📄 Save this Stotram as PDF Click the button to open the Save dialog
How to save: 1 Click "Save as PDF" 2 A dialog opens 3 Choose "Save as PDF" as printer 4 Click Save
भर्तृहरेः शतक त्रिशति - शृङ्गार शतकम्
Bhartrihareh Shataka Trishati - Shringara Shatakam
Shatakam Bhartrihari Devanagari
शम्भुस्वयम्भुहरयो हरिणेक्षणानां
येनाक्रियन्त सततं गृहकुम्भदासाः ।
वाचां अगोचरचरित्रविचित्रिताय
तस्मै नमो भगवते मकरध्वजाय ॥ 2.1 ॥
स्मितेन भावेन च लज्जया भिया
पराण्मुखैरर्धकटाक्षवीक्षणैः ।
वचोभिरीर्ष्याकलहेन लीलया
समस्तभावैः खलु बन्धनं स्त्रियः ॥ 2.2 ॥
भ्रूचातुर्यात्कुष्चिताक्षाः कटाक्षाः
स्निग्धा वाचो लज्जितान्ताश्च हासाः ।
लीलामन्दं प्रस्थितं च स्थितं च
स्त्रीणां एतद्भूषणं चायुधं च ॥ 2.3 ॥
क्वचित्सभ्रूभङ्गैः क्वचिदपि च लज्जापरिगतैः
क्वचिद्भूरित्रस्तैः क्वचिदपि च लीलाविललितैः ।
कुमारीणां एतैर्मदनसुभगैर्नेत्रवलितैः
स्फुरन्नीलाब्जानां प्रकरपरिकीर्णा इव दिशः ॥ 2.4 ॥
वक्त्रं चन्द्रविकासि पङ्कजपरीहासक्षमे लोचने
वर्णः स्वर्णं अपाकरिष्णुरलिनीजिष्णुः कचानां चयः ।
बक्षोजाविभकुम्भविभ्रमहरौ गुर्वी नितम्बस्थली
वाचां हारि च मार्दवं युवतीषु स्वाभाविकं मण्डनम् ॥ 2.5 ॥
स्मितकिञ्चिन्मुग्धं सरलतरलो दृष्टिविभवः
परिस्पन्दो वाचां अभिनवविलासोक्तिसरसः ।
गतानां आरम्भः किसलयितलीलापरिकरः
स्पृशन्त्यास्तारुण्यं किं इव न हि रम्यं मृगदृशः ॥ 2.6 ॥
द्रष्टव्येषु किं उत्तमं मृगदृशः प्रेमप्रसन्नं मुखं
घ्रातवेष्वपि किं तद्​आस्यपवनः श्रव्येषु किं तद्वचः ।
किं स्वाद्येषु तद्​ओष्ठपल्लवरसः स्पृश्येषु किं तद्वपुर्ध्येयं
किं नवयौवने सहृदयैः सर्वत्र तद्विभ्रमाः ॥ 2.7 ॥
एताश्चलद्वलयसंहतिमेखलोत्थझङ्कार
नूपुरपराजितराजहंस्यः ।
कुर्वन्ति कस्य न मनो विवशं तरुण्यो
वित्रस्तमुग्धहरिणीसदृशैः कटाक्षैः ॥ 2.8 ॥
कुङ्कुमपङ्ककलङ्कितदेहा
गौरपयोधरकम्पितहारा ।
नूपुरहंसरणत्पद्मा
कं न वशीकुरुते भुवि रामा ॥ 2.9 ॥
नूनं हि ते कविवरा विपरीतवाचो
ये नित्यं आहुरबला इति कामिनीस्ताः ।
याभिर्विलोलितरतारकदृष्टिपातैः
शक्रादयोऽपि विजितास्त्वबलाः कथं ताः ॥ 2.10 ॥
नूनं आज्ञाकरस्तस्याः सुभ्रुवो मकरध्वजः ।
यतस्तन्नेत्रसञ्चारसूचितेषु प्रवर्तते ॥ 2.11 ॥
केशाः संयमिनः श्रुतेरपि परं पारं गते लोचने
अन्तर्वक्त्रं अपि स्वभावशुचिभीः कीर्णं द्विजानां गणैः ।
मुक्तानां सतताधिवासरुचिरौ वक्षोजकुम्भाविमावित्थं
तन्वि वपुः प्रशान्तं अपि तेरागं करोत्येव नः ॥ 2.12 ॥
मुग्धे धानुष्कता केयं अपूर्वा त्वयि दृश्यते ।
यया विध्यसि चेतांसि गुणैरेव न सायकैः ॥ 2.13 ॥
सति प्रदीपे सत्यग्नौ सत्सु तारारवीन्दुषु ।
विना मे मृगशावाक्ष्या तमोभूतं इदं जगत् ॥ 2.14 ॥
उद्वृत्तः स्तनभार एष तरले नेत्रे चले भ्रूलते
रागाधिष्ठितं ओष्ठपल्लवं इदं कुर्वन्तु नाम व्यथाम् ।
सौभाग्याक्षरमालिकेव लिखिता पुष्पायुधेन स्वयं
मध्यस्थापि करोति तापं अधिकं रोमावलिः केन सा ॥ 2.15 ॥
मुखेन चन्द्रकान्तेन महानीलैः शिरोरुहैः ।
कराभ्यां पद्मरागाभ्यां रेजे रत्नमयीव सा ॥ 2.16 ॥
गुरुणा स्तनभारेण मुखचन्द्रेण भास्वता ।
शनैश्चराभ्यां पादाभ्यां रेजे ग्रहमयीव सा ॥ 2.17 ॥
तस्याः स्तनौ यदि घनौ जघनं च हारि
वक्त्रं च चारु तव चित्त किं आकुलत्वम् ।
पुण्यं कुरुष्व यदि तेषु तवास्ति वाञ्छा
पुण्यैर्विना न हि भवन्ति समीहितार्थाः ॥ 2.18 ॥
इमे तारुण्यश्रीनवपरिमलाः प्रौढसुरतप्रताप
प्रारम्भाः स्मरविजयदानप्रतिभुवः ।
चिरं चेतश्चोरा अभिनवविकारैकगुरवो
विलासव्यापाराः किं अपि विजयन्ते मृगदृशाम् ॥ 2.19 ॥
प्रणयमधुराः प्रेमोद्गारा रसाश्रयतां गताः
फणितिमधुरा मुग्धप्रायाः प्रकाशितसम्मदाः ।
प्रकृतिसुभगा विस्रम्भार्द्राः स्मरोदयदायिनी
रहसि किं अपि स्वैरालापा हरन्ति मृगीदृशाम् ॥ 2.20 ॥
विश्रम्य विश्रम्य वनद्रुमाणां
छायासु तन्वी विचचार काचित् ।
स्तनोत्तरीयेण करोद्धृतेन
निवारयन्ती शशिनो मयूखान् ॥ 2.21 ॥
अदर्शने दर्शनमात्रकामा
दृष्ट्वा परिष्वङ्गसुखैकलोला ।
आलिङ्गितायां पुनरायताक्ष्यामाशास्महे
विग्रहयोरभेदम् ॥ 2.22 ॥
मालती शिरसि जृम्भणं मुखे
चन्दनं वपुषि कुङ्कुमाविलम् ।
वक्षसि प्रियतमा मदालसा
स्वर्ग एष परिशिष्ट आगमः ॥ 2.23 ॥
प्राङ्मां एति मनागनागतरसं जाताभिलाषां ततः
सव्रीडं तदनु श्लथोद्यमं अथ प्रध्वस्तधैर्यं पुनः ।
प्रेमार्द्रं स्पृहणीयनिर्भररहः क्रीडाप्रगल्भं ततो
निःसङ्गाङ्गविकर्षणाधिकसुखरम्यं कुलस्त्रीरतम् ॥ 2.24 ॥
उरसि निपतितानां स्रस्तधम्मिल्लकानां
मुकुलितनयनानां किञ्चिद्​उन्मीलितानाम् ।
उपरि सुरतखेदस्विन्नगण्डस्थलानामधर
मधु वधूनां भाग्यवन्तः पिबन्ति ॥ 2.25 ॥
आमीलितनयनानां यः
सुरतरसोऽनु संविदं भाति ।
मिथुरैर्मिथोऽवधारितमवितथम्
इदं एव कामनिर्बर्हणम् ॥ 2.26 ॥
इदं अनुचितं अक्रमश्च पुंसां
यदिह जरास्वपि मन्मथा विकाराः ।
तदपि च न कृतं नितम्बिनीनां
स्तनपतनावधि जीवितं रतं वा ॥ 2.27 ॥
राजस्तृष्णाम्बुराशेर्न हि जगति गतः कश्चिदेवावसानं
को वार्थोऽर्थैः प्रभूतैः स्ववपुषि गलिते यौवने सानुरागे ।
