭasthāne indrāya namaḥ || 1 || (tai.saṃ.1-6-12-50)
o-mbhūrbhuva॒ssuvaḥ̭ | o-nnam |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
tva-nno̭ agne॒ varṷṇasya vi॒dvānde॒vasya॒ heḍo-'va̭ yāsisīṣṭhāḥ |
yaji̭ṣṭho॒ vahni̭tama॒-śśośṷcāno॒ viśvā॒ dveṣāgṃ̭si॒ pramṷmugdhya॒smat ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | naṃ om |
āgneyadigbhāge netrayosthāne agnaye namaḥ || 2 || (tai.saṃ.2-5-12-72)
o-mbhūrbhuva॒ssuvaḥ̭ | o-mmom |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
su॒ga-nnaḥ॒ panthā॒mabha̭ya-ṅkṛṇotu | yasmi॒nnakṣa̭tre ya॒ma eti॒ rājā᳚ |
yasmi̭nnenama॒bhyaṣi̭ñcanta de॒vāḥ | tada̭sya ci॒tragṃ ha॒viṣā̭ yajāma ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | moṃ om |
dakṣiṇadigbhāge karṇayosthāne yamāya namaḥ || 3 || (tai.brā.3-1-2-11-23)
o-mbhūrbhuva॒ssuvaḥ̭ | o-mbham |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
asṷnvanta॒ maya̭jamānamicchaste॒nasye॒tyāntaska̭ra॒syānvḙṣi |
a॒nyama॒smadi̭ccha॒ sā ta̭ i॒tyā namo̭ devi nir.ṛte॒ tubhya̭mastu ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | bhaṃ om |
nir.ṛtidigbhāge mukhasthāne nir.ṛtaye namaḥ || 4 || (tai.saṃ.4-2-5-21)
o-mbhūrbhuva॒ssuvaḥ̭ | o-ṅgam |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
tattvā̭yāmi॒ brahma̭ṇā॒ vanda̭māna॒stadā śā᳚ste॒ yaja̭māno ha॒virbhiḥ̭ |
ahḙḍamāno varuṇe॒ha bo॒dhyurṷśagṃsa॒ mā na॒ āyuḥ॒ pramo̭ṣīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | gaṃ om |
paścimadigbhāge bāhvosthāne varuṇāya namaḥ || 5 || (tai.saṃ.2-1-11-65)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ-va~m |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
ā no̭ ni॒yudbhiḥ̭ śa॒tinī̭bhiradhva॒ragm | sa̭ha॒sriṇī̭bhi॒rupa̭ yāhi ya॒jñam |
vāyo̭ a॒smin ha॒viṣi̭ mādayasva | yū॒ya-mpā̭ta sva॒stibhi॒-ssadā̭ naḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | vaṃ om |
vāyavyadigbhāge nāsikāsthāne vāyave namaḥ || 6 || (tai.brā.2-8-1-2)
o-mbhūrbhuva॒ssuvaḥ̭ | o-ntem |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
va॒yagṃ so̭ma vra॒te tava̭ | mana̭sta॒nūṣu॒bibhra̭taḥ |
pra॒jāva̭nto aśīmahi | i॒ndrā॒ṇī de॒vī su॒bhagā̭ su॒patnī᳚ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | teṃ om |
uttaradigbhāge jaṭharasthāne kuberāya namaḥ || 7 || (tai.brā.2-4-2-7-18)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ rum |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
tamīśā᳚na॒-ñjaga̭tasta॒sthuṣa॒spati᳚-ndhiya-ñji॒nvamava̭se hūmahe va॒yam |
pū॒ṣā no॒ yathā॒ veda̭sā॒masa̭dvṛ॒dhe ra̭kṣi॒tā pā॒yurada̭bdha-ssva॒staye᳚ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | ruṃ om |
īśānyadigbhāge nābhisthāne īśānāya namaḥ || 8 ||
o-mbhūrbhuva॒ssuvaḥ̭ | o-ndrām |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
a॒sme ru॒drā me॒hanā॒ parva̭tāso vṛtra॒hatye॒ bhara̭hūtau sa॒joṣāḥ᳚ |
ya-śśaṃsa̭te stuva॒te dhāyi̭ pa॒jra indra̭jyeṣṭhā a॒smā~ a̭vantu de॒vāḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | drāṃ om |
ūrdhvadigbhāge mūrdhnisthāne ākāśāya namaḥ || 9 ||
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ-ya~m |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
syo॒nā pṛ̭thivi॒ bhavā̭nṛkṣa॒rā ni॒veśa̭nī |
yacchā̭ na॒-śśarma̭ sa॒prathāḥ᳚ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | yaṃ om |
adhodigbhāge pādasthāne pṛthivyai namaḥ || 10 ||
[apa upaspṛśya]
5.4 ṣoḍaśāṅga raudrīkaraṇaṃ
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ am |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
vi॒bhūra̭si pra॒vāha̭ṇo॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | aṃ om |
śikhāsthāne rudrāya namaḥ || 1 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ ām |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
