📄 Save this Stotram as PDF Click the button to open the Save dialog
How to save: 1 Click "Save as PDF" 2 A dialog opens 3 Choose "Save as PDF" as printer 4 Click Save
चित्ति पन्नम्
Chitti Pannam
Vedic Devanagari
(कृष्णयजुर्वेदीय तैत्तिरीयारण्यके तृतीय प्रपाठकः)
हरिः ओम् । तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ ।
गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
श-न्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॑ष्पदे ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
ओ-ञ्चित्ति॒स्स्रुक् । चि॒त्तमाज्य᳚म् । वाग्वेदिः॑ । आधी॑त-म्ब॒र्​हिः । केतो॑ अ॒ग्निः । विज्ञा॑तम॒ग्निः । वाक्प॑ति॒र्​होता᳚ । मन॑ उपव॒क्ता । प्रा॒णो ह॒विः । सामा᳚ध्व॒र्युः । वाच॑स्पते विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माक॒-न्नाम॑ । वा॒चस्पति॒स्सोम॑-म्पिबतु । आ-ऽस्मासु॑ नृ॒म्ण-न्धा॒त्स्वाहा᳚ ॥ 1 ॥
अ॒ध्व॒र्युः पञ्च॑ च ॥ 1 ॥
पृ॒थि॒वी होता᳚ । द्यौर॑ध्व॒र्युः । रु॒द्रो᳚-ऽग्नीत् । बृह॒स्पति॑रुपव॒क्ता । वाच॑स्पते वा॒चो वी॒र्ये॑ण । सम्भृ॑ततमे॒ना-ऽऽय॑क्ष्यसे । यज॑मानाय॒ वार्य᳚म् । आ सुव॒स्कर॑स्मै । वा॒चस्पति॒स्सोम॑-म्पिबति । ज॒जन॒दिन्द्र॑मिन्द्रि॒याय॒ स्वाहा᳚ ॥ 2 ॥
पृ॒थि॒वी होता॒ दश॑ ॥ 2 ॥
अ॒ग्निर्​होता᳚ । अ॒श्विना᳚-ऽध्व॒र्यू । त्वष्टा॒-ऽग्नीत् । मि॒त्र उ॑पव॒क्ता । सोम॒स्सोम॑स्य पुरो॒गाः । शु॒क्रस्शु॒क्रस्य॑ पुरो॒गाः । श्रा॒तास्त॑ इन्द्र॒ सोमाः᳚ । वाता॑पेर्​हवन॒श्रुत॒स्स्वाहा᳚ ॥ 3 ॥
अ॒ग्निर्​होता॒-ऽष्टौ ॥ 3 ॥
सूर्य॑-न्ते॒ चक्षुः॑ । वात॑-म्प्रा॒णः । द्या-म्पृ॒ष्ठम् । अ॒न्तरि॑क्षमा॒त्मा । अङ्गै᳚र्य॒ज्ञम् । पृ॒थि॒वीग्ं शरी॑रैः । वाच॑स्प॒ते-ऽच्छि॑द्रया वा॒चा । अच्छि॑द्रया जु॒ह्वा᳚ । दि॒वि दे॑वा॒वृध॒ग्ं॒ होत्रा॒ मेर॑यस्व॒ स्वाहा᳚ ॥ 4 ॥
सूर्य॑-न्ते॒ नव॑ ॥ 4 ॥
म॒हाह॑वि॒र्​होता᳚ । स॒त्यह॑विरध्व॒र्युः । अच्यु॑तपाजा अ॒ग्नीत् । अच्यु॑तमना उपव॒क्ता । अ॒ना॒धृ॒ष्यश्चा᳚प्रतिधृ॒ष्यश्च॑ य॒ज्ञस्या॑भिग॒रौ । अ॒यास्य॑ उद्गा॒ता । वाच॑स्पते हृद्विधे नामन्न् । वि॒धेम॑ ते॒ नाम॑ । वि॒धेस्त्वम॒स्माक॒-न्नाम॑ । वा॒चस्पति॒स्सोम॑मपात् । मा दैव्य॒स्तन्तु॒श्छेदि॒ मा म॑नु॒ष्यः॑ । नमो॑ दि॒वे । नमः॑ पृथि॒व्यै स्वाहा᳚ ॥ 5 ॥
अ॒पा॒त्त्रीणि॑ च ॥ 5 ॥
वाघोता᳚ । दी॒क्षा पत्नी᳚ । वातो᳚-ऽध्व॒र्युः । आपो॑-ऽभिग॒रः । मनो॑ ह॒विः । तप॑सि जुहोमि । भूर्भुव॒स्सुवः॑ । ब्रह्म॑ स्वय॒म्भु । ब्रह्म॑णे स्वय॒म्भुवे॒ स्वाहा᳚ ॥ 6 ॥
वाघोता॒ नव॑ ॥ 6 ॥
ब्रा॒ह्म॒ण एक॑होता । स य॒ज्ञः । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । य॒ज्ञश्च॑ मे भूयात् । अ॒ग्निर्द्विहो॑ता । स भ॒र्ता । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । भ॒र्ता च॑ मे भूयात् । पृ॒थि॒वी त्रिहो॑ता । स प्र॑ति॒ष्ठा ॥ 7 ॥
स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । प्र॒ति॒ष्ठा च॑ मे भूयात् । अ॒न्तरि॑क्ष॒-ञ्चतु॑र्​होता । स वि॒ष्ठाः । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । वि॒ष्ठाश्च॑ मे भूयात् । वा॒युः पञ्च॑होता । स प्रा॒णः । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । प्रा॒णश्च॑ मे भूयात् ॥ 8 ॥
च॒न्द्रमा॒-ष्षड्ढो॑ता । स ऋ॒तून्क॑ल्पयाति । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । ऋ॒तव॑श्च मे कल्पन्ताम् । अन्नग्ं॑ स॒प्तहो॑ता । स प्रा॒णस्य॑ प्रा॒णः । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । प्रा॒णस्य॑ च मे प्रा॒णो भू॑यात् । द्यौर॒ष्टहो॑ता । सो॑-ऽनाधृ॒ष्यः ॥ 9 ॥
स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । अ॒ना॒धृ॒ष्यश्च॑ भूयासम् । आ॒दि॒त्यो नव॑होता । स ते॑ज॒स्वी । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । ते॒ज॒स्वी च॑ भूयासम् । प्र॒जाप॑ति॒र्दश॑होता । स इ॒दग्ं सर्व᳚म् । स मे॑ ददातु प्र॒जा-म्प॒शून्पुष्टिं॒-यँशः॑ । सर्व॑-ञ्च मे भूयात् ॥ 10 ॥
प्र॒ति॒ष्ठा प्रा॒णश्च॑ मे भूयादनाधृ॒ष्यस्सर्व-ञ्च मे भूयात् ॥
ब्रा॒ह्म॒णो य॒ज्ञो᳚-ऽग्निर्भ॒र्ता पृ॑थि॒वी प्र॑ति॒ष्ठा-ऽन्तरि॑क्षं-विँ॒ष्ठा वा॒युः प्रा॒णश्च॒न्द्रमा॑ स ऋ॒तूनन्न॒ग्ं॒ स प्रा॒णस्य॑ प्रा॒णो द्यौर॑नाधृ॒ष्य आ॑दि॒त्यस्स ते॑ज॒स्वी प्र॒जाप॑ति॒-स्स इ॒दग्ं सर्व॒ग्ं॒ सर्व॑-ञ्च मे भूयात् ॥
अ॒ग्निर्यजु॑र्भिः । स॒वि॒ता स्तोमैः᳚ । इन्द्र॑ उक्थाम॒दैः । मि॒त्रावरु॑णावा॒शिषा᳚ । अङ्गि॑रसो॒ धिष्णि॑यैर॒ग्निभिः॑ । म॒रुत॑स्सदोहविर्धा॒नाभ्या᳚म् । आपः॒ प्रोक्ष॑णीभिः । ओष॑धयो ब॒र्​हिषा᳚ । अदि॑ति॒र्वेद्या᳚ । सोमो॑ दी॒क्षया᳚ ॥ 11 ॥
त्वष्टे॒ध्मेन॑ । विष्णु॑र्य॒ज्ञेन॑ । वस॑व॒ आज्ये॑न । आ॒दि॒त्या दक्षि॑णाभिः । विश्वे॑ दे॒वा ऊ॒र्जा । पू॒षा स्व॑गाका॒रेण॑ । बृह॒स्पतिः॑ पुरो॒धया᳚ । प्र॒जाप॑तिरुद्गी॒थेन॑ । अ॒न्तरि॑क्ष-म्प॒वित्रे॑ण । वा॒युः पात्रैः᳚ । अ॒हग्ग्‍ं श्र॒द्धया᳚ ॥ 12 ॥
दी॒क्षया॒ पात्रै॒रेक॑-ञ्च ॥ 8 ॥
सेनेन्द्र॑स्य । धेना॒ बृह॒स्पतेः᳚ । प॒थ्या॑ पू॒ष्णः । वाग्वा॒योः । दी॒क्षा सोम॑स्य । पृ॒थि॒व्य॑ग्नेः । वसू॑ना-ङ्गाय॒त्री । रु॒द्राणा᳚-न्त्रि॒ष्टुक् । आ॒दि॒त्याना॒-ञ्जग॑ती । विष्णो॑रनु॒ष्टुक् ॥ 13 ॥
वरु॑णस्य वि॒राट् । य॒ज्ञस्य॑ प॒ङ्क्तिः । प्र॒जाप॑ते॒रनु॑मतिः । मि॒त्रस्य॑ श्र॒द्धा । स॒वि॒तुः प्रसू॑तिः । सूर्य॑स्य॒ मरी॑चिः । च॒न्द्रम॑सो रोहि॒णी । ऋषी॑णामरुन्ध॒ती । प॒र्जन्य॑स्य वि॒द्युत् । चत॑स्रो॒ दिशः॑ । चत॑स्रो-ऽवान्तरदि॒शाः । अह॑श्च॒ रात्रि॑श्च । कृ॒षिश्च॒ वृष्टि॑श्च । त्विषि॒श्चाप॑चितिश्च । आप॒श्चौष॑धयश्च । ऊर्क्च॑ सू॒नृता॑ च दे॒वाना॒-म्पत्न॑यः ॥ 14 ॥