गच्छामः सद्म यावद्विकसितनयनेन्दीवरालोकिनीनामाक्रम्याक्रम्य
रूपं झटिति न जरया लुप्यते प्रेयसीनाम् ॥ 2.28 ॥
रागस्यागारं एकं नरकशतमहादुःखसम्प्राप्तिहेतुर्मोहस्योत्पत्ति
बीजं जलधरपटलं ज्ञानताराधिपस्य ।
कन्दर्पस्यैकमित्रं प्रकटितविविधस्पष्टदोषप्रबन्धं
लोकेऽस्मिन्न ह्यर्थव्रजकुलभवनयौवनादन्यदस्ति ॥ 2.29 ॥
शृङ्गारद्रुमनीरदे प्रसृमरक्रीडारसस्रोतसि
प्रद्युम्नप्रियबान्धवे चतुरवाङ्मुक्ताफलोदन्वति ।
तन्वीनेत्रचकोरपावनविधौ सौभाग्यलक्ष्मीनिधौ
धन्यः कोऽपि न विक्रियां कलयति प्राप्ते नवे यौवने ॥ 2.30 ॥
संसारेऽस्मिन्नसारे कुनृपतिभवनद्वारसेवाकलङ्कव्यासङ्ग
व्यस्तधैर्यं कथं अमलधियो मानसं संविदध्युः ।
यद्येताः प्रोद्यद्​इन्दुद्युतिनिचयभृतो न स्युरम्भोजनेत्राः
प्रेङ्खत्काञ्चीकलापाः स्तनभरविनमन्मध्यभाजस्तरुण्यः ॥ 2.31 ॥
सिद्धाध्यासितकन्दरे हरवृषस्कन्धावरुग्णद्रुमे
गङ्गाधौतशिलातले हिमवतः स्थाने स्थिते श्रेयसि ।
कः कुर्वीत शिरः प्रणाममलिनं म्लानं मनस्वी जनो
यद्वित्रस्तकुरङ्गशावनयना न स्युः स्मरास्त्रं स्त्रियः ॥ 2.32 ॥
संसार तव पर्यन्तपदवी न दवीयसी ।
अन्तरा दुस्तरा न स्युर्यदि ते मदिरेक्षणाम् ॥ 2.33 ॥
दिश वनहरिणीभ्यो वंशकाण्डच्छवीनां
कवलं उपलकोटिच्छिन्नमूलं कुशानाम् ।
शकयुवतिकपोलापाण्डुताम्बूलवल्लीदलम्
अरुणनखाग्रैः पाटितं वा वधूभ्यः ॥ 2.34 ॥
असाराः सर्वे ते विरतिविरसाः पापविषया
जुगुप्स्यन्तां यद्वा ननु सकलदोषास्पदं इति ।
तथाप्येतद्भूमौ नहि परहितात्पुण्यं अधिकं
न चास्मिन्संसारे कुवलयदृशो रम्यं अपरम् ॥ 2.35 ॥
एतत्कामफलो लोके यद्द्वयोरेकचित्तता ।
अन्यचित्तकृते कामे शवयोरिव सङ्गमः ॥ 2.35.1 ॥
मात्सर्यं उत्सार्य विचार्य कार्यमार्याः
समर्यादं इदं वदन्तु ।
सेव्या नितम्बाः किं उ भूधराणामत
स्मरस्मेरविलासिनीनाम् ॥ 2.36 ॥
संसारे स्वप्नसारे परिणतितरले द्वे गती पण्डितानां
तत्त्वज्ञानामृताम्भःप्लवललितधियां यातु कालः कथञ्चित् ।
नो चेन्मुग्धाङ्गनानां स्तनजघनघनाभोगसम्भोगिनीनां
स्थूलोपस्थस्थलीषु स्थगितकरतलस्पर्शलीलोद्यमानाम् ॥ 2.37 ॥
आवासः क्रियतां गङ्गे पापहारिणि वारिणि ।
स्तनद्वये तरुण्या वा मनोहारिणि हारिणि ॥ 2.38 ॥
किं इह बहुभिरुक्तैर्युक्तिशून्यैः प्रलापैर्द्वयम्
इह पुरुषाणां सर्वदा सेवनीयम् ।
अभिनवमदलीलालालसं सुन्दरीणां
स्तनभरपरिखिन्नं यौवनं वा वनं वा ॥ 2.39 ॥
सत्यं जना वच्मि न पक्षपाताल्
लोकेषु सप्तस्वपि तथ्यं एतत् ।
नान्यन्मनोहारि नितम्बिनीभ्यो
दुःखैकहेतुर्न च कश्चिदन्यः ॥ 2.40 ॥
कान्तेत्युत्पललोचनेति विपुलश्रोणीभरेत्युन्नमत्पीनोत्तुङ्ग
पयोधरेति समुखाम्भोजेति सुभ्रूरिति ।
दृष्ट्वा माद्यति मोदतेऽभिरमते प्रस्तौति विद्वानपि
प्रत्यक्षाशुचिभस्त्रिकां स्त्रियं अहो मोहस्य दुश्चेष्टितम् ॥ 2.41 ॥
स्मृता भवति तापाय दृष्टा चोन्मादकारिणी ।
स्पृष्टा भवति मोहाय सा नाम दयिता कथम् ॥ 2.42 ॥
तावदेवामृतमयी यावल्लोचनगोचरा ।
चक्षुष्पथादतीता तु विषादप्यतिरिच्यते ॥ 2.43 ॥
नामृतं न विषं किञ्चिदेतां मुक्त्वा नितम्बिनीम् ।
सैवामृतलता रक्ता विरक्ता विषवल्लरी ॥ 2.44 ॥
आवर्तः संशयानां अविनयभुवनं पट्टणं साहसानां
दोषाणां सन्निधानं कपटशतमयं क्षेत्रं अप्रत्ययानाम् ।
स्वर्गद्वारस्य विघ्नो नरकपुरमुख सर्वमायाकरण्डं
स्त्रीयन्त्रं केन सृष्टं विषं अमृतमयं प्राणिलोकस्य पाशः ॥ 2.45 ॥
नो सत्येन मृगाङ्क एष वदनीभूतो न चेन्दीवरद्वन्द्वं
लोचनतां गत न कनकैरप्यङ्गयष्टिः कृता ।
किन्त्वेवं कविभिः प्रतारितमनास्तत्त्वं विजानन्नपि
त्वङ्मांसास्थिमयं वपुर्मृगदृशां मन्दो जनः सेवते ॥ 2.46 ॥
लीलावतीनां सहजा विलासास्त
एव मूढस्य हृदि स्फुरन्ति ।
रागो नलिन्या हि निसर्गसिद्धस्तत्र
भ्रम्त्येव वृथा षड्​अङ्घ्रिः ॥ 2.47 ॥
सम्मोहयन्ति मदयन्ति विडम्बयन्ति
निर्भर्त्स्यन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां
किं नाम वामनयना न समाचरन्ति ॥ 2.47.1 ॥
यदेतत्पूर्णेन्दुद्युतिहरं उदाराकृति परं
मुखाब्जं तन्वङ्ग्याः किल वसति यत्राधरमधु ।
इदं तत्किं पाकद्रुमफलं इदानीं अतिरसव्यतीतेऽस्मिन्
काले विषं इव भविष्य्त्यसुखदम् ॥ 2.48 ॥
उन्मीलत्त्रिवलीतरङ्गनिलया प्रोत्तुङ्गपीनस्तनद्वन्द्वेनोद्गत
चक्रवाकयुगला वक्त्राम्बुजोद्भासिनी ।
कान्ताकारधरा नदीयं अभितः क्रूरात्र नापेक्षते
संसारार्णवमज्जनं यदि तदा दूरेण सन्त्यज्यताम् ॥ 2.49 ॥
जल्पन्ति सार्धं अन्येन पश्यन्त्यन्यं सविभ्रमाः ।
हृद्गतं चिन्तयन्त्यन्यं प्रियः को नाम योषिताम् ॥ 2.50 ॥
मधु तिष्ठति वाचि योषितां हृदि हालाहलं एव केवलम् ।
अत​एव निपीयतेऽधरो हृदयं मुष्टिभिरेव ताड्यते ॥ 2.51 ॥
अपसर सखे दूरादस्मात्कटाक्षविषानलात्
प्रकृतिविषमाद्योषित्सर्पाद्विलासफणाभृतः ।
इतरफणिना दष्टः शक्यश्चिकित्सितुं औषधैश्चतुर्
वनिताभोगिग्रस्तं हि मन्त्रिणः ॥ 2.52 ॥
विस्तारितं मकरकेतनधीवरेण
स्त्रीसञ्ज्ञितं बडिशं अत्र भवाम्बुराशौ ।
येनाचिरात्तद्​अधरामिषलोलमर्त्य
मत्स्यान्विकृष्य विपचत्यनुरागवह्नौ ॥ 2.53 ॥
कामिनीकायकान्तारे कुचपर्वतदुर्गमे ।