vahni̭rasi havya॒vāha̭no॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | āṃ om |
śirasthāne rudrāya namaḥ || 2 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ im |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
śvā॒tro̭si॒ pracḙtā॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | iṃ om |
mūrdhnisthāne rudrāya namaḥ || 3 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ īm |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
tu॒tho̭si vi॒śvavḙdā॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | īṃ om |
lalāṭasthāne rudrāya namaḥ || 4 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ um |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
u॒śiga̭sika॒vī raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | uṃ om |
netrayosthāne rudrāya namaḥ || 5 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ ūm |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
aṅghā̭rirasi॒ bambhā̭rī॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | ūṃ om |
karṇayosthāne rudrāya namaḥ || 6 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ ṛm |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
a॒va॒syura̭si॒ duva̭svā॒-nraudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | ṛṃ om |
mukhasthāne rudrāya namaḥ || 7 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ ṝm |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
śu॒ndhyūra̭si mārjā॒līyo॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | ṝṃ om |
kaṇṭhasthāne rudrāya namaḥ || 8 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ ḷm |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
sa॒mrāḍa̭si kṛ॒śānū॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | ḷṃ om |
bāhvosthāne rudrāya namaḥ || 9 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ ḹm |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
pa॒ri॒ṣadyo̭si॒ pava̭māno॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | ḹṃ om |
hṛdisthāne rudrāya namaḥ || 10 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ em |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
pra॒takvā̭-'si॒ nabha̭svā॒-nraudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | eṃ om |
nābhisthāne rudrāya namaḥ || 11 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ aim |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
asa̭mmṛṣṭosi havya॒sūdo॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | aiṃ om |
kaṭisthāne rudrāya namaḥ || 12 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ om |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
ṛ॒tadhā̭mā-'si॒ suva̭rjyotī॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | oṃ om |
ūrusthāne rudrāya namaḥ || 13 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ aum |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
brahma̭jyotirasi॒ suva̭rdhāmā॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | auṃ om |
jānusthāne rudrāya namaḥ || 14 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ am |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
a॒jo᳚-'syeka̭pā॒t raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | aṃ om |
jaṅghāsthāne rudrāya namaḥ || 15 || (tai.saṃ.1-3-3-5)
o-mbhūrbhuva॒ssuvaḥ̭ | oṃ aḥ |
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
ahi̭rasi bu॒dhniyo॒ raudre॒ṇānī̭kena pā॒hi mā᳚-'gne pipṛ॒hi mā॒ mā mā̭ higṃsīḥ ||
namaḥ̭ śa॒mbhavḙ ca mayo॒bhavḙ ca॒ namaḥ̭ śaṅka॒rāya̭ ca
mayaska॒rāya̭ ca॒ namaḥ̭ śi॒vāya̭ ca śi॒vata̭rāya ca॒ ||
o-nnamo bhagavatḙ rudrā॒ya | aḥ om |
pādayo-ssthāne rudrāya namaḥ || 16 || (tai.saṃ.1-3-3-5)
[apa upaspṛśya]