अ॒नु॒ष्टुग्दिश॒ष्षट्च॑ ॥ 9 ॥
दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒वे । अ॒श्विनो᳚र्बा॒हुभ्या᳚म् । पू॒ष्णो हस्ता᳚भ्या॒-म्प्रति॑गृह्णामि । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे॒-ऽग्नये॒ हिर॑ण्यम् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे । क इ॒द-ङ्कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता ॥ 15 ॥
कामः॑ प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚-ऽऽङ्गीर॒सः प्रति॑गृह्णातु । सोमा॑य॒ वासः॑ । रु॒द्राय॒ गाम् । वरु॑णा॒याश्व᳚म् । प्र॒जाप॑तये॒ पुरु॑षम् ॥ 16 ॥
मन॑वे॒ तल्प᳚म् । त्वष्ट्रे॒-ऽजाम् । पू॒ष्णे-ऽवि᳚म् । निर्-ऋ॑त्या अश्वतरगर्द॒भौ । हि॒मव॑तो ह॒स्तिन᳚म् । ग॒न्ध॒र्वा॒प्स॒राभ्य॑स्स्रगलङ्कर॒णे । विश्वे᳚भ्यो दे॒वेभ्यो॑ धा॒न्यम् । वा॒चे-ऽन्न᳚म् । ब्रह्म॑ण ओद॒नम् । स॒मु॒द्रायापः॑ ॥ 17 ॥
उ॒त्ता॒नाया᳚ङ्गीर॒सायानः॑ । वै॒श्वा॒न॒राय॒ रथ᳚म् । वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हत् । दि॒वः पृ॒ष्ठ-म्भन्द॑मानस्सु॒मन्म॑भिः । स पू᳚र्व॒वज्ज॒नय॑ज्ज॒न्तवे॒ धन᳚म् । स॒मा॒नम॑ज्मा॒ परि॑याति॒ जागृ॑विः । राजा᳚ त्वा॒ वरु॑णो नयतु देवि दक्षिणे वैश्वान॒राय॒ रथ᳚म् । तेना॑मृत॒त्वम॑श्याम् । वयो॑ दा॒त्रे । मयो॒ मह्य॑मस्तु प्रतिग्रही॒त्रे ॥ 18 ॥
क इ॒द-ङ्कस्मा॑ अदात् । कामः॒ कामा॑य । कामो॑ दा॒ता । कामः॑ प्रतिग्रही॒ता । कामग्ं॑ समु॒द्रमावि॑श । कामे॑न त्वा॒ प्रति॑गृह्णामि । कामै॒तत्ते᳚ । ए॒षा ते॑ काम॒ दक्षि॑णा । उ॒त्ता॒नस्त्वा᳚-ऽऽङ्गीर॒सः प्रति॑गृह्णातु ॥ 19 ॥
दा॒ता पुरु॑ष॒मापः॑ प्रतिग्रही॒त्रे नव॑ च ॥ 10 ॥
सु॒वर्ण॑-ङ्घ॒र्म-म्परि॑वेद वे॒नम् । इन्द्र॑स्या॒-ऽऽत्मान॑-न्दश॒धा चर॑न्तम् । अ॒न्तस्स॑मु॒द्रे मन॑सा॒ चर॑न्तम् । ब्रह्मा-ऽन्व॑विन्द॒द्दश॑होतार॒मर्णे᳚ । अ॒न्तः प्रवि॑ष्टश्शा॒स्ता जना॑नाम् । एक॒स्सन्ब॑हु॒धा वि॑चारः । श॒तग्ं शु॒क्राणि॒ यत्रैक॒-म्भव॑न्ति । सर्वे॒ वेदा॒ यत्रैक॒-म्भव॑न्ति । सर्वे॒ होता॑रो॒ यत्रैक॒-म्भव॑न्ति । स॒ मान॑सीन आ॒त्मा जना॑नाम् ॥ 20 ॥
अ॒न्तः प्रवि॑ष्टश्शा॒स्ता जना॑ना॒ग्ं॒ सर्वा᳚त्मा । सर्वाः᳚ प्र॒जा यत्रैक॒-म्भव॑न्ति । चतु॑र्​होतारो॒ यत्र॑ स॒म्पद॒-ङ्गच्छ॑न्ति दे॒वैः । स॒ मान॑सीन आ॒त्मा जना॑नाम् । ब्रह्मेन्द्र॑म॒ग्नि-ञ्जग॑तः प्रति॒ष्ठाम् । दि॒व आ॒त्मानग्ं॑ सवि॒तार॒-म्बृह॒स्पति᳚म् । चतु॑र्​होतार-म्प्र॒दिशो-ऽनु॑क्लृ॒प्तम् । वा॒चो वी॒र्य॑-न्तप॒सा-ऽन्व॑विन्दत् । अ॒न्तः प्रवि॑ष्ट-ङ्क॒र्तार॑मे॒तम् । त्वष्टा॑रग्ं रू॒पाणि॑ विकु॒र्वन्तं॑-विँप॒श्चिम् ॥ 21 ॥
अ॒मृत॑स्य प्रा॒णं-यँ॒ज्ञमे॒तम् । चतु॑र्​होतृणामा॒त्मान॑-ङ्क॒वयो॒ निचि॑क्युः । अ॒न्तः प्रवि॑ष्ट-ङ्क॒र्तार॑मे॒तम् । दे॒वाना॒-म्बन्धु॒ निहि॑त॒-ङ्गुहा॑सु । अ॒मृते॑न क्लृ॒प्तं-यँ॒ज्ञमे॒तम् । चतु॑र्​होतृणामा॒त्मान॑-ङ्क॒वयो॒ निचि॑क्युः । श॒त-न्नि॒युतः॒ परि॑वेद॒ विश्वा॑ वि॒श्ववा॑रः । विश्व॑मि॒दं-वृँ॑णाति । इन्द्र॑स्या॒-ऽऽत्मा निहि॑तः॒ पञ्च॑होता । अ॒मृत॑-न्दे॒वाना॒मायुः॑ प्र॒जाना᳚म् ॥ 22 ॥
इन्द्र॒ग्ं॒ राजा॑नग्ं सवि॒तार॑मे॒तम् । वा॒योरा॒त्मान॑-ङ्क॒वयो॒ निचि॑क्युः । र॒श्मिग्ं र॑श्मी॒ना-म्मध्ये॒ तप॑न्तम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । य आ᳚ण्डको॒शे भुव॑न-म्बि॒भर्ति॑ । अनि॑र्भिण्ण॒स्सन्नथ॑ लो॒कान् वि॒चष्टे᳚ । यस्या᳚ण्डको॒शग्ं शुष्म॑मा॒हुः प्रा॒णमुल्ब᳚म् । तेन॑ क्लृ॒प्तो॑-ऽमृते॑ना॒हम॑स्मि । सु॒वर्ण॒-ङ्कोश॒ग्ं॒ रज॑सा॒ परी॑वृतम् । दे॒वानां᳚-वँसु॒धानीं᳚-विँ॒राज᳚म् ॥ 23 ॥
अ॒मृत॑स्य पू॒र्णा-न्तामु॑ क॒लां-विँच॑क्षते । पाद॒ग्ं॒ षड्ढो॑तु॒र्न किला॑-ऽऽविवित्से । येन॒र्तवः॑ पञ्च॒धोत क्लृ॒प्ताः । उ॒त वा॑ ष॒ड्धा मन॒सोत क्लृ॒प्ताः । तग्ं षड्ढो॑तारमृ॒तुभिः॒ कल्प॑मानम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । अ॒न्तः प्रवि॑ष्ट-ङ्क॒र्तार॑मे॒तम् । अ॒न्तश्च॒न्द्रम॑सि॒ मन॑सा॒ चर॑न्तम् । स॒हैव सन्त॒-न्न विजा॑नन्ति दे॒वाः । इन्द्र॑स्या॒-ऽऽत्मानग्ं॑ शत॒धा चर॑न्तम् ॥ 24 ॥
इन्द्रो॒ राजा॒ जग॑तो॒ य ईशे᳚ । स॒प्तहो॑ता सप्त॒धा विक्लृ॑प्तः । परे॑ण॒ तन्तु॑-म्परिषि॒च्यमा॑नम् । अ॒न्तरा॑दि॒त्ये मन॑सा॒ चर॑न्तम् । दे॒वाना॒ग्ं॒ हृद॑य॒-म्ब्रह्मा-ऽन्व॑विन्दत् । ब्रह्मै॒तद्ब्रह्म॑ण॒ उज्ज॑भार । अ॒र्कग्ग्‍ं श्चोत॑न्तग्ं सरि॒रस्य॒ मध्ये᳚ । आ यस्मि॑न्​थ्स॒प्त पेर॑वः । मेह॑न्ति बहु॒लाग्ं श्रिय᳚म् । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् ॥ 25 ॥
अच्यु॑ता-म्बहु॒लाग्ं श्रिय᳚म् । स हरि॑र्वसु॒वित्त॑मः । पे॒रुरिन्द्रा॑य पिन्वते । ब॒ह्व॒श्वामि॑न्द्र॒ गोम॑तीम् । अच्यु॑ता-म्बहु॒लाग्ं श्रिय᳚म् । मह्य॒मिन्द्रो॒ निय॑च्छतु । श॒तग्ं श॒ता अ॑स्य यु॒क्ता हरी॑णाम् । अ॒र्वाङा या॑तु॒ वसु॑भी र॒श्मिरिन्द्रः॑ । प्रमग्ं‍ह॑ माणो बहु॒लाग्ं श्रिय᳚म् । र॒श्मिरिन्द्र॑स्सवि॒ता मे॒ निय॑च्छतु ॥ 26 ॥
घृ॒त-न्तेजो॒ मधु॑मदिन्द्रि॒यम् । मय्य॒यम॒ग्निर्द॑धातु । हरिः॑ पत॒ङ्गः प॑ट॒री सु॑प॒र्णः । दि॒वि॒क्षयो॒ नभ॑सा॒ य एति॑ । स न॒ इन्द्रः॑ कामव॒र-न्द॑दातु । पञ्चा॑र-ञ्च॒क्र-म्परि॑वर्तते पृ॒थु । हिर॑ण्यज्योतिस्सरि॒रस्य॒ मध्ये᳚ । अज॑स्र॒-ञ्ज्योति॒र्नभ॑सा॒ सर्प॑देति । स न॒ इन्द्रः॑ कामव॒र-न्द॑दातु । स॒प्त यु॑ञ्जन्ति॒ रथ॒मेक॑चक्रम् ॥ 27 ॥