मा सञ्चर मनः पान्थ तत्रास्ते स्मरतस्करः ॥ 2.54 ॥
व्याडीर्घेण चलेन वक्त्रगतिना तेजस्विना भोगिना
नीलाब्जद्युतिनाहिना परं अहं दृष्टो न तच्चक्षुषा ।
दृष्टे सन्ति चिकित्सका दिशि दिशि प्रायेण धनार्थिनो
मुग्धाक्षक्षणवीक्षितस्य न हि मे वैद्यो न चाप्यौषधम् ॥ 2.55 ॥
इह हि मधुरगीतं नृत्यं एतद्रसोऽयं
स्फुरति परिमलोऽसौ स्पर्श एष स्तनानाम् ।
इति हतपरमार्थैरिन्द्रियैर्भ्राम्यमाणः
स्वहितकरणधूर्तैः पञ्चभिर्वञ्चितोऽस्मि ॥ 2.56 ॥
न गम्यो मन्त्राणां न च भवति भैषज्यविषयो
न चापि प्रध्वंसं व्रजति विविधैः शान्तिकशतैः ।
भ्रमावेशादङ्गे कं अपि विदधद्भङ्गं असकृत्
स्मरापस्मारोऽयं भ्रमयति दृशं घूर्णयति च ॥ 2.57 ॥
जात्य्​अन्धाय च दुर्मुखाय च जराजीर्णा खिलाङ्गाय च
ग्रामीणाय च दुष्कुलाय च गलत्कुष्ठाभिभूताय च ।
यच्छन्तीषु मनोहरं निजवपुलक्ष्मीलवश्रद्धया
पण्यस्त्रीषु विवेककल्पलतिकाशस्त्रीषु राज्येत कः ॥ 2.58 ॥
वेश्यासौ मदनज्वाला
रूपेऽन्धनविवर्धिता ।
कामिभिर्यत्र हूयन्ते
यौवनानि धनानि च ॥ 2.59 ॥
कश्चुम्बति कुलपुरुषो वेश्याधरपल्लवं मनोज्ञं अपि ।
चारभटचोरचेटकनटविटनिष्ठीवनशरावम् ॥ 2.60 ॥
धन्यास्त एव धवलायतलोचनानां
तारुण्यदर्पघनपीनपयोधराणाम् ।
क्षामोदरोपरि लसत्त्रिवलीलतानां
दृष्ट्वाकृतिं विकृतिं एति मनो न येषाम् ॥ 2.61 ॥
बाले लीलामुकुलितं अमी मन्थरा दृष्टिपाताः
किं क्षिप्यन्ते विरमविरम व्यर्थ एष श्रमस्ते ।
सम्प्रत्यन्ये वयं उपरतं बाल्यं आस्था वनान्ते
क्षीणो मोहस्तृणं इव जगज्जालं आलोकयामः ॥ 2.62 ॥
इयं बाला मां प्रत्यनवरतं इन्दीवरदलप्रभा
चीरं चक्षुः क्षिपति किं अभिप्रेतं अनया ।
गतो मोहोऽस्माकं स्मरशबरबाणव्यतिकरज्वर
ज्वाला शान्ता तदपि न वराकी विरमति ॥ 2.63 ॥
किं कन्दर्प करं कदर्थयसि रे कोदण्डटङ्कारितं
रे रे कोकिल कोमलं कलरवं किं वा वृथा जल्पसि ।
मुग्धे स्निग्धविदग्धचारुमधुरैर्लोलैः कटाक्षैरलं
चेतश्चुम्बितचन्द्रचूडचरणध्यानामृतं वर्तते ॥ 2.64 ॥
विरहेऽपि सङ्गमः खलु
परस्परं सङ्गतं मनो येषाम् ।
हृदयं अपि विघट्टितं चेत्
सङ्गी विरहं विशेषयति ॥ 2.65 ॥
किं गतेन यदि सा न जीवति
प्राणिति प्रियतमा तथापि किम् ।
इत्युदीक्ष्य नवमेघमालिकां
न प्रयाति पथिकः स्वमन्दिरम् ॥ 2.66 ॥
विरमत बुधा योषित्सङ्गात्सुखात्क्षणभङ्गुरात्
कुरुत करुणामैत्रीप्रज्ञावधूजनसङ्गमम् ।
न खलु नरके हाराक्रान्तं घनस्तनमण्डलं
शरणं अथवा श्रोणीबिम्बं रणन्मणिमेखलम् ॥ 2.67 ॥
यदा योगाभ्यासव्यसनकृशयोरात्ममनसोरविच्छिन्ना
मैत्री स्फुरति कृतिनस्तस्य किं उ तैः ।
प्रियाणां आलापैरधरमधुभिर्वक्त्रविधुभिः
सनिश्वासामोदैः सकुचकलशाश्लेषसुरतैः ॥ 2.68 ॥
यदासीदज्ञानं स्मरतिमिरसञ्चारजनितं
तदा दृष्टनारीमयं इदं अशेषं जगदिति ।
इदानीं अस्माकं पटुतरविवेकाञ्जनजुषां
समीभूता दृष्टिस्त्रिभुवनं अपि ब्रह्म मनुते ॥ 2.69 ॥
तावदेव कृतिनां अपि स्फुरत्येष
निर्मलविवेकदीपकः ।
यावदेव न कुरङ्गचक्षुषां
ताड्यते चटुललोचनाञ्चलैः ॥ 2.70 ॥
वचसि भवति सङ्गत्यागं उद्दिश्य वार्ता
श्रुतिमुखरमुखानां केवलं पण्डितानाम् ।
जघनं अरुणरत्नग्रन्थिकाञ्चीकलापं
कुवलयनयनानां को विहातुं समर्थः ॥ 2.71 ॥
स्वपरप्रतारकोऽसौ
निन्दति योऽलीकपण्डितो युवतीः ।
यस्मात्तपसोऽपि फलं
स्वर्गः स्वर्गेऽपि चाप्सरसः ॥ 2.72 ॥
मत्तेभकुम्भदलने भुवि सन्ति धीराः
केचित्प्रचण्डमृगराजवधेऽपि दक्षाः ।
किन्तु ब्रवीमि बलिनां पुरतः प्रसह्य
कन्दर्पदर्पदलने विरला मनुष्याः ॥ 2.73 ॥
सन्मार्गे तावदास्ते प्रभवति च नरस्तावदेवेन्द्रियाणां
लज्जां तावद्विधत्ते विनयं अपि समालम्बते तावदेव ।
भ्रूचापाकृष्टमुक्ताः श्रवणपथगता नीलपक्ष्माण एते
यावल्लीलावतीनां हृदि न धृतिमुषो दृष्टिबाणाः पतन्ति ॥ 2.74 ॥
उन्मत्तप्रेमसंरम्भाद्
आरभन्ते यद्​अङ्गनाः ।
तत्र प्रत्यूहं आधातुं
ब्रह्मापि खलु कातरः ॥ 2.75 ॥
तावन्महत्त्वं पाण्डित्यं
कुलीनत्वं विवेकिता ।
यावज्ज्वलति नाङ्गेषु
हतः पञ्चेषुपावकः ॥ 2.76 ॥
शास्त्रज्ञोऽपि प्रथितविनयोऽप्यात्मबोधोऽपि बाढं
संसारेऽस्मिन्भवति विरलो भाजनं सद्गतीनाम् ।
येनैतस्मिन्निरयनगरद्वारं उद्घाटयन्ती
वामाक्षीणां भवति कुटिला भ्रूलता कुञ्चिकेव ॥ 2.77 ॥
कृशः काणः खञ्जः श्रवणरहितः पुच्छविकलो
व्रणी पूयक्लिन्नः कृमिकुलशतैरावृततनुः ।
क्षुधा क्षामो जीर्णः पिठरककपालार्पितगलः
शुनीं अन्वेति श्वा हतं अपि च हन्त्येव मदनः ॥ 2.78 ॥
स्त्रीमुद्रां कुसुमायुधस्य जयिनीं सर्वार्थसम्पत्करीं
ये मूढाः प्रविहाय यान्ति कुधियो मिथ्याफलान्वेषिणः ।
ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः
केचित्पञ्चशिखीकृताश्च जटिलाः कापालिकाश्चापरे ॥ 2.79 ॥
विश्वामित्रपराशरप्रभृतयो वाताम्बुपर्णाशनास्तेऽपि
स्त्रीमुखपङ्कजं सुललितं दृष्ट्वैव मोहं गताः ।
शाल्यन्नं सघृतं पयोदधियुतं ये भुञ्जते मानवास्तेषाम्
इन्द्रियनिग्रहो यदि भवेद्विन्ध्यः प्लवेत्सागरे ॥ 2.80 ॥
परिमलभृतो वाताः शाखा नवाङ्कुरकोटयो
मधुरविरुतोत्कण्ठा वाचः प्रियाः पिकपक्षिणाम् ।
विरलसुरतस्वेदोद्गारा वधूवदनेन्दवः
प्रसरति मधौ रात्र्यां जातो न कस्य गुणोदयः ॥ 2.81 ॥