tvagasthigatai-ssarvapāpaiḥ pramucyate | sarvabhūteṣvaparājito bhavati | tato bhūtapreta piśāca baddha brahmarākṣasa yakṣa yamadūta śākinī ḍākinī hākinī śatru sarpa śvāpada taskara jvarādyupadravajopaghātā-ssarve jvalanta-mpaśyantu |
[kartasya vacanam] māṃ rakṣantu ||
[purohita vacanam] yajamānagṃ rakṣantu ||
-----------iti tṛtīyaḥ nyāsaḥ------------
pādāti mūrdhānta-mpañcāṅga nyāsaḥ
6. ātmarakṣā
6.1 mano jyotiḥ
mano॒ jyoti̭ rjuṣatā॒-mājyaṃ॒-vi~cchi̭nnaṃ-ya~॒jñagṃ sami॒ma-nda̭dhātu |
yā i॒ṣṭā u॒ṣaso̭ ni॒mruca̭śca॒ tāssanda̭dhāmi ha॒viṣā̭ ghṛ॒tena̭ |
(guhyāya namaḥ) | 1 (tai. saṃ. 1.5.10.2)
abo᳚ddhya॒gni-ssa॒midhā॒ janā̭nā॒-mprati̭dhe॒nu-mi̭vāya॒tī mu॒ṣāsa᳚m |
ya॒hvā i̭va॒ prava॒yā-mu॒jjihā̭nāḥ॒ prabhā॒navaḥ̭ sisrate॒ nāka॒maccha̭ |
(nābhyai namaḥ) | 2 (tai. saṃ. 4.4.4.2)
a॒gni rmū॒rdhā di॒vaḥ ka॒kutpatiḥ̭ pṛthi॒vyā a॒yam |
a॒pāgṃ retāgṃ̭si jinvati | (hṛdayāya namaḥ) | 3 (tai. saṃ. 1.5.5.1)
mū॒rdhāna̭-ndi॒vo a̭ra॒ti-mpṛ̭thi॒vyā vai᳚śvāna॒ra-mṛ॒tāya̭ jā॒tama॒gnim |
ka॒vigṃ sa॒mrāja॒-mati̭thi॒-ñjanā̭nā-mā॒sannā pātra̭-ñjanayanta de॒vāḥ | (kaṇṭhāya namaḥ) | 4 (tai. saṃ. 1.4.13.1)
marmā̭ṇi te॒ varma̭bhiśchā-dayāmi॒ soma̭stvā॒ rājā॒-'mṛ̭te nā॒bhiva̭stām |
u॒ro rvarī̭yo॒ vari̭vaste astu॒ ja̭yanta॒-ntvā manṷmadantu de॒vāḥ |
(mukhāya namaḥ) | 5 (tai. saṃ. 4.6.4.5)
jā॒tavḙdā॒ yadi̭ vā pāva॒ko-'si̭ | vai॒śvā॒na॒ro yadi̭ vā vaidyu॒to-'si̭ |
śa-mpra॒jābhyo॒ yaja̭mānāya lo॒kam | ūrja॒-mpuṣṭi॒-ndada̭ da॒bhyāva̭ vṛthsva || (śirase namaḥ) || 6 (tai. brā. 3.10.5.1)
6.2 ātmarakṣā
(tai. brā. 2.3.11.1 - tai. brā. 2.3.11.4)
brahmā᳚tma॒n vada̭sṛjata | tada̭kāmayata | samā॒tmanā̭ padye॒yeti̭ |
ātma॒nnā-tma॒nnityā-ma̭ntrayata | tasmai̭ daśa॒magṃ hū॒taḥ pratya̭śṛṇot |
sa daśa̭hūto-'bhavat | daśa̭hūto ha॒vai nāmai॒ṣaḥ | taṃ-vā~ e॒ta-ndaśa̭hūta॒gṃ॒ santa᳚m |
daśa̭ho॒tetyā ca̭kṣate pa॒rokṣḙṇa | pa॒rokṣa̭priyā iva॒ hi de॒vāḥ || 1
ātma॒nnā-tma॒nnityā-ma̭ntrayata | tasmai̭ sapta॒magṃ hū॒taḥ pratya̭śṛṇot |
sa sa॒ptahṷ̄to-'bhavat | sa॒ptahṷ̄to ha॒vai nāmai॒ṣaḥ | taṃ-vā~ e॒tagṃ sa॒ptahṷ̄ta॒gṃ॒ santa᳚m | sa॒ptaho॒tetyā ca̭kṣate pa॒rokṣḙṇa | pa॒rokṣa̭priyā iva॒ hi de॒vāḥ || 2
ātma॒nnā-tma॒nnityā-ma̭ntrayata | tasmai̭ ṣa॒ṣṭhagṃ hū॒taḥ pratya̭śṛṇot |
sa ṣaḍḍhṷ̄to-'bhavat | ṣaḍḍhṷ̄to ha॒vai nāmai॒ṣaḥ | taṃ-vā~ e॒tagṃ ṣaḍḍhṷ̄ta॒gṃ॒ santa᳚m |
ṣaḍḍho॒tetyā ca̭kṣate pa॒rokṣḙṇa | pa॒rokṣa̭priyā iva॒ hi de॒vāḥ || 3
ātma॒nnā-tma॒nnityā-ma̭ntrayata | tasmai̭ pañca॒magṃ hū॒taḥ pratya̭śṛṇot |
sa pañca̭hūto-'bhavat | pañca̭hūto ha॒vai nāmai॒ṣaḥ | taṃ-vā~ e॒ta-mpañca̭hūta॒gṃ॒ santa᳚m | pañca̭ho॒tetyā ca̭kṣate pa॒rokṣḙṇa | pa॒rokṣa̭priyā iva॒ hi de॒vāḥ || 4
ātma॒nnā-tma॒nnityā-ma̭ntrayata | tasmai̭ catu॒rthagṃ hū॒taḥ pratya̭śṛṇot |
sa catṷr​hūto-'bhavat | catṷr​hūto ha॒vai nāmai॒ṣaḥ | taṃ-vā~ e॒ta-ñcatṷr​hūta॒gṃ॒
santa᳚m | catṷr​ho॒tetyā ca̭kṣate pa॒rokṣḙṇa | pa॒rokṣa̭priyā iva॒ hi de॒vāḥ || 5
tama̭bravīt | tvaṃ-vai~ me॒ nedi̭ṣṭhagṃ hū॒taḥ pratya̭śrauṣīḥ |
tvayai̭ nānākhyā॒tāra॒ iti̭ | tasmā॒nnuhai̭nā॒g॒-śca̭tu r​hotāra॒ ityāca̭kṣate |
tasmā᳚cchuśrū॒ṣuḥ pu॒trāṇā॒gṃ॒ hṛdya̭tamaḥ | nedi̭ṣṭho॒ hṛdya̭tamaḥ |
nedi̭ṣṭho॒ brahma̭ṇo bhavati | ya e॒vaṃ-ve~da̭ || 6 (ātmane॒ namaḥ̭)
------------iti caturtha nyāsaḥ------------
guhyādi mastakānta ṣaḍaṅganyāsa-ścaturthaḥ
7. śivasaṅkalpāḥ
(ṛg veda khila kāṇḍaṃ 4.11 9.1)
yene॒da-mbhū॒ta-mbhuva̭na-mbhavi॒ṣya-tpari̭gṛhīta-ma॒mṛtḙna॒ sarva᳚m | yena̭ ya॒jñastā̭yate
(ya॒jñastrā̭yate) sa॒ptaho̭tā॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 1
yena॒ karmā̭ṇi pra॒cara̭nti॒ dhīrā॒ yato̭ vā॒cā mana̭sā॒ cāru॒yanti̭ |
ya-thsa॒mmita॒manṷ saṃ॒​ya~nti̭ prā॒ṇina॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 2
yena॒ karmā᳚ṇya॒paso̭ manī॒ṣiṇo̭ ya॒jñe kṛ̭ṇvanti vi॒dathḙṣu॒ dhīrāḥ᳚ |