एको॒ अश्वो॑ वहति सप्तना॒मा । त्रि॒नाभि॑ च॒क्रम॒जर॒मन॑र्वम् । येने॒मा विश्वा॒ भुव॑नानि तस्थुः । भ॒द्र-म्पश्य॑न्त॒ उप॑सेदु॒रग्रे᳚ । तपो॑ दी॒क्षामृष॑यस्सुव॒र्विदः॑ । ततः॑ क्ष॒त्त्र-म्बल॒मोज॑श्च जा॒तम् । तद॒स्मै दे॒वा अ॒भिस-न्न॑मन्तु । श्वे॒तग्ं र॒श्मि-म्बो॑भु॒ज्यमा॑नम् । अ॒पा-न्ने॒तार॒-म्भुव॑नस्य गो॒पाम् । इन्द्र॒-न्निचि॑क्युः पर॒मे व्यो॑मन्न् ॥ 28 ॥
रोहि॑णीः पिङ्ग॒ला एक॑रूपाः । क्षर॑न्तीः पिङ्ग॒ला एक॑रूपाः । श॒तग्ं स॒हस्रा॑णि प्र॒युता॑नि॒ नाव्या॑नाम् । अ॒यं-यँश्श्वे॒तो र॒श्मिः । परि॒ सर्व॑मि॒द-ञ्जग॑त् । प्र॒जा-म्प॒शून्धना॑नि । अ॒स्माक॑-न्ददातु । श्वे॒तो र॒श्मिः परि॒ सर्व॑-म्बभूव । सुव॒न्मह्य॑-म्प॒शून् वि॒श्वरू॑पान् । प॒त॒ङ्गम॒क्तमसु॑रस्य मा॒यया᳚ ॥ 29 ॥
हृ॒दा प॑श्यन्ति॒ मन॑सा मनी॒षिणः॑ । स॒मु॒द्रे अ॒न्तः क॒वयो॒ विच॑क्षते । मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ । प॒त॒ङ्गो वाच॒-म्मन॑सा बिभर्ति । ता-ङ्ग॑न्ध॒र्वो॑-ऽवद॒द्गर्भे॑ अ॒न्तः । ता-न्द्योत॑मानाग्ं स्व॒र्य॑-म्मनी॒षाम् । ऋ॒तस्य॑ प॒दे क॒वयो॒ निपा᳚न्ति । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । अ॒ग्निस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः ॥ 30 ॥
प्र॒जाप॑तिः प्र॒जया॑ सं​विँदा॒नः । वी॒तग्ग्‍ं स्तु॑के स्तुके । यु॒वम॒स्मासु॒ निय॑च्छतम् । प्र प्र॑ य॒ज्ञप॑ति-न्तिर । ये ग्रा॒म्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । वा॒युस्ताग्ं अग्रे॒ प्रमु॑मोक्तु दे॒वः । प्र॒जाप॑तिः प्र॒जया॑ सं​विँदा॒नः । इडा॑यै सृ॒प्त-ङ्घृ॒तव॑च्चराच॒रम् । दे॒वा अन्व॑विन्द॒न्गुहा॑ हि॒तम् । य आ॑र॒ण्याः प॒शवो॑ वि॒श्वरू॑पाः । विरू॑पा॒स्सन्तो॑ बहु॒धैक॑रूपाः । तेषाग्ं॑ सप्ता॒नामि॒ह रन्ति॑रस्तु । रा॒यस्पोषा॑य सुप्रजा॒स्त्वाय॑ सु॒वीर्या॑य ॥ 31 ॥
आ॒त्मा जना॑नां-विँकु॒र्वन्तं॑-विँप॒श्चि-म्प्र॒जानां᳚-वँसु॒धानीं᳚-विँ॒राज॒-ञ्चर॑न्त॒-ङ्गोम॑ती-म्मे॒ निय॑च्छ॒त्वेक॑चक्रं॒-व्योँ॑मन्मा॒यया॑ दे॒व एक॑रूपा अ॒ष्टौ च॑ ॥ 11 ॥
स॒हस्र॑शीर्​षा॒ पुरु॑षः । स॒ह॒स्रा॒क्षस्स॒हस्र॑पात् ।
स भूमिं॑-विँ॒श्वतो॑ वृ॒त्वा । अत्य॑तिष्ठद्दशाङ्गु॒लम् ।
पुरु॑ष ए॒वेदग्ं सर्व᳚म् । यद्भू॒तं-यँच्च॒ भव्य᳚म् ।
उ॒तामृ॑त॒त्वस्येशा॑नः । यदन्ने॑नाति॒रोह॑ति । ए॒तावा॑नस्य महि॒मा । अतो॒ ज्यायाग्ं॑श्च॒ पूरु॑षः ॥ 32,33 ॥
पादो᳚-ऽस्य॒ विश्वा॑ भू॒तानि॑ । त्रि॒पाद॑स्या॒मृत॑-न्दि॒वि ।
त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः । पादो᳚-ऽस्ये॒हाभ॑वा॒त्पुनः॑ ।
ततो॒ विष्व॒ङ्व्य॑क्रामत् । सा॒श॒ना॒न॒श॒ने अ॒भि ।
तस्मा᳚द्वि॒राड॑जायत । वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत । प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥ 34,35 ॥
यत्पुरु॑षेण ह॒विषा᳚ । दे॒वा य॒ज्ञमत॑न्वत ।
व॒स॒न्तो अ॑स्या-ऽऽसी॒दाज्य᳚म् । ग्री॒ष्म इ॒ध्मश्श॒रद्ध॒विः ।
स॒प्तास्या॑-ऽऽसन्परि॒धयः॑ । त्रिस्स॒प्त स॒मिधः॑ कृ॒ताः ।
दे॒वा यद्य॒ज्ञ-न्त॑न्वा॒नाः । अब॑ध्न॒न्पुरु॑ष-म्प॒शुम् ।
तं-यँ॒ज्ञ-म्ब॒र्​हिषि॒ प्रौक्षन्॑ । पुरु॑ष-ञ्जा॒तम॑ग्र॒तः ॥ 34,35 ॥
तेन॑ दे॒वा अय॑जन्त । सा॒ध्या ऋष॑यश्च॒ ये ।
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । सम्भृ॑त-म्पृषदा॒ज्यम् ।
प॒शूग्‍स्ताग्‍श्च॑क्रे वाय॒व्यान्॑ । आ॒र॒ण्यान्ग्रा॒म्याश्च॒ ये ।
तस्मा᳚द्य॒ज्ञाथ्स॑र्व॒हुतः॑ । ऋच॒स्सामा॑नि जज्ञिरे ।
छन्दाग्ं॑सि जज्ञिरे॒ तस्मा᳚त् । यजु॒स्तस्मा॑दजायत ॥ 35,36 ॥
तस्मा॒दश्वा॑ अजायन्त । ये के चो॑भ॒याद॑तः ।
गावो॑ ह जज्ञिरे॒ तस्मा᳚त् । तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ।
यत्पुरु॑षं॒-व्यँ॑दधुः । क॒ति॒धा व्य॑कल्पयन्न् ।
मुख॒-ङ्किम॑स्य॒ कौ बा॒हू । का वू॒रू पादा॑वुच्येते ।
ब्रा॒ह्म॒णो᳚-ऽस्य॒ मुख॑मासीत् । बा॒हू रा॑ज॒न्यः॑ कृ॒तः ॥ 36,37 ॥
ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ । प॒द्भ्याग्ं शू॒द्रो अ॑जायत ।
च॒न्द्रमा॒ मन॑सो जा॒तः । चक्षो॒स्सूर्यो॑ अजायत ।
मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ । प्रा॒णाद्वा॒युर॑जायत ।
नाभ्या॑ आसीद॒न्तरि॑क्षम् । शी॒र्​ष्णो द्यौस्सम॑वर्तत ।
प॒द्भ्या-म्भूमि॒र्दिश॒-श्श्रोत्रा᳚त् ।
तथा॑ लो॒काग्ं अ॑कल्पयन्न् ॥ 37,38 ॥
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् ।
आ॒दि॒त्यव॑र्णं॒ तम॑स॒स्तु पा॒रे ।
सर्वा॑णि रू॒पाणि॑ वि॒चित्य॒ धीरः॑ ।
नामा॑नि कृ॒त्वा-ऽभि॒वद॒न् यदास्ते᳚ ।
धा॒ता पु॒रस्ता॒द्यमु॑दाज॒हार॑ ।
श॒क्रः प्रवि॒द्वान्प्र॒दिश॒श्चत॑स्रः ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॒ अय॑नाय विद्यते ।
य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वाः ।
तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन्न् ।
ते ह॒ नाक॑-म्महि॒मान॑स्सचन्ते ।
यत्र॒ पूर्वे॑ सा॒ध्यास्सन्ति॑ दे॒वाः ॥ 38,39 ॥
पुरु॑षः पु॒रो᳚-ऽग्र॒तो॑-ऽजायत कृ॒तो॑-ऽकल्पयन्नास॒न्द्वे च॑ ॥ 12 ॥
ज्याया॒नधि॒ पूरु॑षः । अन्यत्र॒ पुरु॑षः ॥
अ॒द्भ्यस्सम्भू॑तः पृथि॒व्यै रसा᳚च्च ।
वि॒श्वक॑र्मण॒स्सम॑वर्त॒ताधि॑ ।
तस्य॒ त्वष्टा॑ वि॒दध॑द्रू॒पमे॑ति ।
तत्पुरु॑षस्य॒ विश्व॒माजा॑न॒मग्रे᳚ ।
वेदा॒हमे॒त-म्पुरु॑ष-म्म॒हान्त᳚म् ।
आ॒दि॒त्यव॑र्ण॒-न्तम॑सः॒ पर॑स्तात् ।
तमे॒वं-विँ॒द्वान॒मृत॑ इ॒ह भ॑वति ।
नान्यः पन्था॑ विद्य॒ते-ऽय॑नाय ।
प्र॒जाप॑तिश्चरति॒ गर्भे॑ अ॒न्तः ।
अ॒जाय॑मानो बहु॒धा विजा॑यते ॥ 39,40 ॥
तस्य॒ धीराः॒ परि॑जानन्ति॒ योनि᳚म् । मरी॑चीना-म्प॒दमि॑च्छन्ति वे॒धसः॑ । यो दे॒वेभ्य॒ आत॑पति । यो दे॒वाना᳚-म्पु॒रोहि॑तः ।