मधुरयं मधुरैरपि कोकिला
कलरवैर्मलयस्य च वायुभिः ।
विरहिणः प्रहिणस्ति शरीरिणो
विपदि हन्त सुधापि विषायते ॥ 2.82 ॥
आवासः किलकिञ्चितस्य दयितापार्श्वे विलासालसाः
कर्णे कोकिलकामिनीकलरवः स्मेरो लतामण्डपः ।
गोष्ठी सत्कविभिः समं कतिपयैर्मुग्धाः सुधांशोः कराः
केषाञ्चित्सुखयन्ति चात्र हृदयं चैत्रे विचित्राः क्षपाः ॥ 2.83 ॥
पान्थ स्त्रीविरहानलाहुतिकलां आतन्वती मञ्जरीमाकन्देषु
पिकाङ्गनाभिरधुना सोत्कण्ठं आलोक्यते ।
अप्येते नवपाटलापरिमलप्राग्भारपाटच्चरा
वान्तिक्लान्तिवितानतानवकृतः श्रीखण्डशैलानिलाः ॥ 2.84 ॥
प्रथितः प्रणयवतीनां
तावत्पदं आतनोतु हृदि मानः ।
भवति न यावच्चन्दनतरु
सुरभिर्मलयपवमानः ॥ 2.85 ॥
सहकारकुसुमकेसरनिकर
भरामोदमूर्च्छितदिग्​अन्ते ।
मधुरमधुरविधुरमधुपे
मधौ भवेत्कस्य नोत्कण्ठा ॥ 2.86 ॥
अच्छाच्छचन्दनरसार्द्रतरा मृगाक्ष्यो
धारागृहाणि कुसुमानि च कौमुदी च ।
मन्दो मरुत्सुमनसः शुचि हर्म्यपृष्ठं
ग्रीष्मे मदं च मदनं च विवर्धयन्ति ॥ 2.87 ॥
स्रजो हृद्यामोदा व्यजनपवनश्चन्द्रकिरणाः
परागः कासारो मलयजरजः शीधु विशदम् ।
शुचिः सौधोत्सङ्गः प्रतनु वसनं पङ्कजदृशो
निदाघऋतावेतद्विलसति लभन्ते सुकृतिनः ॥ 2.88 ॥
सुधाशुभ्रं धाम स्फुरद्​अमलरश्मिः शशधरः
प्रियावक्त्राम्भोजं मलयजरजश्चातिसुरभिः ।
स्रजो हृद्यामोदास्तदिदं अखिलं रागिणि जने
करोत्यन्तः क्षोभं न तु विषयसंसर्गविमुखे ॥ 2.89 ॥
तरुणीवेषोद्दीपितकामा
विकसज्जातीपुष्पसुगन्धिः ।
उन्नतपीनपयोधरभारा
प्रावृट्तनुते कस्य न हर्षम् ॥ 2.90 ॥
वियद्​उपचितमेघं भूमयः कन्दलिन्यो
नवकुटजकदम्बामोदिनो गन्धवाहाः ।
शिखिकुलकलकेकारावरम्या वनान्ताः
सुखिनं असुखिनं वा सर्वं उत्कण्ठयन्ति ॥ 2.91 ॥
उपरि घनं घनपटलं
तिर्यग्गिरयोऽपि नर्तितमयूराः ।
क्षितिरपि कन्दलधवला
दृष्टिं पथिकः क्व पातयति ॥ 2.92 ॥
इतो विद्युद्वल्लीविलसितं इतः केतकितरोः
स्फुरन्गन्धः प्रोद्यज्जलदनिनदस्फूर्जितं इतः ।
इतः केकिक्रीडाकलकलरवः पक्ष्मलदृशां
कथं यास्यन्त्येते विरहदिवसाः सम्भृतरसाः ॥ 2.93 ॥
असूचिसञ्चारे तमसि नभसि प्रौढजलदध्वनिप्रये
तस्मिन् पतति दृशदां नीरनिचये ।
इदं सौदामिन्याः कनककमनीयं विलसितं
मुदं च ग्लानिं च प्रथयति पथिष्वेव सुदृशाम् ॥ 2.94 ॥
आसारेण न हर्म्यतः प्रियतमैर्यातुं बहिः शक्यते
शीतोत्कम्पनिमित्तं आयतदृशा गाढं समालिङ्ग्यते ।
जाताः शीकरशीतलाश्च मरुतोरत्यन्तखेदच्छिदो
धन्यानां बत दुर्दिनं सुदिनतां याति प्रियासङ्गमे ॥ 2.95 ॥
अर्धं सुप्त्वा निशायाः सरभससुरतायाससन्नश्लथाङ्गप्रोद्भूतासह्य
तृष्णो मधुमदनिरतो हर्म्यपृष्ठे विविक्ते ।
सम्भोगक्लान्तकान्ताशिथिलभुजलतावर्जितं कर्करीतो
ज्योत्स्नाभिन्नाच्छधारं पिबति न सलिलं शारदं मन्दपुण्यः ॥ 2.96 ॥
हेमन्ते दधिदुग्धसर्पिरशना माञ्जिष्ठवासोभृतः
काश्मीरद्रवसान्द्रदिग्धवपुषश्छिन्ना विचित्रै रतैः ।
वृत्तोरुस्तनकामिनोजनकृताश्लेषा गृहाभ्यन्तरे
ताम्बूलीदलपूगपूरितमुखा धन्याः सुखं शेरते ॥ 2.97 ॥
प्रदुयत्प्रौढप्रियङ्गुद्युतिभृति विकसत्कुन्दमाद्यद्द्विरेफे
काले प्रालेयवातप्रचलविलसितोदारमन्दारधाम्नि ।
येषां नो कण्ठलग्ना क्षणं अपि तुहिनक्षोददक्षा मृगाक्षी
तेसां आयामयामा यमसदनसमा यामिनी याति यूनाम् ॥ 2.98 ॥
चुम्बन्तो गण्डभित्तीरलकवति मुखे सीत्कृतान्यादधाना
वक्षःसूत्कञ्चुकेषु स्तनभरपुलकोद्भेदं आपादयन्तः ।
ऊरूनाकम्पयन्तः पृथुजघनतटात्स्रंसयन्तोऽंशुकानि
व्यक्तं कान्ताजनानां विटचरितभृतः शैशिरा वान्ति वाताः ॥ 2.99 ॥
केशानाकुलयन्दृशो मुकुलयन्वासो बलादाक्षिपन्नातन्वन्
पुलकोद्गमं प्रकटयन्नावेगकम्पं शनैः ।
बारं बारं उदारसीत्कृतकृतो दन्तच्छदान्पीडयन्
प्रायः शैशिर एष सम्प्रति मरुत्कान्तासु कान्तायते ॥ 2.100 ॥
यद्यस्य नास्ति रुचिरं तस्मिंस्तस्य स्पृहा मनोज्ञेऽपि ।
रमणीयेऽपि सुधांशौ न मनःकामः सरोजिन्याः ॥ 2.101 ॥
वैराग्ये सञ्चरत्येको नीतौ भ्रमति चापरः ।
शृङ्गारे रमते कश्चिद्भुवि भेदाः परस्परम् ॥ 2.102 ॥
Roman (IAST) Transliteration
śambhusvayambhuharayo hariṇekṣaṇānāṃ
yenākriyanta satataṃ gṛhakumbhadāsāḥ |
vācāṃ agocaracaritravicitritāya
tasmai namo bhagavate makaradhvajāya || 2.1 ||
smitena bhāvena ca lajjayā bhiyā
parāṇmukhairardhakaṭākṣavīkṣaṇaiḥ |
vacobhirīrṣyākalahena līlayā
samastabhāvaiḥ khalu bandhanaṃ striyaḥ || 2.2 ||
bhrūcāturyātkuṣcitākṣāḥ kaṭākṣāḥ
snigdhā vāco lajjitāntāśca hāsāḥ |
līlāmandaṃ prasthitaṃ ca sthitaṃ ca
strīṇāṃ etadbhūṣaṇaṃ cāyudhaṃ ca || 2.3 ||
kvacitsabhrūbhaṅgaiḥ kvacidapi ca lajjāparigataiḥ
kvacidbhūritrastaiḥ kvacidapi ca līlāvilalitaiḥ |
kumārīṇāṃ etairmadanasubhagairnetravalitaiḥ
sphurannīlābjānāṃ prakaraparikīrṇā iva diśaḥ || 2.4 ||
vaktraṃ candravikāsi paṅkajaparīhāsakṣame locane
varṇaḥ svarṇaṃ apākariṣṇuralinījiṣṇuḥ kacānāṃ cayaḥ |
bakṣojāvibhakumbhavibhramaharau gurvī nitambasthalī
vācāṃ hāri ca mārdavaṃ yuvatīṣu svābhāvikaṃ maṇḍanam || 2.5 ||