yada̭pū॒rvaṃ-ya~॒kṣmama॒ntaḥ pra॒jānā॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 3
yatpra॒jñāna̭-mu॒ta ceto॒ dhṛti̭śca॒ yajjyoti̭ ra॒ntara॒mṛta̭-mpra॒jāsṷ |
yasmā॒nna ṛ॒te kiñca॒na karma̭ kri॒yate॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 4
su॒ṣā॒ra॒thi-raśvā̭niva॒ yanma̭nu॒ṣyā᳚nne nī॒yatḙ-'bhī॒śṷbhi rvā॒jina̭ iva |
hṛtpra̭tiṣṭhaṃ॒-ya~da̭jira॒-ñjavi̭ṣṭha॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 5
yasmi॒n ṛca॒ssāma॒-yajūgṃ̭ṣi॒ yasmi̭-npratiṣṭhi॒tā ra̭tha॒nābhā̭ vi॒vārāḥ᳚ |
yasmigg̭ści॒ttagṃ sarva॒mota̭-mpra॒jānā॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 6
yadatra̭ ṣa॒ṣṭha-ntri॒śatagṃ̭ su॒vīraṃ̭-ya~॒jñasya̭ gu॒hya-nnava̭ nāva॒māyya᳚m |
daśa॒ pañca̭ tri॒gṃ॒śataṃ॒-ya~tpara̭-ñca॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 7
yajjāgra̭to dū॒ramu॒daiti॒ daiva॒-ntadṷ su॒ptasya॒ tathai॒vaiti̭ |
dū॒ra॒ga॒mma-ñjyoti̭ṣā॒-ñjyoti॒reka॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 8
yene॒daṃ-vi~śva॒-ñjaga̭to ba॒bhūva॒ ye de॒vāpi̭ maha॒to jā॒tavḙdāḥ |
tade॒vāgni-stama̭so॒ jyoti॒reka॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 9
yena॒ dyauḥ pṛ̭thi॒vī cā॒ntari̭kṣa-ñca॒ ye parva̭tāḥ pra॒diśo॒ diśa̭śca |
yene॒da-ñjaga॒-dvyāpta̭-mpra॒jānā॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 10
ye ma̭no॒ hṛda̭yaṃ॒-ye~ ca̭ de॒vā ye di॒vyā āpo॒ ye sūrya̭raśmiḥ |
te śrotre॒ cakṣṷṣī sa॒ñcara̭nta॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 11
aci̭ntya॒-ñcā pra̭meya॒-ñca vya॒ktā-vyakta̭ para॒-ñca ya̭t |
sūkṣmā᳚-thsūkṣmata̭ra-ñjñe॒ya॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 12
ekā̭ ca da॒śa śa॒ta-ñca̭ sa॒hasra̭-ñcā॒yuta̭-ñca ni॒yuta̭-ñca pra॒yutaṃ॒
cārbṷda-ñca॒ nya̭rbuda-ñca samu॒draśca॒ maddhya॒-ñcānta̭śca parā॒rdhaśca॒ tanme॒ manaḥ̭
śi॒vasa̭ṅka॒lpama̭stu || 13
ye pa̭ñca॒ pañca̭ daśa śa॒tagṃ sa॒hasra̭-ma॒yuta॒-nnya̭rbuda-ñca |
te a̭gni-ci॒tyeṣṭa̭kā॒stagṃ śarī̭ra॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 14
vedā॒hame॒ta-mpṷruṣa-mma॒hānta̭-mādi॒tya-va̭rṇa॒-ntama̭saḥ॒ para̭stāt |
yasya॒ yoni॒-mpari॒paśya̭nti॒ dhīrā॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 15
yasye॒da-ndhīrāḥ᳚ pu॒nanti̭ ka॒vayo᳚ bra॒hmāṇa̭me॒ta-ntvā̭ vṛṇata॒ indu᳚m |
sthā॒va॒ra-ñjaṅga̭maṃ॒-dyaṷrākā॒śa-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 16
parā᳚-tpa॒rata̭ra-ñcai॒va॒ ya॒-tparā᳚ścaiva॒ yatpa̭ram |
ya॒tparā᳚-tpara̭to jñe॒ya॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 17
parā᳚-tparata̭ro bra॒hmā॒ ta॒tparā᳚-tpara॒to ha̭riḥ |
ta॒tparā᳚-tpara̭to 'dhī॒śa॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 18
yā vḙdā॒diṣṷ gāya॒trī॒ sa॒rva॒vyāpi̭ mahe॒śvarī |
ṛg ya̭ju-ssāmā-tharvai॒śca॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 19
yo vai̭ de॒va-mma̭hāde॒va॒-mpra॒ṇava̭-mpara॒meśva̭ram |
ya-ssarvḙ sarva̭ vedai॒śca॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 20
praya̭taḥ॒ praṇa̭voṅkā॒ra॒-mpra॒ṇava̭-mpuru॒ṣotta̭mam |
okāṃ̭ra॒-mpraṇa̭vātmā॒na॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 21
yo-'saṷ sa॒rveṣṷ vede॒ṣu॒ pa॒ṭhyate᳚ hyaja॒ īśva̭raḥ | a॒kāyo̭ nirgṷṇo hyā॒tmā॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 22
gobhi॒ rjuṣṭa॒-ndhanḙna॒ hyāyṷṣā ca॒ balḙna ca | pra॒jayā̭ pa॒śubhiḥ̭ puṣkarā॒kṣa॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 23
kailā̭sa॒ śikha̭re ra॒mye॒ śa॒ṅkara̭sya śi॒vāla̭ye |
de॒vatā᳚statra̭ moda॒nte॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 24
trya̭baṅkaṃ-ya~jāmahe suga॒ndhi-mpṷṣṭi॒vardha̭nam | u॒rvā॒ru॒kami̭va॒ bandha̭nā-nmṛ॒tyo-rmṷkṣīya॒ mā-'mṛtā॒-ttanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 25
vi॒śvata̭-ścakṣuru॒ta vi॒śvato̭ mukho vi॒śvato̭ hasta u॒ta vi॒śvata̭spāt |