पूर्वो॒ यो दे॒वेभ्यो॑ जा॒तः । नमो॑ रु॒चाय॒ ब्राह्म॑ये । रुच॑-म्ब्रा॒ह्म-ञ्ज॒नय॑न्तः । दे॒वा अग्रे॒ तद॑ब्रुवन्न् । यस्त्वै॒व-म्ब्रा᳚ह्म॒णो वि॒द्यात् । तस्य॑ दे॒वा अस॒न्वशे᳚ । ह्रीश्च॑ ते ल॒क्ष्मीश्च॒ पत्न्यौ᳚ । अ॒हो॒रा॒त्रे पा॒र्​श्वे । नक्ष॑त्राणि रू॒पम् । अ॒श्विनौ॒ व्यात्त᳚म् । इ॒ष्ट-म्म॑निषाण । अ॒मु-म्म॑निषाण । सर्व॑-म्मनिषाण ॥ 40,41 ॥
जा॒य॒ते॒ वशे॑ स॒प्त च॑ ॥ 13 ॥
भ॒र्ता सन्भ्रि॒यमा॑णो बिभर्ति । एको॑ दे॒वो ब॑हु॒धा निवि॑ष्टः । य॒दा भा॒र-न्त॒न्द्रय॑ते॒ स भर्तु᳚म् । नि॒धाय॑ भा॒र-म्पुन॒रस्त॑मेति । तमे॒व मृ॒त्युम॒मृत॒-न्तमा॑हुः । त-म्भ॒र्तार॒-न्तमु॑ गो॒प्तार॑माहुः । स भृ॒तो भ्रि॒यमा॑णो बिभर्ति । य ए॑नं॒-वेँद॑ स॒त्येन॒ भर्तु᳚म् । स॒द्यो जा॒तमु॒त ज॑हात्ये॒षः । उ॒तो जर॑न्त॒-न्न ज॑हा॒त्येक᳚म् ॥ 41,42 ॥
उ॒तो ब॒हूनेक॒मह॑र्जहार । अत॑न्द्रो दे॒वस्सद॑मे॒व प्रार्थः॑ । यस्तद्वेद॒ यत॑ आब॒भूव॑ । स॒न्धा-ञ्च॒ याग्ं स॑न्द॒धे ब्रह्म॑णै॒षः । रम॑ते॒ तस्मि᳚न्नु॒त जी॒र्णे शया॑ने । नैन॑-ञ्जहा॒त्यह॑स्सु पू॒र्व्येषु॑ । त्वामापो॒ अनु॒ सर्वा᳚श्चरन्ति जान॒तीः । व॒थ्स-म्पय॑सा पुना॒नाः । त्वम॒ग्निग्ं ह॑व्य॒वाह॒ग्ं॒ समि॑न्​थ्से । त्व-म्भ॒र्ता मा॑त॒रिश्वा᳚ प्र॒जाना᳚म् ॥ 42,43 ॥
त्वं-यँ॒ज्ञस्त्वमु॑वे॒वासि॒ सोमः॑ । तव॑ दे॒वा हव॒माय॑न्ति॒ सर्वे᳚ । त्वमेको॑-ऽसि ब॒हूननु॒प्रवि॑ष्टः । नम॑स्ते अस्तु सु॒हवो॑ म एधि । नमो॑ वामस्तु शृणु॒तग्ं हव॑-म्मे । प्राणा॑पानावजि॒रग्ं स॒ञ्चर॑न्तौ । ह्वया॑मि वा॒-म्ब्रह्म॑णा तू॒र्तमेत᳚म् । यो मा-न्द्वेष्टि॒ त-ञ्ज॑हितं-युँवाना । प्राणा॑पानौ सं​विँदा॒नौ ज॑हितम् । अ॒मुष्यासु॑ना॒ मा सङ्ग॑साथाम् ॥ 43 ॥
त-म्मे॑ देवा॒ ब्रह्म॑णा सं​विँदा॒नौ । व॒धाय॑ दत्त॒-न्तम॒हग्ं ह॑नामि । अस॑ज्जजान स॒त आब॑भूव । यं-यँ॑-ञ्ज॒जान॒ स उ॑ गो॒पो अ॑स्य । य॒दा भा॒र-न्त॒न्द्रय॑ते॒ स भर्तु᳚म् । प॒रास्य॑ भा॒र-म्पुन॒रस्त॑मेति । तद्वै त्व-म्प्रा॒णो अ॑भवः । म॒हान्भोगः॑ प्र॒जाप॑तेः । भुजः॑ करि॒ष्यमा॑णः । यद्दे॒वान्प्राण॑यो॒ नव॑ ॥ 44 ॥
एक॑-म्प्र॒जाना᳚-ङ्गसाथा॒-न्नव॑ ॥ 14 ॥
हरि॒ग्ं॒ हर॑न्त॒मनु॑यन्ति दे॒वाः । विश्व॒स्येशा॑नं-वृँष॒भ-म्म॑ती॒नाम् । ब्रह्म॒ सरू॑प॒मनु॑मे॒दमागा᳚त् । अय॑न॒-म्मा विव॑धी॒र्विक्र॑मस्व । मा छि॑दो मृत्यो॒ मा व॑धीः । मा मे॒ बलं॒-विँवृ॑हो॒ मा प्रमो॑षीः । प्र॒जा-म्मा मे॑ रीरिष॒ आयु॑रुग्र । नृ॒चक्ष॑स-न्त्वा ह॒विषा॑ विधेम । स॒द्यश्च॑कमा॒नाय॑ । प्र॒वे॒पा॒नाय॑ मृ॒त्यवे᳚ ॥ 45 ॥
प्रास्मा॒ आशा॑ अशृण्वन्न् । कामे॑नाजनय॒न्पुनः॑ । कामे॑न मे॒ काम॒ आगा᳚त् । हृद॑या॒द्धृद॑य-म्मृ॒त्योः । यद॒मीषा॑म॒दः प्रि॒यम् । तदैतूप॒माम॒भि । पर॑-म्मृत्यो॒ अनु॒ परे॑हि॒ पन्था᳚म् । यस्ते॒ स्व इत॑रो देव॒याना᳚त् । चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि । मा नः॑ प्र॒जाग्ं री॑रिषो॒ मोत वी॒रान् । प्र पू॒र्व्य-म्मन॑सा॒ वन्द॑मानः । नाध॑मानो वृष॒भ-ञ्च॑र्​षणी॒नाम् । यः प्र॒जाना॑मेक॒राण्मानु॑षीणाम् । मृ॒त्युं-यँ॑जे प्रथम॒जामृ॒तस्य॑ ॥ 46 ॥
मृ॒त्यवे॑ वी॒राग्ंश्च॒त्वारि॑ च ॥ 15 ॥
त॒रणि॑र्वि॒श्वद॑र्​शतो ज्योति॒ष्कृद॑सि सूर्य । विश्व॒मा भा॑सि रोच॒नम् । उ॒प॒या॒मगृ॑हीतो-ऽसि॒ सूर्या॑य त्वा॒ भ्राज॑स्वत ए॒ष ते॒ योनि॒स्सूर्या॑य त्वा॒ भ्राज॑स्वते ॥ 47 ॥ 16 ॥
आप्या॑यस्व मदिन्तम॒ सोम॒ विश्वा॑भिरू॒तिभिः॑ । भवा॑ नस्स॒प्रथ॑स्तमः ॥ (48) ॥ 17 ॥
ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन् व्यु॒च्छन्ती॑मु॒षस॒-म्मर्त्या॑सः । अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या॑-ऽभू॒दो ते य॑न्ति॒ ये अ॑प॒रीषु॒ पश्यान्॑ ॥ 49 ॥ 18 ॥
ज्योति॑ष्मती-न्त्वा सादयामि ज्योति॒ष्कृत॑-न्त्वा सादयामि ज्योति॒र्विद॑-न्त्वा सादयामि॒ भास्व॑ती-न्त्वा सादयामि॒ ज्वल॑न्ती-न्त्वा सादयामि मल्मला॒भव॑न्ती-न्त्वा सादयामि॒ दीप्य॑माना-न्त्वा सादयामि॒ रोच॑माना-न्त्वा सादया॒म्यज॑स्रा-न्त्वा सादयामि बृ॒हज्ज्यो॑तिष-न्त्वा सादयामि बो॒धय॑न्ती-न्त्वा सादयामि॒ जाग्र॑ती-न्त्वा सादयामि ॥ 50 ॥ 19 ॥
प्र॒या॒साय॒ स्वाहा॑-ऽऽया॒साय॒ स्वाहा॑ विया॒साय॒ स्वाहा॑ सं​याँ॒साय॒ स्वाहो᳚द्या॒साय॒ स्वाहा॑-ऽवया॒साय॒ स्वाहा॑ शु॒चे स्वाहा॒ शोका॑य॒ स्वाहा॑ तप्य॒त्वै स्वाहा॒ तप॑ते॒ स्वाहा᳚ ब्रह्मह॒त्यायै॒ स्वाहा॒ सर्व॑स्मै॒ स्वाहा᳚ ॥ 51 ॥ 20 ॥
चि॒त्तग्ं स॑न्ता॒नेन॑ भ॒वं-यँ॒क्ना रु॒द्र-न्तनि॑म्ना पशु॒पतिग्ग्ं॑ स्थूलहृद॒येना॒ग्निग्ं हृद॑येन रु॒द्रं-लोँहि॑तेन श॒र्व-म्मत॑स्नाभ्या-म्महादे॒वम॒न्तः पा᳚र्​श्वेनौषिष्ठ॒हनग्ं॑ शिङ्गीनिको॒श्या᳚भ्याम् ॥ 52 ॥ 21 ॥
चि॒त्तिः॑ पृथि॒व्य॑ग्नि॒स्सूर्य॑-न्ते॒ चक्षु॑र्म॒हाह॑वि॒र्​होता॒ वाघोता᳚ ब्राह्म॒ण एक॑होता॒-ऽग्निर्यजु॑र्भि॒स्सेनेन्द्र॑स्य दे॒वस्य॑ सु॒वर्ण॑-ङ्घ॒र्मग्ं स॒हस्र॑शीर्​षा॒-ऽद्भ्यो भ॒र्ता हरि॑-न्त॒रणि॒राप्या॑यस्वे॒युष्टे ये ज्योति॑ष्मती-म्प्रया॒साय॑ चि॒त्तमेक॑विग्ंशतिः ॥ 21 ॥
चित्ति॑र॒ग्निर्यजु॑र्भिर॒न्तः प्रवि॑ष्टः प्र॒जाप॑तिर्भ॒र्तासन्प्रया॒साय॒ द्विप॑ञ्चा॒शत् ॥ 52 ॥
चित्ति॑र॒ग्निर्यजु॑र्भिर॒न्तः प्रवि॑ष्टः प्र॒जाप॑तिः प्र॒जया॑ सं​विँदा॒नस्तस्य॒ धीरा॒ ज्योति॑ष्मती॒-न्त्रिप॑ञ्चा॒शत् ॥ 53 ॥
तच्छं॒-योँरावृ॑णीमहे । गा॒तुं-यँ॒ज्ञाय॑ ।
गा॒तुं-यँ॒ज्ञप॑तये । दैवी᳚ स्व॒स्तिर॑स्तु नः ।
स्व॒स्तिर्मानु॑षेभ्यः । ऊ॒र्ध्व-ञ्जि॑गातु भेष॒जम् ।
श-न्नो॑ अस्तु द्वि॒पदे᳚ । श-ञ्चतु॑ष्पदे ॥
ॐ शान्ति॒-श्शान्ति॒-श्शान्तिः॑ ॥
Roman (IAST) Transliteration
(kṛṣṇayajurvedīya taittirīyāraṇyake tṛtīya prapāṭhakaḥ)