smitakiñcinmugdhaṃ saralataralo dṛṣṭivibhavaḥ
parispando vācāṃ abhinavavilāsoktisarasaḥ |
gatānāṃ ārambhaḥ kisalayitalīlāparikaraḥ
spṛśantyāstāruṇyaṃ kiṃ iva na hi ramyaṃ mṛgadṛśaḥ || 2.6 ||
draṣṭavyeṣu kiṃ uttamaṃ mṛgadṛśaḥ premaprasannaṃ mukhaṃ
ghrātaveṣvapi kiṃ tad​āsyapavanaḥ śravyeṣu kiṃ tadvacaḥ |
kiṃ svādyeṣu tad​oṣṭhapallavarasaḥ spṛśyeṣu kiṃ tadvapurdhyeyaṃ
kiṃ navayauvane sahṛdayaiḥ sarvatra tadvibhramāḥ || 2.7 ||
etāścaladvalayasaṃhatimekhalotthajhaṅkāra
nūpuraparājitarājahaṃsyaḥ |
kurvanti kasya na mano vivaśaṃ taruṇyo
vitrastamugdhahariṇīsadṛśaiḥ kaṭākṣaiḥ || 2.8 ||
kuṅkumapaṅkakalaṅkitadehā
gaurapayodharakampitahārā |
nūpurahaṃsaraṇatpadmā
kaṃ na vaśīkurute bhuvi rāmā || 2.9 ||
nūnaṃ hi te kavivarā viparītavāco
ye nityaṃ āhurabalā iti kāminīstāḥ |
yābhirvilolitaratārakadṛṣṭipātaiḥ
śakrādayo'pi vijitāstvabalāḥ kathaṃ tāḥ || 2.10 ||
nūnaṃ ājñākarastasyāḥ subhruvo makaradhvajaḥ |
yatastannetrasañcārasūciteṣu pravartate || 2.11 ||
keśāḥ saṃyaminaḥ śruterapi paraṃ pāraṃ gate locane
antarvaktraṃ api svabhāvaśucibhīḥ kīrṇaṃ dvijānāṃ gaṇaiḥ |
muktānāṃ satatādhivāsarucirau vakṣojakumbhāvimāvitthaṃ
tanvi vapuḥ praśāntaṃ api terāgaṃ karotyeva naḥ || 2.12 ||
mugdhe dhānuṣkatā keyaṃ apūrvā tvayi dṛśyate |
yayā vidhyasi cetāṃsi guṇaireva na sāyakaiḥ || 2.13 ||
sati pradīpe satyagnau satsu tārāravīnduṣu |
vinā me mṛgaśāvākṣyā tamobhūtaṃ idaṃ jagat || 2.14 ||
udvṛttaḥ stanabhāra eṣa tarale netre cale bhrūlate
rāgādhiṣṭhitaṃ oṣṭhapallavaṃ idaṃ kurvantu nāma vyathām |
saubhāgyākṣaramālikeva likhitā puṣpāyudhena svayaṃ
madhyasthāpi karoti tāpaṃ adhikaṃ romāvaliḥ kena sā || 2.15 ||
mukhena candrakāntena mahānīlaiḥ śiroruhaiḥ |
karābhyāṃ padmarāgābhyāṃ reje ratnamayīva sā || 2.16 ||
guruṇā stanabhāreṇa mukhacandreṇa bhāsvatā |
śanaiścarābhyāṃ pādābhyāṃ reje grahamayīva sā || 2.17 ||
tasyāḥ stanau yadi ghanau jaghanaṃ ca hāri
vaktraṃ ca cāru tava citta kiṃ ākulatvam |
puṇyaṃ kuruṣva yadi teṣu tavāsti vāñchā
puṇyairvinā na hi bhavanti samīhitārthāḥ || 2.18 ||
ime tāruṇyaśrīnavaparimalāḥ prauḍhasuratapratāpa
prārambhāḥ smaravijayadānapratibhuvaḥ |
ciraṃ cetaścorā abhinavavikāraikaguravo
vilāsavyāpārāḥ kiṃ api vijayante mṛgadṛśām || 2.19 ||
praṇayamadhurāḥ premodgārā rasāśrayatāṃ gatāḥ
phaṇitimadhurā mugdhaprāyāḥ prakāśitasammadāḥ |
prakṛtisubhagā visrambhārdrāḥ smarodayadāyinī
rahasi kiṃ api svairālāpā haranti mṛgīdṛśām || 2.20 ||
viśramya viśramya vanadrumāṇāṃ
chāyāsu tanvī vicacāra kācit |
stanottarīyeṇa karoddhṛtena
nivārayantī śaśino mayūkhān || 2.21 ||
adarśane darśanamātrakāmā
dṛṣṭvā pariṣvaṅgasukhaikalolā |
āliṅgitāyāṃ punarāyatākṣyāmāśāsmahe
vigrahayorabhedam || 2.22 ||
mālatī śirasi jṛmbhaṇaṃ mukhe
candanaṃ vapuṣi kuṅkumāvilam |
vakṣasi priyatamā madālasā
svarga eṣa pariśiṣṭa āgamaḥ || 2.23 ||
prāṅmāṃ eti manāganāgatarasaṃ jātābhilāṣāṃ tataḥ
savrīḍaṃ tadanu ślathodyamaṃ atha pradhvastadhairyaṃ punaḥ |
premārdraṃ spṛhaṇīyanirbhararahaḥ krīḍāpragalbhaṃ tato
niḥsaṅgāṅgavikarṣaṇādhikasukharamyaṃ kulastrīratam || 2.24 ||
urasi nipatitānāṃ srastadhammillakānāṃ
mukulitanayanānāṃ kiñcid​unmīlitānām |
upari suratakhedasvinnagaṇḍasthalānāmadhara
madhu vadhūnāṃ bhāgyavantaḥ pibanti || 2.25 ||
āmīlitanayanānāṃ yaḥ
surataraso'nu saṃvidaṃ bhāti |
mithurairmitho'vadhāritamavitatham
idaṃ eva kāmanirbarhaṇam || 2.26 ||
idaṃ anucitaṃ akramaśca puṃsāṃ
yadiha jarāsvapi manmathā vikārāḥ |
tadapi ca na kṛtaṃ nitambinīnāṃ
stanapatanāvadhi jīvitaṃ rataṃ vā || 2.27 ||
rājastṛṣṇāmburāśerna hi jagati gataḥ kaścidevāvasānaṃ
ko vārtho'rthaiḥ prabhūtaiḥ svavapuṣi galite yauvane sānurāge |
gacchāmaḥ sadma yāvadvikasitanayanendīvarālokinīnāmākramyākramya
rūpaṃ jhaṭiti na jarayā lupyate preyasīnām || 2.28 ||
rāgasyāgāraṃ ekaṃ narakaśatamahāduḥkhasamprāptiheturmohasyotpatti
bījaṃ jaladharapaṭalaṃ jñānatārādhipasya |
kandarpasyaikamitraṃ prakaṭitavividhaspaṣṭadoṣaprabandhaṃ
loke'sminna hyarthavrajakulabhavanayauvanādanyadasti || 2.29 ||
śṛṅgāradrumanīrade prasṛmarakrīḍārasasrotasi
pradyumnapriyabāndhave caturavāṅmuktāphalodanvati |
tanvīnetracakorapāvanavidhau saubhāgyalakṣmīnidhau
dhanyaḥ ko'pi na vikriyāṃ kalayati prāpte nave yauvane || 2.30 ||
saṃsāre'sminnasāre kunṛpatibhavanadvārasevākalaṅkavyāsaṅga