sambā॒hubhyāṃ॒-nama̭ti॒ sampa̭tatrai॒ rdyāvā̭ pṛthi॒vī ja॒naya̭-nde॒va eka॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 26
ca॒turo̭ ve॒dāna̭dhīyī॒ta॒ sa॒rva śā᳚strama॒yaṃ-vi~̭duḥ | i॒ti॒hā॒sa॒ pu॒rā॒ṇā॒nā॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 27
mā no̭ ma॒hānta̭mu॒ta mā no̭ arbha॒ka-mmā na॒ ukṣa̭ntamu॒ta mā na̭ ukṣi॒tam | mā no̭ vadhīḥ pi॒tara॒-mmota mā॒tara̭-mpri॒yā mā na̭sta॒nuvo̭ rudra rīriṣa॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 28
mā na̭sto॒ke tana̭ye॒ mā na॒ āyṷṣi॒ mā no॒ goṣu॒ mā no॒ aśvḙṣu rīriṣaḥ |
vī॒rānmāno̭ rudra bhāmi॒tova̭dhī r​ha॒viṣma̭nto॒ nama̭sā vidhema te॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 29
ṛ॒tagṃ sa॒tya-mpa̭ra-mbra॒hma॒ pu॒ruṣa̭-ṅkṛṣṇa॒piṅga̭lam |
ū॒rdhvarḙtaṃ-vi~̭rūpā॒kṣaṃ॒-vi~॒śvarṷ̄pāya॒ vai namo॒ nama॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 30
ka-dru॒drāya॒ pracḙtase mī॒ḍhuṣṭa̭māya॒ tavya̭se | vo॒cema॒ śanta̭magṃ hṛ॒de |
sarvo॒ hyḙṣa ru॒drastasmai̭ ru॒drāya॒ namo̭ astu॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 31
brahma̭jajñā॒na-mpra̭tha॒ma-mpu॒rastā॒-dvisī̭ma॒ta-ssu॒ruco̭ ve॒na ā̭vaḥ |
sa bu॒dhniyā̭ upa॒mā a̭sya vi॒ṣṭhā-ssa॒taśca॒ yoni॒-masa̭taśca॒ viva॒stanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 32
yaḥ prā̭ṇa॒to ni̭miṣa॒to ma̭hi॒tvaika॒ idrājā॒ jaga̭to ba॒bhūva̭ | ya īśḙ a॒sya dvi॒pada॒-ścatṷṣpadaḥ॒ kasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 33
ya ā᳚tma॒dā ba̭la॒dā yasya॒ viśva̭ u॒pāsa̭te pra॒śiṣaṃ॒-ya~sya̭ de॒vāḥ |
yasya̭ chā॒yā-'mṛtaṃ॒-ya~sya̭ mṛ॒tyuḥ kasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 34
yo ru॒dro a॒gnau yo a॒phsu ya oṣa̭dhīṣu॒ yo ru॒dro viśvā॒ bhuva̭nā-''vi॒veśa॒ tasmai̭ ru॒drāya॒ namo̭ astu॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 35
ga॒ndha॒dvā॒rā-ndṷrādha॒r​ṣā॒-nni॒tyapṷṣṭā-ṅkarī॒ṣiṇī᳚m | ī॒śvarīgṃ̭ sarva̭ bhūtā॒nā॒-ntāmi॒hopa̭hvaye॒ śriya॒-ntanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 36
ya idagṃ̭ śiva̭saṅka॒lpa॒gṃ॒ sa॒dā dhyā̭yanti॒ brāhma̭ṇāḥ | te pa̭ra-mmokṣa̭-ṅgamiṣya॒nti॒ tanme॒ manaḥ̭ śi॒vasa̭ṅka॒lpama̭stu || 37
o-nnamo bhagavatḙ rudrā॒ya || śivasaṅkalpagṃ hṛdayāya namaḥ̭ ||
7.2 puruṣa sūktaṃ
(tai. ara. 3.12.1 - tai. ara. 3.12.7)
sa॒hasra̭śīr​ṣā॒ purṷṣaḥ | sa॒ha॒srā॒kṣa-ssa॒hasra̭pāt | sa bhūmiṃ̭-vi~॒śvato̭ vṛ॒tvā | atya̭tiṣṭha-ddaśāṅgu॒lam | purṷṣa e॒vedagṃ sarva᳚m | ya-dbhū॒taṃ-ya~cca॒ bhavya᳚m |
u॒tāmṛ̭ta॒tvasyeśā̭naḥ | yadannḙnā-ti॒roha̭ti |
e॒tāvā̭nasya mahi॒mā | ato॒ jyāyāg̭śca॒ pūrṷṣaḥ || 1
pādo᳚-'sya॒ viśvā̭ bhū॒tāni̭ | tri॒pāda̭syā॒-mṛta̭-ndi॒vi | tri॒pādū॒rdhva udai॒-tpurṷṣaḥ | pādo᳚ 'sye॒hā-''bha̭vā॒-tpunaḥ̭ |
tato॒ viṣvaṃ॒-vya~̭krāmat | sā॒śa॒nā॒na॒śa॒ne a॒bhi || tasmā᳚-dvi॒rāḍa̭jāyata | vi॒rājo॒ adhi॒ pūrṷṣaḥ | sa jā॒to atya̭ricyata | pa॒ścā-dbhūmi॒matho̭ pu॒raḥ || 2
yatpurṷṣeṇa ha॒viṣā᳚ | de॒vā ya॒jñamata̭nvata | va॒sa॒nto a̭syāsī॒dājya᳚m | grī॒ṣma i॒ddhma śśa॒raddha॒viḥ | sa॒ptāsyā̭sa-npari॒dhayaḥ̭ | tri-ssa॒pta sa॒midhaḥ̭ kṛ॒tāḥ | de॒vāya-dya॒jña-nta̭nvā॒nāḥ | aba̭dhna॒-npurṷṣa-mpa॒śum ||
taṃ-ya~॒jña-mba॒r​hiṣi॒ praukṣanṋ | purṷṣa-ñjā॒tama̭gra॒taḥ || 3
tena̭ de॒vā aya̭janta | sā॒ddhyā ṛṣa̭yaśca॒ ye |
tasmā᳚-dya॒jñā-thsa̭rva॒hutaḥ̭ | sambhṛ̭ta-mpṛṣadā॒jyam | pa॒śūg​stāg​śca̭kre vāya॒vyāṋ | ā॒ra॒ṇyā-ngrā॒myāśca॒ ye | tasmā᳚-dya॒jñā-thsa̭rva॒hutaḥ̭ | ṛca॒-ssāmā̭ni jajñire |
chandāgṃ̭si jajñire॒ tasmā᳚t | yaju॒stasmā̭-dajāyata || 4
tasmā॒daśvā̭ ajāyanta | ye ke co̭bha॒yāda̭taḥ |
gāvo̭ ha jajñire॒ tasmā᳚t | tasmā᳚jjā॒tā a̭jā॒vayaḥ̭ |
yatpurṷṣaṃ॒-vya~̭dadhuḥ | ka॒ti॒dhā vya̭kalpayann |
mukha॒-ṅkima̭sya॒ kau bā॒hū | kāvū॒rū pādā̭vucyete | brā॒hma॒ṇo᳚-'sya॒ mukha̭māsīt | bā॒hū rā̭ja॒nyaḥ̭ kṛ॒taḥ || 5