hariḥ om | tacchaṃ॒-yo~rāvṛ̭ṇīmahe | gā॒tuṃ-ya~॒jñāya̭ |
gā॒tuṃ-ya~॒jñapa̭taye | daivī᳚ sva॒stira̭stu naḥ |
sva॒stirmānṷṣebhyaḥ | ū॒rdhva-ñji̭gātu bheṣa॒jam |
śa-nno̭ astu dvi॒pade᳚ | śa-ñcatṷṣpade ||
oṃ śānti॒-śśānti॒-śśāntiḥ̭ ||
o-ñcitti॒ssruk | ci॒ttamājya᳚m | vāgvediḥ̭ | ādhī̭ta-mba॒r​hiḥ | keto̭ a॒gniḥ | vijñā̭tama॒gniḥ | vākpa̭ti॒r​hotā᳚ | mana̭ upava॒ktā | prā॒ṇo ha॒viḥ | sāmā᳚dhva॒ryuḥ | vāca̭spate vidhe nāmann | vi॒dhema̭ te॒ nāma̭ | vi॒dhestvama॒smāka॒-nnāma̭ | vā॒caspati॒ssoma̭-mpibatu | ā-'smāsṷ nṛ॒mṇa-ndhā॒tsvāhā᳚ || 1 ||
a॒dhva॒ryuḥ pañca̭ ca || 1 ||
pṛ॒thi॒vī hotā᳚ | dyaura̭dhva॒ryuḥ | ru॒dro᳚-'gnīt | bṛha॒spati̭rupava॒ktā | vāca̭spate vā॒co vī॒ryḙṇa | sambhṛ̭tatame॒nā-''ya̭kṣyase | yaja̭mānāya॒ vārya᳚m | ā suva॒skara̭smai | vā॒caspati॒ssoma̭-mpibati | ja॒jana॒dindra̭mindri॒yāya॒ svāhā᳚ || 2 ||
pṛ॒thi॒vī hotā॒ daśa̭ || 2 ||
a॒gnir​hotā᳚ | a॒śvinā᳚-'dhva॒ryū | tvaṣṭā॒-'gnīt | mi॒tra ṷpava॒ktā | soma॒ssoma̭sya puro॒gāḥ | śu॒krasśu॒krasya̭ puro॒gāḥ | śrā॒tāsta̭ indra॒ somāḥ᳚ | vātā̭per​havana॒śruta॒ssvāhā᳚ || 3 ||
a॒gnir​hotā॒-'ṣṭau || 3 ||
sūrya̭-nte॒ cakṣuḥ̭ | vāta̭-mprā॒ṇaḥ | dyā-mpṛ॒ṣṭham | a॒ntari̭kṣamā॒tmā | aṅgai᳚rya॒jñam | pṛ॒thi॒vīgṃ śarī̭raiḥ | vāca̭spa॒te-'cchi̭drayā vā॒cā | acchi̭drayā ju॒hvā᳚ | di॒vi dḙvā॒vṛdha॒gṃ॒ hotrā॒ mera̭yasva॒ svāhā᳚ || 4 ||
sūrya̭-nte॒ nava̭ || 4 ||
ma॒hāha̭vi॒r​hotā᳚ | sa॒tyaha̭viradhva॒ryuḥ | acyṷtapājā a॒gnīt | acyṷtamanā upava॒ktā | a॒nā॒dhṛ॒ṣyaścā᳚pratidhṛ॒ṣyaśca̭ ya॒jñasyā̭bhiga॒rau | a॒yāsya̭ udgā॒tā | vāca̭spate hṛdvidhe nāmann | vi॒dhema̭ te॒ nāma̭ | vi॒dhestvama॒smāka॒-nnāma̭ | vā॒caspati॒ssoma̭mapāt | mā daivya॒stantu॒śchedi॒ mā ma̭nu॒ṣyaḥ̭ | namo̭ di॒ve | namaḥ̭ pṛthi॒vyai svāhā᳚ || 5 ||
a॒pā॒ttrīṇi̭ ca || 5 ||
vāghotā᳚ | dī॒kṣā patnī᳚ | vāto᳚-'dhva॒ryuḥ | āpo̭-'bhiga॒raḥ | mano̭ ha॒viḥ | tapa̭si juhomi | bhūrbhuva॒ssuvaḥ̭ | brahma̭ svaya॒mbhu | brahma̭ṇe svaya॒mbhuve॒ svāhā᳚ || 6 ||
vāghotā॒ nava̭ || 6 ||
brā॒hma॒ṇa eka̭hotā | sa ya॒jñaḥ | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | ya॒jñaśca̭ me bhūyāt | a॒gnirdviho̭tā | sa bha॒rtā | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | bha॒rtā ca̭ me bhūyāt | pṛ॒thi॒vī triho̭tā | sa pra̭ti॒ṣṭhā || 7 ||
sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | pra॒ti॒ṣṭhā ca̭ me bhūyāt | a॒ntari̭kṣa॒-ñcatṷr​hotā | sa vi॒ṣṭhāḥ | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | vi॒ṣṭhāśca̭ me bhūyāt | vā॒yuḥ pañca̭hotā | sa prā॒ṇaḥ | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | prā॒ṇaśca̭ me bhūyāt || 8 ||
ca॒ndramā॒-ṣṣaḍḍho̭tā | sa ṛ॒tūnka̭lpayāti | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | ṛ॒tava̭śca me kalpantām | annagṃ̭ sa॒ptaho̭tā | sa prā॒ṇasya̭ prā॒ṇaḥ | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | prā॒ṇasya̭ ca me prā॒ṇo bhṷ̄yāt | dyaura॒ṣṭaho̭tā | so̭-'nādhṛ॒ṣyaḥ || 9 ||
sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | a॒nā॒dhṛ॒ṣyaśca̭ bhūyāsam | ā॒di॒tyo nava̭hotā | sa tḙja॒svī | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | te॒ja॒svī ca̭ bhūyāsam | pra॒jāpa̭ti॒rdaśa̭hotā | sa i॒dagṃ sarva᳚m | sa mḙ dadātu pra॒jā-mpa॒śūnpuṣṭiṃ॒-ya~śaḥ̭ | sarva̭-ñca me bhūyāt || 10 ||
pra॒ti॒ṣṭhā prā॒ṇaśca̭ me bhūyādanādhṛ॒ṣyassarva-ñca me bhūyāt ||
brā॒hma॒ṇo ya॒jño᳚-'gnirbha॒rtā pṛ̭thi॒vī pra̭ti॒ṣṭhā-'ntari̭kṣaṃ-vi~॒ṣṭhā vā॒yuḥ prā॒ṇaśca॒ndramā̭ sa ṛ॒tūnanna॒gṃ॒ sa prā॒ṇasya̭ prā॒ṇo dyaura̭nādhṛ॒ṣya ā̭di॒tyassa tḙja॒svī pra॒jāpa̭ti॒-ssa i॒dagṃ sarva॒gṃ॒ sarva̭-ñca me bhūyāt ||
a॒gniryajṷrbhiḥ | sa॒vi॒tā stomaiḥ᳚ | indra̭ ukthāma॒daiḥ | mi॒trāvarṷṇāvā॒śiṣā᳚ | aṅgi̭raso॒ dhiṣṇi̭yaira॒gnibhiḥ̭ | ma॒ruta̭ssadohavirdhā॒nābhyā᳚m | āpaḥ॒ prokṣa̭ṇībhiḥ | oṣa̭dhayo ba॒r​hiṣā᳚ | adi̭ti॒rvedyā᳚ | somo̭ dī॒kṣayā᳚ || 11 ||
tvaṣṭe॒dhmena̭ | viṣṇṷrya॒jñena̭ | vasa̭va॒ ājyḙna | ā॒di॒tyā dakṣi̭ṇābhiḥ | viśvḙ de॒vā ū॒rjā | pū॒ṣā sva̭gākā॒reṇa̭ | bṛha॒spatiḥ̭ puro॒dhayā᳚ | pra॒jāpa̭tirudgī॒thena̭ | a॒ntari̭kṣa-mpa॒vitrḙṇa | vā॒yuḥ pātraiḥ᳚ | a॒hagg‍ṃ śra॒ddhayā᳚ || 12 ||
dī॒kṣayā॒ pātrai॒reka̭-ñca || 8 ||
senendra̭sya | dhenā॒ bṛha॒spateḥ᳚ | pa॒thyā̭ pū॒ṣṇaḥ | vāgvā॒yoḥ | dī॒kṣā soma̭sya | pṛ॒thi॒vya̭gneḥ | vasṷ̄nā-ṅgāya॒trī | ru॒drāṇā᳚-ntri॒ṣṭuk | ā॒di॒tyānā॒-ñjaga̭tī | viṣṇo̭ranu॒ṣṭuk || 13 ||
varṷṇasya vi॒rāṭ | ya॒jñasya̭ pa॒ṅktiḥ | pra॒jāpa̭te॒ranṷmatiḥ | mi॒trasya̭ śra॒ddhā | sa॒vi॒tuḥ prasṷ̄tiḥ | sūrya̭sya॒ marī̭ciḥ | ca॒ndrama̭so rohi॒ṇī | ṛṣī̭ṇāmarundha॒tī | pa॒rjanya̭sya vi॒dyut | cata̭sro॒ diśaḥ̭ | cata̭sro-'vāntaradi॒śāḥ | aha̭śca॒ rātri̭śca | kṛ॒ṣiśca॒ vṛṣṭi̭śca | tviṣi॒ścāpa̭citiśca | āpa॒ścauṣa̭dhayaśca | ūrkca̭ sū॒nṛtā̭ ca de॒vānā॒-mpatna̭yaḥ || 14 ||
a॒nu॒ṣṭugdiśa॒ṣṣaṭca̭ || 9 ||