vyastadhairyaṃ kathaṃ amaladhiyo mānasaṃ saṃvidadhyuḥ |
yadyetāḥ prodyad​indudyutinicayabhṛto na syurambhojanetrāḥ
preṅkhatkāñcīkalāpāḥ stanabharavinamanmadhyabhājastaruṇyaḥ || 2.31 ||
siddhādhyāsitakandare haravṛṣaskandhāvarugṇadrume
gaṅgādhautaśilātale himavataḥ sthāne sthite śreyasi |
kaḥ kurvīta śiraḥ praṇāmamalinaṃ mlānaṃ manasvī jano
yadvitrastakuraṅgaśāvanayanā na syuḥ smarāstraṃ striyaḥ || 2.32 ||
saṃsāra tava paryantapadavī na davīyasī |
antarā dustarā na syuryadi te madirekṣaṇām || 2.33 ||
diśa vanahariṇībhyo vaṃśakāṇḍacchavīnāṃ
kavalaṃ upalakoṭicchinnamūlaṃ kuśānām |
śakayuvatikapolāpāṇḍutāmbūlavallīdalam
aruṇanakhāgraiḥ pāṭitaṃ vā vadhūbhyaḥ || 2.34 ||
asārāḥ sarve te virativirasāḥ pāpaviṣayā
jugupsyantāṃ yadvā nanu sakaladoṣāspadaṃ iti |
tathāpyetadbhūmau nahi parahitātpuṇyaṃ adhikaṃ
na cāsminsaṃsāre kuvalayadṛśo ramyaṃ aparam || 2.35 ||
etatkāmaphalo loke yaddvayorekacittatā |
anyacittakṛte kāme śavayoriva saṅgamaḥ || 2.35.1 ||
mātsaryaṃ utsārya vicārya kāryamāryāḥ
samaryādaṃ idaṃ vadantu |
sevyā nitambāḥ kiṃ u bhūdharāṇāmata
smarasmeravilāsinīnām || 2.36 ||
saṃsāre svapnasāre pariṇatitarale dve gatī paṇḍitānāṃ
tattvajñānāmṛtāmbhaḥplavalalitadhiyāṃ yātu kālaḥ kathañcit |
no cenmugdhāṅganānāṃ stanajaghanaghanābhogasambhoginīnāṃ
sthūlopasthasthalīṣu sthagitakaratalasparśalīlodyamānām || 2.37 ||
āvāsaḥ kriyatāṃ gaṅge pāpahāriṇi vāriṇi |
stanadvaye taruṇyā vā manohāriṇi hāriṇi || 2.38 ||
kiṃ iha bahubhiruktairyuktiśūnyaiḥ pralāpairdvayam
iha puruṣāṇāṃ sarvadā sevanīyam |
abhinavamadalīlālālasaṃ sundarīṇāṃ
stanabharaparikhinnaṃ yauvanaṃ vā vanaṃ vā || 2.39 ||
satyaṃ janā vacmi na pakṣapātāl
lokeṣu saptasvapi tathyaṃ etat |
nānyanmanohāri nitambinībhyo
duḥkhaikaheturna ca kaścidanyaḥ || 2.40 ||
kāntetyutpalalocaneti vipulaśroṇībharetyunnamatpīnottuṅga
payodhareti samukhāmbhojeti subhrūriti |
dṛṣṭvā mādyati modate'bhiramate prastauti vidvānapi
pratyakṣāśucibhastrikāṃ striyaṃ aho mohasya duśceṣṭitam || 2.41 ||
smṛtā bhavati tāpāya dṛṣṭā conmādakāriṇī |
spṛṣṭā bhavati mohāya sā nāma dayitā katham || 2.42 ||
tāvadevāmṛtamayī yāvallocanagocarā |
cakṣuṣpathādatītā tu viṣādapyatiricyate || 2.43 ||
nāmṛtaṃ na viṣaṃ kiñcidetāṃ muktvā nitambinīm |
saivāmṛtalatā raktā viraktā viṣavallarī || 2.44 ||
āvartaḥ saṃśayānāṃ avinayabhuvanaṃ paṭṭaṇaṃ sāhasānāṃ
doṣāṇāṃ sannidhānaṃ kapaṭaśatamayaṃ kṣetraṃ apratyayānām |
svargadvārasya vighno narakapuramukha sarvamāyākaraṇḍaṃ
strīyantraṃ kena sṛṣṭaṃ viṣaṃ amṛtamayaṃ prāṇilokasya pāśaḥ || 2.45 ||
no satyena mṛgāṅka eṣa vadanībhūto na cendīvaradvandvaṃ
locanatāṃ gata na kanakairapyaṅgayaṣṭiḥ kṛtā |
kintvevaṃ kavibhiḥ pratāritamanāstattvaṃ vijānannapi
tvaṅmāṃsāsthimayaṃ vapurmṛgadṛśāṃ mando janaḥ sevate || 2.46 ||
līlāvatīnāṃ sahajā vilāsāsta
eva mūḍhasya hṛdi sphuranti |
rāgo nalinyā hi nisargasiddhastatra
bhramtyeva vṛthā ṣaḍ​aṅghriḥ || 2.47 ||
sammohayanti madayanti viḍambayanti
nirbhartsyanti ramayanti viṣādayanti |
etāḥ praviśya sadayaṃ hṛdayaṃ narāṇāṃ
kiṃ nāma vāmanayanā na samācaranti || 2.47.1 ||
yadetatpūrṇendudyutiharaṃ udārākṛti paraṃ
mukhābjaṃ tanvaṅgyāḥ kila vasati yatrādharamadhu |
idaṃ tatkiṃ pākadrumaphalaṃ idānīṃ atirasavyatīte'smin
kāle viṣaṃ iva bhaviṣytyasukhadam || 2.48 ||
unmīlattrivalītaraṅganilayā prottuṅgapīnastanadvandvenodgata
cakravākayugalā vaktrāmbujodbhāsinī |
kāntākāradharā nadīyaṃ abhitaḥ krūrātra nāpekṣate
saṃsārārṇavamajjanaṃ yadi tadā dūreṇa santyajyatām || 2.49 ||
jalpanti sārdhaṃ anyena paśyantyanyaṃ savibhramāḥ |
hṛdgataṃ cintayantyanyaṃ priyaḥ ko nāma yoṣitām || 2.50 ||
madhu tiṣṭhati vāci yoṣitāṃ hṛdi hālāhalaṃ eva kevalam |
ata​eva nipīyate'dharo hṛdayaṃ muṣṭibhireva tāḍyate || 2.51 ||
apasara sakhe dūrādasmātkaṭākṣaviṣānalāt
prakṛtiviṣamādyoṣitsarpādvilāsaphaṇābhṛtaḥ |
itaraphaṇinā daṣṭaḥ śakyaścikitsituṃ auṣadhaiścatur
vanitābhogigrastaṃ hi mantriṇaḥ || 2.52 ||
vistāritaṃ makaraketanadhīvareṇa
strīsañjñitaṃ baḍiśaṃ atra bhavāmburāśau |
yenācirāttad​adharāmiṣalolamartya
matsyānvikṛṣya vipacatyanurāgavahnau || 2.53 ||
kāminīkāyakāntāre kucaparvatadurgame |
mā sañcara manaḥ pāntha tatrāste smarataskaraḥ || 2.54 ||
vyāḍīrgheṇa calena vaktragatinā tejasvinā bhoginā
nīlābjadyutināhinā paraṃ ahaṃ dṛṣṭo na taccakṣuṣā |