ū॒rū tada̭sya॒ ya-dvaiśyaḥ̭ | pa॒dbhyāgṃ śū॒dro a̭jāyata | ca॒ndramā॒ mana̭so jā॒taḥ | cakṣo॒-ssūryo̭ ajāyata | mukhā॒-dindra̭ścā॒gniśca̭ |
prā॒ṇā-dvā॒yura̭jāyata | nābhyā̭ āsīda॒ntari̭kṣam | śī॒r​ṣṇo dyau-ssama̭vartata | pa॒dbhyā-mbhūmi॒ rdiśa॒-śśrotrā᳚t | tathā̭ lo॒kāgṃ a̭kalpayann || 6
vedā॒hame॒ta-mpurṷṣa-mma॒hānta᳚m | ā॒di॒tyava̭rṇa॒-ntama̭sa॒stu pā॒re |
sarvā̭ṇi rū॒pāṇi̭ vi॒citya॒ dhīraḥ̭ | nāmā̭ni kṛ॒tvābhi॒vada॒n yadāste᳚ | dhā॒tā pu॒rastā॒-dyamṷdāja॒hāra̭ | śa॒kraḥ pravi॒dvā-npra॒diśa॒ścata̭sraḥ | tame॒vaṃ-vi~॒dvāna॒mṛta̭ i॒ha bha̭vati | nānyaḥ panthā॒ aya̭nāya vidyate |
ya॒jñena̭ ya॒jñama̭yajanta de॒vāḥ | tāni॒ dharmā̭ṇi pratha॒mānyā̭sann | te ha॒ nāka̭-mmahi॒māna̭-ssacante | yatra॒ pūrvḙ sā॒ddhyā-ssanti̭ de॒vāḥ || 7
o-nnamo bhagavatḙ rudrā॒ya || puruṣasūktagṃ śirase svāhā ||
7.3 uttara nārāyaṇaṃ
(tai. ara. 3.13.1 - tai. ara. 3.13.2)
a॒dbhya-ssambhṷ̄taḥ pṛthi॒vyai rasā᳚cca | vi॒śvaka̭rmaṇa॒-ssama̭varta॒tādhi̭ |
tasya॒ tvaṣṭā̭ vi॒dadha̭-drū॒pamḙti | tatpurṷṣasya॒ viśva॒mājā̭na॒magre᳚ |
vedā॒hame॒ta-mpurṷṣa-mma॒hānta᳚m | ā॒di॒tyava̭rṇa॒-ntama̭saḥ॒ para̭stāt |
tame॒vaṃ-vi~॒dvāna॒mṛta̭ i॒ha bha̭vati | nānyaḥ panthā̭ vidya॒te-'ya̭nāya | pra॒jāpa̭tiścarati॒ garbhḙ a॒ntaḥ | a॒jāya̭māno bahu॒dhā vijā̭yate |
tasya॒ dhīrāḥ॒ pari̭jānanti॒ yoni᳚m | marī̭cīnā-mpa॒dami̭cchanti ve॒dhasaḥ̭ || 1
yo de॒vebhya॒ āta̭pati | yo de॒vānā᳚-mpu॒rohi̭taḥ |
pūrvo॒ yo de॒vebhyo̭ jā॒taḥ | namo̭ ru॒cāya॒ brāhma̭ye | ruca̭-mbrā॒hma-ñja॒naya̭ntaḥ | de॒vā agre॒ tada̭bruvann | yastvai॒va-mbrā᳚hma॒ṇo vi॒dyāt | tasya̭ de॒vā asa॒n vaśe᳚ | hrīśca̭ te la॒kṣmīśca॒ patnyau᳚ | a॒ho॒rā॒tre pā॒r​śve | nakṣa̭trāṇi rū॒pam | a॒śvinau॒ vyātta᳚m | i॒ṣṭa-mma̭niṣāṇa |
a॒mu-mma̭niṣāṇa | sarva̭-mmaniṣāṇa || 2
o-nnamo bhagavatḙ rudrā॒ya || uttara nārāyaṇagṃ śikhāyai vaṣaṭ ||
7.4 apratirathaṃ
(tai. saṃ. 4.6.4.1 - tai. saṃ. 4.6.4.5)
ā॒śu-śśiśā̭no vṛṣa॒bho na yu॒dhmo gha̭nāgha॒naḥ, kṣobha̭ṇa-ścar​ṣaṇī॒nām |
sa॒॒ṅkranda̭no-'nimi॒ṣa ḙka vī॒raśśa॒tagṃ senā̭ ajayathsā॒-kamindraḥ̭ |
sa॒ṅkranda̭nenā nimi॒ṣeṇa̭ ji॒ṣṇunā̭ yutkā॒reṇa̭ duścyava॒nena̭ dhṛ॒ṣṇunā᳚ |
tadindrḙṇa jayata॒ tathsa̭hadhvaṃ॒-yu~dho̭ nara॒ iṣṷ hastena॒ vṛṣṇā᳚ |
sa iṣṷhastai॒-ssa ni̭ṣa॒ṅgibhi̭ rva॒śī sagg​sra̭ṣṭā॒ sayudha॒ indro̭ ga॒ṇena̭ |
sa॒gṃ॒sṛ॒ṣṭa॒-jithso̭ma॒pā bā̭hu śa॒rdhyū᳚rdhva-dha̭nvā॒ prati̭hitā-bhi॒rastā᳚ |
bṛha̭spate॒ pari̭dīyā॒ rathḙna rakṣo॒hā-'mitrāgṃ̭ apa॒ bādha̭mānaḥ | 1
pra॒bha॒ñja-nthsenāḥ᳚ pramṛ॒ṇo yu॒dhā jaya̭nna॒smāka̭-meddhyavi॒tā rathā̭nām |
go॒tra॒bhida̭-ṅgo॒vidaṃ॒-va~jra̭bāhu॒-ñjaya̭nta॒majma̭ pramṛ॒ṇanta॒-moja̭sā |
i॒magṃ sa̭jātā॒ anṷvīra-yadhva॒mindragṃ̭ sakhā॒yo-'nu॒ sara̭bhadhvam |
ba॒la॒vi॒jñā॒ya-ssthavi̭raḥ॒ pravī̭ra॒-ssaha̭svān vā॒jī saha̭māna u॒graḥ |
a॒bhivī̭ro a॒bhisa̭tvā saho॒jā jaitra̭mindra॒ ratha॒māti̭ṣṭha go॒vit | 2
a॒bhi go॒trāṇi॒ saha̭sā॒ gāha̭māno-'dā॒yo vī॒ra śśa॒ta-ma̭nyu॒rindraḥ̭ |
du॒ścya॒va॒naḥ pṛ̭tanā॒ṣāḍa̭ yu॒ddhyo᳚-'smāka॒gṃ॒ senā̭ avatu॒ prayu॒thsu |
indra̭ āsā-nne॒tā bṛha॒spati॒ rdakṣi̭ṇā ya॒jñaḥ pu॒ra ḙtu॒ somaḥ̭ |
de॒va॒se॒nānā̭-mabhibha-ñjatī॒nā-ñjaya̭ntīnā-mma॒ruto̭ ya॒ntvagre᳚ |
indra̭sya॒ vṛṣṇo॒ varṷṇasya॒ rājña̭ ādi॒tyānā᳚-mma॒rutā॒gṃ॒ śardha̭ u॒gram |
ma॒hāma̭nasā-mbhuvanacya॒vānā॒-ṅghoṣo̭ de॒vānā॒-ñjaya̭tā॒ muda̭sthāt |
a॒smāka॒-mindraḥ॒-samṛ̭teṣu-dhva॒je-ṣva॒smākaṃ॒-yā~ iṣa̭va॒stā ja̭yantu | 3
a॒smākaṃ̭-vī~॒rā utta̭re bhavantva॒smānṷ devā avatā॒ havḙṣu | uddha̭r​ṣaya maghava॒nnā-yṷdhā॒-nyuthsatva̭nā-mmāma॒kānā॒-mmahāgṃ̭si |
udvṛ̭trahan vā॒jināṃ॒-vā~ji̭nā॒-nyudrathā̭nā॒-ñjaya̭tāmetu॒ ghoṣaḥ̭ |
upa॒preta॒ jaya̭tā nara-ssthi॒rā vaḥ̭ santu bā॒havaḥ̭ | indro̭ va॒-śśarma̭ yacchatvanā-dhṛ॒ṣyā yathā-'sa̭tha | ava̭sṛṣṭā॒ parā̭pata॒ śara̭vye॒ brahma̭ sagṃśitā | gacchā॒mitrā॒-npravi̭śa॒ maiṣā॒-ṅkañca॒nocchi̭ṣaḥ |