de॒vasya̭ tvā savi॒tuḥ pra̭sa॒ve | a॒śvino᳚rbā॒hubhyā᳚m | pū॒ṣṇo hastā᳚bhyā॒-mprati̭gṛhṇāmi | rājā᳚ tvā॒ varṷṇo nayatu devi dakṣiṇe॒-'gnaye॒ hira̭ṇyam | tenā̭mṛta॒tvama̭śyām | vayo̭ dā॒tre | mayo॒ mahya̭mastu pratigrahī॒tre | ka i॒da-ṅkasmā̭ adāt | kāmaḥ॒ kāmā̭ya | kāmo̭ dā॒tā || 15 ||
kāmaḥ̭ pratigrahī॒tā | kāmagṃ̭ samu॒dramāvi̭śa | kāmḙna tvā॒ prati̭gṛhṇāmi | kāmai॒tatte᳚ | e॒ṣā tḙ kāma॒ dakṣi̭ṇā | u॒ttā॒nastvā᳚-''ṅgīra॒saḥ prati̭gṛhṇātu | somā̭ya॒ vāsaḥ̭ | ru॒drāya॒ gām | varṷṇā॒yāśva᳚m | pra॒jāpa̭taye॒ purṷṣam || 16 ||
mana̭ve॒ talpa᳚m | tvaṣṭre॒-'jām | pū॒ṣṇe-'vi᳚m | nir-ṛ̭tyā aśvataragarda॒bhau | hi॒mava̭to ha॒stina᳚m | ga॒ndha॒rvā॒psa॒rābhya̭ssragalaṅkara॒ṇe | viśve᳚bhyo de॒vebhyo̭ dhā॒nyam | vā॒ce-'nna᳚m | brahma̭ṇa oda॒nam | sa॒mu॒drāyāpaḥ̭ || 17 ||
u॒ttā॒nāyā᳚ṅgīra॒sāyānaḥ̭ | vai॒śvā॒na॒rāya॒ ratha᳚m | vai॒śvā॒na॒raḥ pra॒tnathā॒ nāka॒mārṷhat | di॒vaḥ pṛ॒ṣṭha-mbhanda̭mānassu॒manma̭bhiḥ | sa pū᳚rva॒vajja॒naya̭jja॒ntave॒ dhana᳚m | sa॒mā॒nama̭jmā॒ pari̭yāti॒ jāgṛ̭viḥ | rājā᳚ tvā॒ varṷṇo nayatu devi dakṣiṇe vaiśvāna॒rāya॒ ratha᳚m | tenā̭mṛta॒tvama̭śyām | vayo̭ dā॒tre | mayo॒ mahya̭mastu pratigrahī॒tre || 18 ||
ka i॒da-ṅkasmā̭ adāt | kāmaḥ॒ kāmā̭ya | kāmo̭ dā॒tā | kāmaḥ̭ pratigrahī॒tā | kāmagṃ̭ samu॒dramāvi̭śa | kāmḙna tvā॒ prati̭gṛhṇāmi | kāmai॒tatte᳚ | e॒ṣā tḙ kāma॒ dakṣi̭ṇā | u॒ttā॒nastvā᳚-''ṅgīra॒saḥ prati̭gṛhṇātu || 19 ||
dā॒tā purṷṣa॒māpaḥ̭ pratigrahī॒tre nava̭ ca || 10 ||
su॒varṇa̭-ṅgha॒rma-mpari̭veda ve॒nam | indra̭syā॒-''tmāna̭-ndaśa॒dhā cara̭ntam | a॒ntassa̭mu॒dre mana̭sā॒ cara̭ntam | brahmā-'nva̭vinda॒ddaśa̭hotāra॒marṇe᳚ | a॒ntaḥ pravi̭ṣṭaśśā॒stā janā̭nām | eka॒ssanba̭hu॒dhā vi̭cāraḥ | śa॒tagṃ śu॒krāṇi॒ yatraika॒-mbhava̭nti | sarve॒ vedā॒ yatraika॒-mbhava̭nti | sarve॒ hotā̭ro॒ yatraika॒-mbhava̭nti | sa॒ māna̭sīna ā॒tmā janā̭nām || 20 ||
a॒ntaḥ pravi̭ṣṭaśśā॒stā janā̭nā॒gṃ॒ sarvā᳚tmā | sarvāḥ᳚ pra॒jā yatraika॒-mbhava̭nti | catṷr​hotāro॒ yatra̭ sa॒mpada॒-ṅgaccha̭nti de॒vaiḥ | sa॒ māna̭sīna ā॒tmā janā̭nām | brahmendra̭ma॒gni-ñjaga̭taḥ prati॒ṣṭhām | di॒va ā॒tmānagṃ̭ savi॒tāra॒-mbṛha॒spati᳚m | catṷr​hotāra-mpra॒diśo-'nṷklṛ॒ptam | vā॒co vī॒rya̭-ntapa॒sā-'nva̭vindat | a॒ntaḥ pravi̭ṣṭa-ṅka॒rtāra̭me॒tam | tvaṣṭā̭ragṃ rū॒pāṇi̭ viku॒rvantaṃ̭-vi~pa॒ścim || 21 ||
a॒mṛta̭sya prā॒ṇaṃ-ya~॒jñame॒tam | catṷr​hotṛṇāmā॒tmāna̭-ṅka॒vayo॒ nici̭kyuḥ | a॒ntaḥ pravi̭ṣṭa-ṅka॒rtāra̭me॒tam | de॒vānā॒-mbandhu॒ nihi̭ta॒-ṅguhā̭su | a॒mṛtḙna klṛ॒ptaṃ-ya~॒jñame॒tam | catṷr​hotṛṇāmā॒tmāna̭-ṅka॒vayo॒ nici̭kyuḥ | śa॒ta-nni॒yutaḥ॒ pari̭veda॒ viśvā̭ vi॒śvavā̭raḥ | viśva̭mi॒daṃ-vṛ~̭ṇāti | indra̭syā॒-''tmā nihi̭taḥ॒ pañca̭hotā | a॒mṛta̭-nde॒vānā॒māyuḥ̭ pra॒jānā᳚m || 22 ||
indra॒gṃ॒ rājā̭nagṃ savi॒tāra̭me॒tam | vā॒yorā॒tmāna̭-ṅka॒vayo॒ nici̭kyuḥ | ra॒śmigṃ ra̭śmī॒nā-mmadhye॒ tapa̭ntam | ṛ॒tasya̭ pa॒de ka॒vayo॒ nipā᳚nti | ya ā᳚ṇḍako॒śe bhuva̭na-mbi॒bharti̭ | ani̭rbhiṇṇa॒ssannatha̭ lo॒kān vi॒caṣṭe᳚ | yasyā᳚ṇḍako॒śagṃ śuṣma̭mā॒huḥ prā॒ṇamulba᳚m | tena̭ klṛ॒pto̭-'mṛtḙnā॒hama̭smi | su॒varṇa॒-ṅkośa॒gṃ॒ raja̭sā॒ parī̭vṛtam | de॒vānāṃ᳚-va~su॒dhānīṃ᳚-vi~॒rāja᳚m || 23 ||
a॒mṛta̭sya pū॒rṇā-ntāmṷ ka॒lāṃ-vi~ca̭kṣate | pāda॒gṃ॒ ṣaḍḍho̭tu॒rna kilā̭-''vivitse | yena॒rtavaḥ̭ pañca॒dhota klṛ॒ptāḥ | u॒ta vā̭ ṣa॒ḍdhā mana॒sota klṛ॒ptāḥ | tagṃ ṣaḍḍho̭tāramṛ॒tubhiḥ॒ kalpa̭mānam | ṛ॒tasya̭ pa॒de ka॒vayo॒ nipā᳚nti | a॒ntaḥ pravi̭ṣṭa-ṅka॒rtāra̭me॒tam | a॒ntaśca॒ndrama̭si॒ mana̭sā॒ cara̭ntam | sa॒haiva santa॒-nna vijā̭nanti de॒vāḥ | indra̭syā॒-''tmānagṃ̭ śata॒dhā cara̭ntam || 24 ||
indro॒ rājā॒ jaga̭to॒ ya īśe᳚ | sa॒ptaho̭tā sapta॒dhā viklṛ̭ptaḥ | parḙṇa॒ tantṷ-mpariṣi॒cyamā̭nam | a॒ntarā̭di॒tye mana̭sā॒ cara̭ntam | de॒vānā॒gṃ॒ hṛda̭ya॒-mbrahmā-'nva̭vindat | brahmai॒tadbrahma̭ṇa॒ ujja̭bhāra | a॒rkagg‍ṃ ścota̭ntagṃ sari॒rasya॒ madhye᳚ | ā yasmi̭n​thsa॒pta pera̭vaḥ | meha̭nti bahu॒lāgṃ śriya᳚m | ba॒hva॒śvāmi̭ndra॒ goma̭tīm || 25 ||
acyṷtā-mbahu॒lāgṃ śriya᳚m | sa hari̭rvasu॒vitta̭maḥ | pe॒rurindrā̭ya pinvate | ba॒hva॒śvāmi̭ndra॒ goma̭tīm | acyṷtā-mbahu॒lāgṃ śriya᳚m | mahya॒mindro॒ niya̭cchatu | śa॒tagṃ śa॒tā a̭sya yu॒ktā harī̭ṇām | a॒rvāṅā yā̭tu॒ vasṷbhī ra॒śmirindraḥ̭ | pramagṃ‍ha̭ māṇo bahu॒lāgṃ śriya᳚m | ra॒śmirindra̭ssavi॒tā me॒ niya̭cchatu || 26 ||
ghṛ॒ta-ntejo॒ madhṷmadindri॒yam | mayya॒yama॒gnirda̭dhātu | hariḥ̭ pata॒ṅgaḥ pa̭ṭa॒rī sṷpa॒rṇaḥ | di॒vi॒kṣayo॒ nabha̭sā॒ ya eti̭ | sa na॒ indraḥ̭ kāmava॒ra-nda̭dātu | pañcā̭ra-ñca॒kra-mpari̭vartate pṛ॒thu | hira̭ṇyajyotissari॒rasya॒ madhye᳚ | aja̭sra॒-ñjyoti॒rnabha̭sā॒ sarpa̭deti | sa na॒ indraḥ̭ kāmava॒ra-nda̭dātu | sa॒pta yṷñjanti॒ ratha॒meka̭cakram || 27 ||
eko॒ aśvo̭ vahati saptanā॒mā | tri॒nābhi̭ ca॒krama॒jara॒mana̭rvam | yene॒mā viśvā॒ bhuva̭nāni tasthuḥ | bha॒dra-mpaśya̭nta॒ upa̭sedu॒ragre᳚ | tapo̭ dī॒kṣāmṛṣa̭yassuva॒rvidaḥ̭ | tataḥ̭ kṣa॒ttra-mbala॒moja̭śca jā॒tam | tada॒smai de॒vā a॒bhisa-nna̭mantu | śve॒tagṃ ra॒śmi-mbo̭bhu॒jyamā̭nam | a॒pā-nne॒tāra॒-mbhuva̭nasya go॒pām | indra॒-nnici̭kyuḥ para॒me vyo̭mann || 28 ||