dṛṣṭe santi cikitsakā diśi diśi prāyeṇa dhanārthino
mugdhākṣakṣaṇavīkṣitasya na hi me vaidyo na cāpyauṣadham || 2.55 ||
iha hi madhuragītaṃ nṛtyaṃ etadraso'yaṃ
sphurati parimalo'sau sparśa eṣa stanānām |
iti hataparamārthairindriyairbhrāmyamāṇaḥ
svahitakaraṇadhūrtaiḥ pañcabhirvañcito'smi || 2.56 ||
na gamyo mantrāṇāṃ na ca bhavati bhaiṣajyaviṣayo
na cāpi pradhvaṃsaṃ vrajati vividhaiḥ śāntikaśataiḥ |
bhramāveśādaṅge kaṃ api vidadhadbhaṅgaṃ asakṛt
smarāpasmāro'yaṃ bhramayati dṛśaṃ ghūrṇayati ca || 2.57 ||
jāty​andhāya ca durmukhāya ca jarājīrṇā khilāṅgāya ca
grāmīṇāya ca duṣkulāya ca galatkuṣṭhābhibhūtāya ca |
yacchantīṣu manoharaṃ nijavapulakṣmīlavaśraddhayā
paṇyastrīṣu vivekakalpalatikāśastrīṣu rājyeta kaḥ || 2.58 ||
veśyāsau madanajvālā
rūpe'ndhanavivardhitā |
kāmibhiryatra hūyante
yauvanāni dhanāni ca || 2.59 ||
kaścumbati kulapuruṣo veśyādharapallavaṃ manojñaṃ api |
cārabhaṭacoraceṭakanaṭaviṭaniṣṭhīvanaśarāvam || 2.60 ||
dhanyāsta eva dhavalāyatalocanānāṃ
tāruṇyadarpaghanapīnapayodharāṇām |
kṣāmodaropari lasattrivalīlatānāṃ
dṛṣṭvākṛtiṃ vikṛtiṃ eti mano na yeṣām || 2.61 ||
bāle līlāmukulitaṃ amī mantharā dṛṣṭipātāḥ
kiṃ kṣipyante viramavirama vyartha eṣa śramaste |
sampratyanye vayaṃ uparataṃ bālyaṃ āsthā vanānte
kṣīṇo mohastṛṇaṃ iva jagajjālaṃ ālokayāmaḥ || 2.62 ||
iyaṃ bālā māṃ pratyanavarataṃ indīvaradalaprabhā
cīraṃ cakṣuḥ kṣipati kiṃ abhipretaṃ anayā |
gato moho'smākaṃ smaraśabarabāṇavyatikarajvara
jvālā śāntā tadapi na varākī viramati || 2.63 ||
kiṃ kandarpa karaṃ kadarthayasi re kodaṇḍaṭaṅkāritaṃ
re re kokila komalaṃ kalaravaṃ kiṃ vā vṛthā jalpasi |
mugdhe snigdhavidagdhacārumadhurairlolaiḥ kaṭākṣairalaṃ
cetaścumbitacandracūḍacaraṇadhyānāmṛtaṃ vartate || 2.64 ||
virahe'pi saṅgamaḥ khalu
parasparaṃ saṅgataṃ mano yeṣām |
hṛdayaṃ api vighaṭṭitaṃ cet
saṅgī virahaṃ viśeṣayati || 2.65 ||
kiṃ gatena yadi sā na jīvati
prāṇiti priyatamā tathāpi kim |
ityudīkṣya navameghamālikāṃ
na prayāti pathikaḥ svamandiram || 2.66 ||
viramata budhā yoṣitsaṅgātsukhātkṣaṇabhaṅgurāt
kuruta karuṇāmaitrīprajñāvadhūjanasaṅgamam |
na khalu narake hārākrāntaṃ ghanastanamaṇḍalaṃ
śaraṇaṃ athavā śroṇībimbaṃ raṇanmaṇimekhalam || 2.67 ||
yadā yogābhyāsavyasanakṛśayorātmamanasoravicchinnā
maitrī sphurati kṛtinastasya kiṃ u taiḥ |
priyāṇāṃ ālāpairadharamadhubhirvaktravidhubhiḥ
saniśvāsāmodaiḥ sakucakalaśāśleṣasurataiḥ || 2.68 ||
yadāsīdajñānaṃ smaratimirasañcārajanitaṃ
tadā dṛṣṭanārīmayaṃ idaṃ aśeṣaṃ jagaditi |
idānīṃ asmākaṃ paṭutaravivekāñjanajuṣāṃ
samībhūtā dṛṣṭistribhuvanaṃ api brahma manute || 2.69 ||
tāvadeva kṛtināṃ api sphuratyeṣa
nirmalavivekadīpakaḥ |
yāvadeva na kuraṅgacakṣuṣāṃ
tāḍyate caṭulalocanāñcalaiḥ || 2.70 ||
vacasi bhavati saṅgatyāgaṃ uddiśya vārtā
śrutimukharamukhānāṃ kevalaṃ paṇḍitānām |
jaghanaṃ aruṇaratnagranthikāñcīkalāpaṃ
kuvalayanayanānāṃ ko vihātuṃ samarthaḥ || 2.71 ||
svaparapratārako'sau
nindati yo'līkapaṇḍito yuvatīḥ |
yasmāttapaso'pi phalaṃ
svargaḥ svarge'pi cāpsarasaḥ || 2.72 ||
mattebhakumbhadalane bhuvi santi dhīrāḥ
kecitpracaṇḍamṛgarājavadhe'pi dakṣāḥ |
kintu bravīmi balināṃ purataḥ prasahya
kandarpadarpadalane viralā manuṣyāḥ || 2.73 ||
sanmārge tāvadāste prabhavati ca narastāvadevendriyāṇāṃ
lajjāṃ tāvadvidhatte vinayaṃ api samālambate tāvadeva |
bhrūcāpākṛṣṭamuktāḥ śravaṇapathagatā nīlapakṣmāṇa ete
yāvallīlāvatīnāṃ hṛdi na dhṛtimuṣo dṛṣṭibāṇāḥ patanti || 2.74 ||
unmattapremasaṃrambhād
ārabhante yad​aṅganāḥ |
tatra pratyūhaṃ ādhātuṃ
brahmāpi khalu kātaraḥ || 2.75 ||
tāvanmahattvaṃ pāṇḍityaṃ
kulīnatvaṃ vivekitā |
yāvajjvalati nāṅgeṣu
hataḥ pañceṣupāvakaḥ || 2.76 ||
śāstrajño'pi prathitavinayo'pyātmabodho'pi bāḍhaṃ
saṃsāre'sminbhavati viralo bhājanaṃ sadgatīnām |
yenaitasminnirayanagaradvāraṃ udghāṭayantī
vāmākṣīṇāṃ bhavati kuṭilā bhrūlatā kuñcikeva || 2.77 ||
kṛśaḥ kāṇaḥ khañjaḥ śravaṇarahitaḥ pucchavikalo
vraṇī pūyaklinnaḥ kṛmikulaśatairāvṛtatanuḥ |
kṣudhā kṣāmo jīrṇaḥ piṭharakakapālārpitagalaḥ
śunīṃ anveti śvā hataṃ api ca hantyeva madanaḥ || 2.78 ||
strīmudrāṃ kusumāyudhasya jayinīṃ sarvārthasampatkarīṃ
ye mūḍhāḥ pravihāya yānti kudhiyo mithyāphalānveṣiṇaḥ |
te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ
kecitpañcaśikhīkṛtāśca jaṭilāḥ kāpālikāścāpare || 2.79 ||