marmā̭ṇi te॒ varma̭bhiśchā-dayāmi॒ soma̭stvā॒ rājā॒-'mṛtḙnā॒-bhiva̭stām | u॒ro rvarī̭yo॒ vari̭vaste astu॒ jaya̭nta॒-ntvāmanṷ madantu de॒vāḥ | yatra̭ bā॒ṇā-ssa॒mpata̭nti kumā॒rā vi̭śi॒khā i̭va |
indro̭ na॒statra̭ vṛtra॒hā vi̭śvā॒hā śarma̭ yacchatu || 4 ||
o-nnamo bhagavatḙ rudrā॒ya || āśuśśiśāno-'pratiratha-ṅkavacāya hum |
7.5 prati pūruṣaṃ
(tai. saṃ. 1.8.6.1 - tai. saṃ. 1.8.6.2)
(tai. brā. 1.6.10.1 - tai. brā. 1.6.10.5)
pra॒ti॒pū॒ru॒ṣa meka̭kapālā॒-nnirva̭pa॒tye-ka॒mati̭riktaṃ॒-yā~va̭nto gṛ॒hyā᳚-ssmastebhyaḥ॒ kama̭kara-mpaśū॒nāgṃ śarmā̭si॒ śarma॒ yaja̭mānasya॒ śarma̭ me
ya॒cchaika̭ e॒va ru॒dro na dvi॒tīyā̭ya tastha ā॒khustḙ rudra pa॒śusta-ñjṷṣasvai॒ṣa tḙ rudra bhā॒ga-ssa॒ha svasrāṃ-'bi̭kayā॒ tañjṷṣasva bheṣa॒ja-ṅgave-'śvā̭ya॒
purṷṣāya bheṣa॒jamatho̭ a॒smabhya̭-mbheṣa॒jagṃ subhḙṣajaṃ॒-ya~thā-'sa̭ti | 1
su॒ga-mme॒ṣāya̭ me॒ṣyā̭ avā᳚baṃ ru॒drama̭di-ma॒hyava̭ de॒va-ntrya̭baṅkam |
yathā̭ na॒-śśreya̭saḥ॒ kara॒dyathā̭ no॒ vasya̭ saḥ॒ kara॒dyathā̭ naḥ paśu॒mataḥ॒
kara॒dyathā̭ no vyavasā॒yayā᳚t | trya̭baṅkaṃ-ya~jāmahe suga॒ndhi-mpṷṣṭi॒vardha̭nam |
u॒rvā॒ru॒kami̭va॒ bandha̭nā-nmṛ॒tyo rmṷkṣīya॒ mā-'mṛtā᳚t | e॒ṣatḙ rudra bhā॒ga stañjṷṣasva॒ tenā̭va॒sena̭ pa॒ro mūja̭va॒to-'tī॒hyava̭tata
dhanvā॒ pinā̭kahastaḥ॒ kṛtti̭vāsāḥ || 2
pra॒ti॒pū॒ru॒ṣa-meka̭kapālā॒-nnirva̭pati | jā॒tā e॒va pra॒jā ru॒drā-nni॒rava̭dayate | eka॒mati̭riktam | ja॒ni॒ṣyamā̭ṇā e॒va pra॒jā ru॒drā-nni॒rava̭dayate | eka̭kapālā bhavanti | e॒ka॒dhaiva ru॒dra-nni॒rava̭dayate | nābhighā̭rayati | yada̭bhighā॒raye᳚t | a॒nta॒ra॒va॒-cā॒riṇagṃ̭ ru॒dra-ṅkṷryāt |
e॒ko॒lmu॒kena̭ yanti | 3
taddhi ru॒drasya̭ bhāga॒dheya᳚m | i॒mā-ndiśaṃ̭-ya~nti | e॒ṣā vai ru॒drasya॒ dik | svāyā̭ me॒va di॒śi ru॒dra-nni॒rava̭dayate | ru॒dro vā a̭pa॒śukā̭yā॒ āhṷtyai॒ nāti̭ṣṭhata | a॒sau tḙ pa॒śuriti॒ nirdi̭śe॒dya-ndvi॒ṣyāt | yame॒va dveṣṭi̭ |
tama̭smai pa॒śu-nnirdi̭śati | yadi॒ na dvi॒ṣyāt |
ā॒khustḙ pa॒śuriti̭ brūyāt | 4
na grā॒myā-npa॒śūn hi॒nasti̭ | nāra॒ṇyān | ca॒tu॒ṣpa॒the jṷhoti | e॒ṣa vā a̭gnī॒nā-mpaḍbī̭śo॒ nāma̭ | a॒gni॒vatye॒va jṷhoti |
ma॒ddhya॒mena̭ pa॒rṇena̭ juhoti | srugghyḙṣā | atho॒ khalṷ | a॒nta॒menai॒va ho̭ta॒vya᳚m | a॒nta॒ta e॒va ru॒dra-nni॒rava̭dayate | 5
eṣa॒ tḙ rudrabhā॒ga-ssa॒hasvasrāṃ-'bi̭ka॒yetyā̭ha | śa॒radvā a॒syāmbi̭kā॒ svasā᳚ |
tayā॒ vā e॒ṣa hi̭nasti | yagṃ hi॒nasti̭ | tayai॒vainagṃ̭ sa॒ha śa̭mayati |
bhe॒ṣa॒jaṅgava॒ ityā̭ha | yāva̭nta e॒va grā॒myāḥ pa॒śavaḥ̭ | tebhyo̭ bheṣa॒ja-ṅka̭roti | avā᳚baṃ ru॒drama̭di ma॒hītyā̭ha | ā॒śiṣa̭me॒vai-tāmā śā᳚ste | 6
trya̭baṅkaṃ-ya~jāmaha॒ ityā̭ha | mṛ॒tyo rmṷkṣīya॒ mā-'mṛtā॒-diti॒ vā vai tadā̭ha |
utki̭ranti | bhaga̭sya līphsante | mūtḙ kṛ॒tvā sa̭janti |
yathā॒ janaṃ̭-ya~॒tḙ-'va॒sa-ṅka॒roti̭ | tā॒dṛge॒va tat | e॒ṣa tḙ rudrabhā॒ga ityā̭ha ni॒rava̭tyai | apra̭tīkṣa॒-māya̭nti | a॒paḥ pari̭ṣiñcati | ru॒drasyā॒nta r​hi̭tyai | pravā e॒te᳚-'smā-llo॒kā-ccya̭vante | ye trya̭baṅkai॒-ścara̭nti | ā॒di॒tya-ñca॒ru-mpuna॒retya॒ nirva̭pati | i॒yaṃ-vā~ adi̭tiḥ | a॒syāme॒va prati̭tiṣṭhanti || 7
o-nnamo bhagavatḙ rudrā॒ya || pratipūruṣaṃ-vi~bhāḍiti netratrayā̭ya vau॒ṣaṭ ||
7.6 śata rudrīyaṃ (tvamagne rudro-'nuvākaḥ)
tai. brā. 3.11.2.1 - tai. brā. 3.11.2.4
tvama̭gne ru॒dro asṷro ma॒ho di॒vaḥ | tvagṃ śardho॒ mārṷta-mpṛ॒kṣa ī̭śiṣe |
tvaṃ-vā~tai̭raru॒ṇai ryā̭si śaṅga॒yaḥ | tva-mpū॒ṣā vi̭dha॒taḥ pā̭si॒ nutmanāḥ᳚ |
devā̭ de॒veṣṷ śrayaddhvam | pratha̭mā dvi॒tīyḙṣu śrayaddhvam |
dvitī̭yā-stṛ॒tīyḙṣu śrayaddhvam | tṛtī̭yā-ścatu॒rtheṣṷ śrayaddhvam |
ca॒tu॒rthāḥ pa̭ñca॒meṣṷ śrayaddhvam | pa॒ñca॒mā-ṣṣa॒ṣṭheṣṷ śrayaddhvam | 1
ṣa॒ṣṭhā-ssa̭pta॒meṣṷ śrayaddhvam | sa॒pta॒mā a̭ṣṭa॒meṣṷ śrayaddhvam |
a॒ṣṭa॒mā na̭va॒meṣṷ śrayaddhvam | na॒va॒mā da̭śa॒meṣṷ śrayaddhvam |