rohi̭ṇīḥ piṅga॒lā eka̭rūpāḥ | kṣara̭ntīḥ piṅga॒lā eka̭rūpāḥ | śa॒tagṃ sa॒hasrā̭ṇi pra॒yutā̭ni॒ nāvyā̭nām | a॒yaṃ-ya~śśve॒to ra॒śmiḥ | pari॒ sarva̭mi॒da-ñjaga̭t | pra॒jā-mpa॒śūndhanā̭ni | a॒smāka̭-ndadātu | śve॒to ra॒śmiḥ pari॒ sarva̭-mbabhūva | suva॒nmahya̭-mpa॒śūn vi॒śvarṷ̄pān | pa॒ta॒ṅgama॒ktamasṷrasya mā॒yayā᳚ || 29 ||
hṛ॒dā pa̭śyanti॒ mana̭sā manī॒ṣiṇaḥ̭ | sa॒mu॒dre a॒ntaḥ ka॒vayo॒ vica̭kṣate | marī̭cīnā-mpa॒dami̭cchanti ve॒dhasaḥ̭ | pa॒ta॒ṅgo vāca॒-mmana̭sā bibharti | tā-ṅga̭ndha॒rvo̭-'vada॒dgarbhḙ a॒ntaḥ | tā-ndyota̭mānāgṃ sva॒rya̭-mmanī॒ṣām | ṛ॒tasya̭ pa॒de ka॒vayo॒ nipā᳚nti | ye grā॒myāḥ pa॒śavo̭ vi॒śvarṷ̄pāḥ | virṷ̄pā॒ssanto̭ bahu॒dhaika̭rūpāḥ | a॒gnistāgṃ agre॒ pramṷmoktu de॒vaḥ || 30 ||
pra॒jāpa̭tiḥ pra॒jayā̭ saṃ​vi~dā॒naḥ | vī॒tagg‍ṃ stṷke stuke | yu॒vama॒smāsu॒ niya̭cchatam | pra pra̭ ya॒jñapa̭ti-ntira | ye grā॒myāḥ pa॒śavo̭ vi॒śvarṷ̄pāḥ | virṷ̄pā॒ssanto̭ bahu॒dhaika̭rūpāḥ | teṣāgṃ̭ saptā॒nāmi॒ha ranti̭rastu | rā॒yaspoṣā̭ya suprajā॒stvāya̭ su॒vīryā̭ya | ya ā̭ra॒ṇyāḥ pa॒śavo̭ vi॒śvarṷ̄pāḥ | virṷ̄pā॒ssanto̭ bahu॒dhaika̭rūpāḥ | vā॒yustāgṃ agre॒ pramṷmoktu de॒vaḥ | pra॒jāpa̭tiḥ pra॒jayā̭ saṃ​vi~dā॒naḥ | iḍā̭yai sṛ॒pta-ṅghṛ॒tava̭ccarāca॒ram | de॒vā anva̭vinda॒nguhā̭ hi॒tam | ya ā̭ra॒ṇyāḥ pa॒śavo̭ vi॒śvarṷ̄pāḥ | virṷ̄pā॒ssanto̭ bahu॒dhaika̭rūpāḥ | teṣāgṃ̭ saptā॒nāmi॒ha ranti̭rastu | rā॒yaspoṣā̭ya suprajā॒stvāya̭ su॒vīryā̭ya || 31 ||
ā॒tmā janā̭nāṃ-vi~ku॒rvantaṃ̭-vi~pa॒ści-mpra॒jānāṃ᳚-va~su॒dhānīṃ᳚-vi~॒rāja॒-ñcara̭nta॒-ṅgoma̭tī-mme॒ niya̭ccha॒tveka̭cakraṃ॒-vyo~̭manmā॒yayā̭ de॒va eka̭rūpā a॒ṣṭau ca̭ || 11 ||
sa॒hasra̭śīr​ṣā॒ purṷṣaḥ | sa॒ha॒srā॒kṣassa॒hasra̭pāt |
sa bhūmiṃ̭-vi~॒śvato̭ vṛ॒tvā | atya̭tiṣṭhaddaśāṅgu॒lam |
purṷṣa e॒vedagṃ sarva᳚m | yadbhū॒taṃ-ya~cca॒ bhavya᳚m |
u॒tāmṛ̭ta॒tvasyeśā̭naḥ | yadannḙnāti॒roha̭ti | e॒tāvā̭nasya mahi॒mā | ato॒ jyāyāgṃ̭śca॒ pūrṷṣaḥ || 32,33 ||
pādo᳚-'sya॒ viśvā̭ bhū॒tāni̭ | tri॒pāda̭syā॒mṛta̭-ndi॒vi |
tri॒pādū॒rdhva udai॒tpurṷṣaḥ | pādo᳚-'sye॒hābha̭vā॒tpunaḥ̭ |
tato॒ viṣva॒ṅvya̭krāmat | sā॒śa॒nā॒na॒śa॒ne a॒bhi |
tasmā᳚dvi॒rāḍa̭jāyata | vi॒rājo॒ adhi॒ pūrṷṣaḥ | sa jā॒to atya̭ricyata | pa॒ścādbhūmi॒matho̭ pu॒raḥ || 34,35 ||
yatpurṷṣeṇa ha॒viṣā᳚ | de॒vā ya॒jñamata̭nvata |
va॒sa॒nto a̭syā-''sī॒dājya᳚m | grī॒ṣma i॒dhmaśśa॒raddha॒viḥ |
sa॒ptāsyā̭-''sanpari॒dhayaḥ̭ | trissa॒pta sa॒midhaḥ̭ kṛ॒tāḥ |
de॒vā yadya॒jña-nta̭nvā॒nāḥ | aba̭dhna॒npurṷṣa-mpa॒śum |
taṃ-ya~॒jña-mba॒r​hiṣi॒ praukṣaṋ | purṷṣa-ñjā॒tama̭gra॒taḥ || 34,35 ||
tena̭ de॒vā aya̭janta | sā॒dhyā ṛṣa̭yaśca॒ ye |
tasmā᳚dya॒jñāthsa̭rva॒hutaḥ̭ | sambhṛ̭ta-mpṛṣadā॒jyam |
pa॒śūg‍stāg‍śca̭kre vāya॒vyāṋ | ā॒ra॒ṇyāngrā॒myāśca॒ ye |
tasmā᳚dya॒jñāthsa̭rva॒hutaḥ̭ | ṛca॒ssāmā̭ni jajñire |
chandāgṃ̭si jajñire॒ tasmā᳚t | yaju॒stasmā̭dajāyata || 35,36 ||
tasmā॒daśvā̭ ajāyanta | ye ke co̭bha॒yāda̭taḥ |
gāvo̭ ha jajñire॒ tasmā᳚t | tasmā᳚jjā॒tā a̭jā॒vayaḥ̭ |
yatpurṷṣaṃ॒-vya~̭dadhuḥ | ka॒ti॒dhā vya̭kalpayann |
mukha॒-ṅkima̭sya॒ kau bā॒hū | kā vū॒rū pādā̭vucyete |
brā॒hma॒ṇo᳚-'sya॒ mukha̭māsīt | bā॒hū rā̭ja॒nyaḥ̭ kṛ॒taḥ || 36,37 ||
ū॒rū tada̭sya॒ yadvaiśyaḥ̭ | pa॒dbhyāgṃ śū॒dro a̭jāyata |
ca॒ndramā॒ mana̭so jā॒taḥ | cakṣo॒ssūryo̭ ajāyata |
mukhā॒dindra̭ścā॒gniśca̭ | prā॒ṇādvā॒yura̭jāyata |
nābhyā̭ āsīda॒ntari̭kṣam | śī॒r​ṣṇo dyaussama̭vartata |
pa॒dbhyā-mbhūmi॒rdiśa॒-śśrotrā᳚t |
tathā̭ lo॒kāgṃ a̭kalpayann || 37,38 ||
vedā॒hame॒ta-mpurṷṣa-mma॒hānta᳚m |
ā॒di॒tyava̭rṇaṃ॒ tama̭sa॒stu pā॒re |
sarvā̭ṇi rū॒pāṇi̭ vi॒citya॒ dhīraḥ̭ |
nāmā̭ni kṛ॒tvā-'bhi॒vada॒n yadāste᳚ |
dhā॒tā pu॒rastā॒dyamṷdāja॒hāra̭ |
śa॒kraḥ pravi॒dvānpra॒diśa॒ścata̭sraḥ |
tame॒vaṃ-vi~॒dvāna॒mṛta̭ i॒ha bha̭vati |
nānyaḥ panthā॒ aya̭nāya vidyate |
ya॒jñena̭ ya॒jñama̭yajanta de॒vāḥ |
tāni॒ dharmā̭ṇi pratha॒mānyā̭sann |
te ha॒ nāka̭-mmahi॒māna̭ssacante |
yatra॒ pūrvḙ sā॒dhyāssanti̭ de॒vāḥ || 38,39 ||
purṷṣaḥ pu॒ro᳚-'gra॒to̭-'jāyata kṛ॒to̭-'kalpayannāsa॒ndve ca̭ || 12 ||
jyāyā॒nadhi॒ pūrṷṣaḥ | anyatra॒ purṷṣaḥ ||
a॒dbhyassambhṷ̄taḥ pṛthi॒vyai rasā᳚cca |
vi॒śvaka̭rmaṇa॒ssama̭varta॒tādhi̭ |
tasya॒ tvaṣṭā̭ vi॒dadha̭drū॒pamḙti |
tatpurṷṣasya॒ viśva॒mājā̭na॒magre᳚ |
vedā॒hame॒ta-mpurṷṣa-mma॒hānta᳚m |
ā॒di॒tyava̭rṇa॒-ntama̭saḥ॒ para̭stāt |
tame॒vaṃ-vi~॒dvāna॒mṛta̭ i॒ha bha̭vati |
nānyaḥ panthā̭ vidya॒te-'ya̭nāya |
pra॒jāpa̭tiścarati॒ garbhḙ a॒ntaḥ |
a॒jāya̭māno bahu॒dhā vijā̭yate || 39,40 ||
tasya॒ dhīrāḥ॒ pari̭jānanti॒ yoni᳚m | marī̭cīnā-mpa॒dami̭cchanti ve॒dhasaḥ̭ | yo de॒vebhya॒ āta̭pati | yo de॒vānā᳚-mpu॒rohi̭taḥ |