viśvāmitraparāśaraprabhṛtayo vātāmbuparṇāśanāste'pi
strīmukhapaṅkajaṃ sulalitaṃ dṛṣṭvaiva mohaṃ gatāḥ |
śālyannaṃ saghṛtaṃ payodadhiyutaṃ ye bhuñjate mānavāsteṣām
indriyanigraho yadi bhavedvindhyaḥ plavetsāgare || 2.80 ||
parimalabhṛto vātāḥ śākhā navāṅkurakoṭayo
madhuravirutotkaṇṭhā vācaḥ priyāḥ pikapakṣiṇām |
viralasuratasvedodgārā vadhūvadanendavaḥ
prasarati madhau rātryāṃ jāto na kasya guṇodayaḥ || 2.81 ||
madhurayaṃ madhurairapi kokilā
kalaravairmalayasya ca vāyubhiḥ |
virahiṇaḥ prahiṇasti śarīriṇo
vipadi hanta sudhāpi viṣāyate || 2.82 ||
āvāsaḥ kilakiñcitasya dayitāpārśve vilāsālasāḥ
karṇe kokilakāminīkalaravaḥ smero latāmaṇḍapaḥ |
goṣṭhī satkavibhiḥ samaṃ katipayairmugdhāḥ sudhāṃśoḥ karāḥ
keṣāñcitsukhayanti cātra hṛdayaṃ caitre vicitrāḥ kṣapāḥ || 2.83 ||
pāntha strīvirahānalāhutikalāṃ ātanvatī mañjarīmākandeṣu
pikāṅganābhiradhunā sotkaṇṭhaṃ ālokyate |
apyete navapāṭalāparimalaprāgbhārapāṭaccarā
vāntiklāntivitānatānavakṛtaḥ śrīkhaṇḍaśailānilāḥ || 2.84 ||
prathitaḥ praṇayavatīnāṃ
tāvatpadaṃ ātanotu hṛdi mānaḥ |
bhavati na yāvaccandanataru
surabhirmalayapavamānaḥ || 2.85 ||
sahakārakusumakesaranikara
bharāmodamūrcchitadig​ante |
madhuramadhuravidhuramadhupe
madhau bhavetkasya notkaṇṭhā || 2.86 ||
acchācchacandanarasārdratarā mṛgākṣyo
dhārāgṛhāṇi kusumāni ca kaumudī ca |
mando marutsumanasaḥ śuci harmyapṛṣṭhaṃ
grīṣme madaṃ ca madanaṃ ca vivardhayanti || 2.87 ||
srajo hṛdyāmodā vyajanapavanaścandrakiraṇāḥ
parāgaḥ kāsāro malayajarajaḥ śīdhu viśadam |
śuciḥ saudhotsaṅgaḥ pratanu vasanaṃ paṅkajadṛśo
nidāghaṛtāvetadvilasati labhante sukṛtinaḥ || 2.88 ||
sudhāśubhraṃ dhāma sphurad​amalaraśmiḥ śaśadharaḥ
priyāvaktrāmbhojaṃ malayajarajaścātisurabhiḥ |
srajo hṛdyāmodāstadidaṃ akhilaṃ rāgiṇi jane
karotyantaḥ kṣobhaṃ na tu viṣayasaṃsargavimukhe || 2.89 ||
taruṇīveṣoddīpitakāmā
vikasajjātīpuṣpasugandhiḥ |
unnatapīnapayodharabhārā
prāvṛṭtanute kasya na harṣam || 2.90 ||
viyad​upacitameghaṃ bhūmayaḥ kandalinyo
navakuṭajakadambāmodino gandhavāhāḥ |
śikhikulakalakekārāvaramyā vanāntāḥ
sukhinaṃ asukhinaṃ vā sarvaṃ utkaṇṭhayanti || 2.91 ||
upari ghanaṃ ghanapaṭalaṃ
tiryaggirayo'pi nartitamayūrāḥ |
kṣitirapi kandaladhavalā
dṛṣṭiṃ pathikaḥ kva pātayati || 2.92 ||
ito vidyudvallīvilasitaṃ itaḥ ketakitaroḥ
sphurangandhaḥ prodyajjaladaninadasphūrjitaṃ itaḥ |
itaḥ kekikrīḍākalakalaravaḥ pakṣmaladṛśāṃ
kathaṃ yāsyantyete virahadivasāḥ sambhṛtarasāḥ || 2.93 ||
asūcisañcāre tamasi nabhasi prauḍhajaladadhvanipraye
tasmin patati dṛśadāṃ nīranicaye |
idaṃ saudāminyāḥ kanakakamanīyaṃ vilasitaṃ
mudaṃ ca glāniṃ ca prathayati pathiṣveva sudṛśām || 2.94 ||
āsāreṇa na harmyataḥ priyatamairyātuṃ bahiḥ śakyate
śītotkampanimittaṃ āyatadṛśā gāḍhaṃ samāliṅgyate |
jātāḥ śīkaraśītalāśca marutoratyantakhedacchido
dhanyānāṃ bata durdinaṃ sudinatāṃ yāti priyāsaṅgame || 2.95 ||
ardhaṃ suptvā niśāyāḥ sarabhasasuratāyāsasannaślathāṅgaprodbhūtāsahya
tṛṣṇo madhumadanirato harmyapṛṣṭhe vivikte |
sambhogaklāntakāntāśithilabhujalatāvarjitaṃ karkarīto
jyotsnābhinnācchadhāraṃ pibati na salilaṃ śāradaṃ mandapuṇyaḥ || 2.96 ||
hemante dadhidugdhasarpiraśanā māñjiṣṭhavāsobhṛtaḥ
kāśmīradravasāndradigdhavapuṣaśchinnā vicitrai rataiḥ |
vṛttorustanakāminojanakṛtāśleṣā gṛhābhyantare
tāmbūlīdalapūgapūritamukhā dhanyāḥ sukhaṃ śerate || 2.97 ||
praduyatprauḍhapriyaṅgudyutibhṛti vikasatkundamādyaddvirephe
kāle prāleyavātapracalavilasitodāramandāradhāmni |
yeṣāṃ no kaṇṭhalagnā kṣaṇaṃ api tuhinakṣodadakṣā mṛgākṣī
tesāṃ āyāmayāmā yamasadanasamā yāminī yāti yūnām || 2.98 ||
cumbanto gaṇḍabhittīralakavati mukhe sītkṛtānyādadhānā
vakṣaḥsūtkañcukeṣu stanabharapulakodbhedaṃ āpādayantaḥ |
ūrūnākampayantaḥ pṛthujaghanataṭātsraṃsayanto'ṃśukāni
vyaktaṃ kāntājanānāṃ viṭacaritabhṛtaḥ śaiśirā vānti vātāḥ || 2.99 ||
keśānākulayandṛśo mukulayanvāso balādākṣipannātanvan
pulakodgamaṃ prakaṭayannāvegakampaṃ śanaiḥ |
bāraṃ bāraṃ udārasītkṛtakṛto dantacchadānpīḍayan
prāyaḥ śaiśira eṣa samprati marutkāntāsu kāntāyate || 2.100 ||
yadyasya nāsti ruciraṃ tasmiṃstasya spṛhā manojñe'pi |
ramaṇīye'pi sudhāṃśau na manaḥkāmaḥ sarojinyāḥ || 2.101 ||
vairāgye sañcaratyeko nītau bhramati cāparaḥ |
śṛṅgāre ramate kaścidbhuvi bhedāḥ parasparam || 2.102 ||