da॒śa॒mā ḙkāda॒śeṣṷ śrayaddhvam | e॒ka॒da॒śā dvā̭da॒śeṣṷ śrayaddhvam |
dvā॒da॒śā-stra̭yoda॒śeṣṷ śrayaddhvam | tra॒yo॒da॒śā-śca̭tu rde॒śeṣṷ śrayaddhvam |
ca॒tu॒rda॒śāḥ pa̭ñcada॒śeṣṷ śrayaddhvam | pa॒ñca॒da॒śā-ṣṣo̭ḍa॒śeṣṷ śrayaddhvam | 2
ṣo॒ḍa॒śā-ssa̭ptada॒śeṣṷ śrayaddhvam | sa॒pta॒da॒śā a̭ṣṭāda॒śeṣṷ śrayaddhvam |
a॒ṣṭā॒da॒śā ḙkānnavi॒gṃ॒śeṣṷ śrayaddhvam |
e॒kā॒nna॒vi॒gṃ॒śā vi॒gṃ॒śeṣṷ śrayaddhvam |
vi॒gṃ॒śā ḙkavi॒gṃ॒śeṣṷ śrayaddhvam |
e॒ka॒vi॒gṃ॒śā dvā̭vi॒gṃ॒śeṣṷ śrayaddhvam |
dvā॒vi॒gṃ॒śā stra̭yovi॒gṃ॒śeṣṷ śrayaddhvam |
tra॒yo॒vi॒gṃ॒śā śca̭turvi॒gṃ॒śeṣṷ śrayaddhvam | ca॒tu॒rvi॒gṃ॒śāḥ pa̭ñcavi॒gṃ॒śeṣṷ śrayaddhvam |
pa॒ñca॒vi॒gṃ॒śā-ṣṣa̭ḍvi॒gṃ॒śeṣṷ śrayaddhvam | 3
ṣa॒ḍvi॒gṃ॒śā ssa̭ptavi॒gṃ॒śeṣṷ śrayaddhvam | sa॒pta॒vi॒gṃ॒śā a̭ṣṭāvi॒gṃ॒śeṣṷ śrayaddhvam | a॒ṣṭā॒vi॒gṃ॒śā ḙkānnatri॒gṃ॒śeṣṷ śrayaddhvam | e॒kā॒nna॒tri॒gṃ॒śā stri॒gṃ॒śeṣṷ śrayaddhvam | tri॒gṃ॒śā ḙkatri॒gṃ॒śeṣṷ śrayaddhvam | e॒ka॒tri॒gṃ॒śā dvā᳚tri॒gṃ॒śeṣṷ śrayaddhvam | dvā॒tri॒gṃ॒śā tra̭yastri॒gṃ॒śeṣṷ śrayaddhvam | devā᳚strirekādaśā॒ stristra̭yastrigṃśāḥ | utta̭re bhavata | utta̭ra vartmāna॒ utta̭ra satvānaḥ | yatkā̭ma i॒da-ñju॒homi̭ | tanme॒ samṛ̭ddhyatām | va॒yagg​syā̭ma॒ pata̭yo rayī॒ṇām | bhūrbhuva॒sva̭ssvāhā᳚ | 4
o-nnamo bhagavatḙ rudrā॒ya || tvamagne tvamagne śatarudrīyamityastrāya phaṭ ||
7.7 pañcāṅga japaḥ
atha pañcāṅgajapaḥ ||
sa॒dyojā॒ta-mpra̭padyā॒mi॒ sa॒dyojā॒tāya॒ vai namo॒ namaḥ̭ |
bha॒ve bha̭ve॒ nāti̭bhave bhavasva॒ mām |
bha॒vodbha̭vāya॒ namaḥ̭ || 1
vā॒ma॒de॒vāya॒ namo᳚ jye॒ṣṭhāya॒ namaḥ̭ śre॒ṣṭhāya॒ namo̭ ru॒drāya॒ namaḥ॒ kālā̭ya॒ namaḥ॒ kala̭vikaraṇāya॒ namo॒ bala̭vikaraṇāya॒ namo॒ balā̭ya॒ namo॒ bala̭pramathanāya॒ nama॒-ssarva̭bhūtadamanāya॒ namo̭ ma॒nonma̭nāya॒ namaḥ̭ || 2
a॒ghore᳚bhyo-'tha॒ ghore᳚bhyo॒ ghora॒ghora̭tarebhyaḥ |
sarve᳚bhya-ssarva॒śarve᳚bhyo॒ nama̭ste astu ru॒drarṷ̄pebhyaḥ || 3
tatpurṷṣāya vi॒dmahḙ mahāde॒vāya̭ dhīmahi |
tanno̭ rudraḥ praco॒dayā᳚t || 4
īśāna-ssarva̭vidyā॒nā॒mīśvara-ssarva̭bhūtā॒nāṃ॒
brahmādhi̭pati॒rbrahma॒ṇo-'dhi̭pati॒rbrahmā̭ śi॒vo mḙ astu sadāśi॒vom || 5
7.8 aṣṭāṅga praṇāmaḥ
hi॒ra॒ṇya॒ga॒rbha-ssama̭varta॒-tāgrḙ bhū॒tasya̭ jā॒taḥ pati॒reka̭ āsīt |
sadā̭dhāra pṛthi॒vī-ndyāmu॒temā-ṅkasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema ||
urasā namaḥ || 1 (tai. saṃ. 4.1.8.3)
yaḥ prā̭ṇa॒to ni̭miṣa॒to ma̭hi॒tvaika॒ idrājā॒ jaga̭to ba॒bhūva̭ |
ya īśḙ a॒sya dvi॒pada॒-ścatṷṣpadaḥ॒ kasmai̭ de॒vāya̭ ha॒viṣā̭ vidhema ||
śirasā namaḥ || 2 (tai. saṃ. 4.1.8.4)
brahma̭jajñā॒na-mpra̭tha॒ma-mpu॒rastā॒-dvisī̭ma॒ta-ssu॒ruco̭ ve॒na ā̭vaḥ |
sa bu॒dhniyā̭ upa॒mā a̭sya vi॒ṣṭhā-ssa॒taśca॒ yoni॒ma-sa̭taśca॒ vivaḥ̭ | (
dṛṣyā namaḥ | 3 (tai. saṃ. 4.2.8.2.)
ma॒hī dyauḥ pṛ̭thi॒vī ca̭ na i॒maṃ-ya~॒jña-mmi̭mikṣatām |
pi॒pṛ॒tānno॒ bharī̭mabhiḥ |
manasā namaḥ || 4 (tai. saṃ. 3.3.10.2)
upa̭śvāsaya pṛthi॒vī-mu॒ta dyā-mpṷru॒trā tḙ manutāṃ॒-vi~ṣṭhi̭ta॒-ñjaga̭t |
sa dṷndubhe sa॒jūrindrḙṇa de॒vai-rdū॒rāddavī̭yo॒ apa̭sedha॒ śatrūṋ |
vacasā namaḥ || 5 (tai. saṃ. 4.6.6.6)
agne॒ naya̭ su॒pathā̭ rā॒ye a॒smān viśvā̭ni deva va॒yunā̭ni vi॒dvān |
yu॒yo॒ddhya̭sma-jjṷhurā॒ṇa-meno॒ bhūyi̭ṣṭhānte॒ nama̭ uktiṃ-vi~dhema ||
padhbhyā-nnamaḥ || 6 (tai. saṃ. 1.1.14.3)
yā tḙ agne॒ rudri̭yā ta॒nūstayā̭ naḥ pāhi॒ tasyā᳚ste॒ svāhā᳚ |
yā tḙ agne-'yāśa॒yā ra̭jāśa॒yā ha̭rāśa॒yā ta॒nūrvar​ṣi̭ṣṭhā gahvare॒ṣṭhograṃ-va~co॒ apā̭vadhī-ntve॒ṣaṃ-va~co॒ apā̭vadhī॒gṃ॒ svāhā᳚ ||
karābhyā-nnamaḥ || 7 (tai. saṃ. 1.2.11.2)
i॒maṃ-ya~̭maprasta॒ramāhi sīdāṅgi̭robhiḥ pi॒tṛbhiḥ̭ saṃ​vi~dā॒naḥ |
ātvā॒ mantrāḥ̭ kaviśa॒stā va̭hantve॒nā rā̭jan ha॒viṣā̭ mādayasva ||
karṇābhyā-nnamaḥ || 8 (tai. saṃ. 2.6.12.6)
urasā śirasā dṛṣṭyā mana̭sā vacasā ta॒thā |
padbhyā-ṅkarābhyā-ṅkarṇābhyā-mpraṇāmo-'ṣṭāṅga̭ ucyate ||
umāmaheśvarābhyā-nnamaḥ ||