pūrvo॒ yo de॒vebhyo̭ jā॒taḥ | namo̭ ru॒cāya॒ brāhma̭ye | ruca̭-mbrā॒hma-ñja॒naya̭ntaḥ | de॒vā agre॒ tada̭bruvann | yastvai॒va-mbrā᳚hma॒ṇo vi॒dyāt | tasya̭ de॒vā asa॒nvaśe᳚ | hrīśca̭ te la॒kṣmīśca॒ patnyau᳚ | a॒ho॒rā॒tre pā॒r​śve | nakṣa̭trāṇi rū॒pam | a॒śvinau॒ vyātta᳚m | i॒ṣṭa-mma̭niṣāṇa | a॒mu-mma̭niṣāṇa | sarva̭-mmaniṣāṇa || 40,41 ||
jā॒ya॒te॒ vaśḙ sa॒pta ca̭ || 13 ||
bha॒rtā sanbhri॒yamā̭ṇo bibharti | eko̭ de॒vo ba̭hu॒dhā nivi̭ṣṭaḥ | ya॒dā bhā॒ra-nta॒ndraya̭te॒ sa bhartu᳚m | ni॒dhāya̭ bhā॒ra-mpuna॒rasta̭meti | tame॒va mṛ॒tyuma॒mṛta॒-ntamā̭huḥ | ta-mbha॒rtāra॒-ntamṷ go॒ptāra̭māhuḥ | sa bhṛ॒to bhri॒yamā̭ṇo bibharti | ya ḙnaṃ॒-ve~da̭ sa॒tyena॒ bhartu᳚m | sa॒dyo jā॒tamu॒ta ja̭hātye॒ṣaḥ | u॒to jara̭nta॒-nna ja̭hā॒tyeka᳚m || 41,42 ||
u॒to ba॒hūneka॒maha̭rjahāra | ata̭ndro de॒vassada̭me॒va prārthaḥ̭ | yastadveda॒ yata̭ āba॒bhūva̭ | sa॒ndhā-ñca॒ yāgṃ sa̭nda॒dhe brahma̭ṇai॒ṣaḥ | rama̭te॒ tasmi᳚nnu॒ta jī॒rṇe śayā̭ne | naina̭-ñjahā॒tyaha̭ssu pū॒rvyeṣṷ | tvāmāpo॒ anu॒ sarvā᳚ścaranti jāna॒tīḥ | va॒thsa-mpaya̭sā punā॒nāḥ | tvama॒gnigṃ ha̭vya॒vāha॒gṃ॒ sami̭n​thse | tva-mbha॒rtā mā̭ta॒riśvā᳚ pra॒jānā᳚m || 42,43 ||
tvaṃ-ya~॒jñastvamṷve॒vāsi॒ somaḥ̭ | tava̭ de॒vā hava॒māya̭nti॒ sarve᳚ | tvameko̭-'si ba॒hūnanu॒pravi̭ṣṭaḥ | nama̭ste astu su॒havo̭ ma edhi | namo̭ vāmastu śṛṇu॒tagṃ hava̭-mme | prāṇā̭pānāvaji॒ragṃ sa॒ñcara̭ntau | hvayā̭mi vā॒-mbrahma̭ṇā tū॒rtameta᳚m | yo mā-ndveṣṭi॒ ta-ñja̭hitaṃ-yu~vānā | prāṇā̭pānau saṃ​vi~dā॒nau ja̭hitam | a॒muṣyāsṷnā॒ mā saṅga̭sāthām || 43 ||
ta-mmḙ devā॒ brahma̭ṇā saṃ​vi~dā॒nau | va॒dhāya̭ datta॒-ntama॒hagṃ ha̭nāmi | asa̭jjajāna sa॒ta āba̭bhūva | yaṃ-ya~̭-ñja॒jāna॒ sa ṷ go॒po a̭sya | ya॒dā bhā॒ra-nta॒ndraya̭te॒ sa bhartu᳚m | pa॒rāsya̭ bhā॒ra-mpuna॒rasta̭meti | tadvai tva-mprā॒ṇo a̭bhavaḥ | ma॒hānbhogaḥ̭ pra॒jāpa̭teḥ | bhujaḥ̭ kari॒ṣyamā̭ṇaḥ | yadde॒vānprāṇa̭yo॒ nava̭ || 44 ||
eka̭-mpra॒jānā᳚-ṅgasāthā॒-nnava̭ || 14 ||
hari॒gṃ॒ hara̭nta॒manṷyanti de॒vāḥ | viśva॒syeśā̭naṃ-vṛ~ṣa॒bha-mma̭tī॒nām | brahma॒ sarṷ̄pa॒manṷme॒damāgā᳚t | aya̭na॒-mmā viva̭dhī॒rvikra̭masva | mā chi̭do mṛtyo॒ mā va̭dhīḥ | mā me॒ balaṃ॒-vi~vṛ̭ho॒ mā pramo̭ṣīḥ | pra॒jā-mmā mḙ rīriṣa॒ āyṷrugra | nṛ॒cakṣa̭sa-ntvā ha॒viṣā̭ vidhema | sa॒dyaśca̭kamā॒nāya̭ | pra॒ve॒pā॒nāya̭ mṛ॒tyave᳚ || 45 ||
prāsmā॒ āśā̭ aśṛṇvann | kāmḙnājanaya॒npunaḥ̭ | kāmḙna me॒ kāma॒ āgā᳚t | hṛda̭yā॒ddhṛda̭ya-mmṛ॒tyoḥ | yada॒mīṣā̭ma॒daḥ pri॒yam | tadaitūpa॒māma॒bhi | para̭-mmṛtyo॒ anu॒ parḙhi॒ panthā᳚m | yaste॒ sva ita̭ro deva॒yānā᳚t | cakṣṷṣmate śṛṇva॒te te᳚ bravīmi | mā naḥ̭ pra॒jāgṃ rī̭riṣo॒ mota vī॒rān | pra pū॒rvya-mmana̭sā॒ vanda̭mānaḥ | nādha̭māno vṛṣa॒bha-ñca̭r​ṣaṇī॒nām | yaḥ pra॒jānā̭meka॒rāṇmānṷṣīṇām | mṛ॒tyuṃ-ya~̭je prathama॒jāmṛ॒tasya̭ || 46 ||
mṛ॒tyavḙ vī॒rāgṃśca॒tvāri̭ ca || 15 ||
ta॒raṇi̭rvi॒śvada̭r​śato jyoti॒ṣkṛda̭si sūrya | viśva॒mā bhā̭si roca॒nam | u॒pa॒yā॒magṛ̭hīto-'si॒ sūryā̭ya tvā॒ bhrāja̭svata e॒ṣa te॒ yoni॒ssūryā̭ya tvā॒ bhrāja̭svate || 47 || 16 ||
āpyā̭yasva madintama॒ soma॒ viśvā̭bhirū॒tibhiḥ̭ | bhavā̭ nassa॒pratha̭stamaḥ || (48) || 17 ||
ī॒yuṣṭe ye pūrva̭tarā॒mapa̭śyan vyu॒cchantī̭mu॒ṣasa॒-mmartyā̭saḥ | a॒smābhi̭rū॒ nu pra̭ti॒cakṣyā̭-'bhū॒do te ya̭nti॒ ye a̭pa॒rīṣu॒ paśyāṋ || 49 || 18 ||
jyoti̭ṣmatī-ntvā sādayāmi jyoti॒ṣkṛta̭-ntvā sādayāmi jyoti॒rvida̭-ntvā sādayāmi॒ bhāsva̭tī-ntvā sādayāmi॒ jvala̭ntī-ntvā sādayāmi malmalā॒bhava̭ntī-ntvā sādayāmi॒ dīpya̭mānā-ntvā sādayāmi॒ roca̭mānā-ntvā sādayā॒myaja̭srā-ntvā sādayāmi bṛ॒hajjyo̭tiṣa-ntvā sādayāmi bo॒dhaya̭ntī-ntvā sādayāmi॒ jāgra̭tī-ntvā sādayāmi || 50 || 19 ||
pra॒yā॒sāya॒ svāhā̭-''yā॒sāya॒ svāhā̭ viyā॒sāya॒ svāhā̭ saṃ​yā~॒sāya॒ svāho᳚dyā॒sāya॒ svāhā̭-'vayā॒sāya॒ svāhā̭ śu॒ce svāhā॒ śokā̭ya॒ svāhā̭ tapya॒tvai svāhā॒ tapa̭te॒ svāhā᳚ brahmaha॒tyāyai॒ svāhā॒ sarva̭smai॒ svāhā᳚ || 51 || 20 ||
ci॒ttagṃ sa̭ntā॒nena̭ bha॒vaṃ-ya~॒knā ru॒dra-ntani̭mnā paśu॒patiggṃ̭ sthūlahṛda॒yenā॒gnigṃ hṛda̭yena ru॒draṃ-lo~hi̭tena śa॒rva-mmata̭snābhyā-mmahāde॒vama॒ntaḥ pā᳚r​śvenauṣiṣṭha॒hanagṃ̭ śiṅgīniko॒śyā᳚bhyām || 52 || 21 ||
ci॒ttiḥ̭ pṛthi॒vya̭gni॒ssūrya̭-nte॒ cakṣṷrma॒hāha̭vi॒r​hotā॒ vāghotā᳚ brāhma॒ṇa eka̭hotā॒-'gniryajṷrbhi॒ssenendra̭sya de॒vasya̭ su॒varṇa̭-ṅgha॒rmagṃ sa॒hasra̭śīr​ṣā॒-'dbhyo bha॒rtā hari̭-nta॒raṇi॒rāpyā̭yasve॒yuṣṭe ye jyoti̭ṣmatī-mprayā॒sāya̭ ci॒ttameka̭vigṃśatiḥ || 21 ||
citti̭ra॒gniryajṷrbhira॒ntaḥ pravi̭ṣṭaḥ pra॒jāpa̭tirbha॒rtāsanprayā॒sāya॒ dvipa̭ñcā॒śat || 52 ||
citti̭ra॒gniryajṷrbhira॒ntaḥ pravi̭ṣṭaḥ pra॒jāpa̭tiḥ pra॒jayā̭ saṃ​vi~dā॒nastasya॒ dhīrā॒ jyoti̭ṣmatī॒-ntripa̭ñcā॒śat || 53 ||
tacchaṃ॒-yo~rāvṛ̭ṇīmahe | gā॒tuṃ-ya~॒jñāya̭ |
gā॒tuṃ-ya~॒jñapa̭taye | daivī᳚ sva॒stira̭stu naḥ |
sva॒stirmānṷṣebhyaḥ | ū॒rdhva-ñji̭gātu bheṣa॒jam |
śa-nno̭ astu dvi॒pade᳚ | śa-ñcatṷṣpade ||
oṃ śānti॒-śśānti॒-śśāntiḥ̭ ||