📄 Save this Stotram as PDF Click the button to open the Save dialog
How to save: 1 Click "Save as PDF" 2 A dialog opens 3 Choose "Save as PDF" as printer 4 Click Save
शिवानन्द लहरि
Shivananda Lahari
Shiva Lahari Adi Shankaracharya Devanagari
कलाभ्यां चूडालङ्कृत-शशिकलाभ्यां निजतपः-
-फलाभ्यां भक्तेषु प्रकटित-फलाभ्यां भवतु मे ।
शिवाभ्या-मस्तोक-त्रिभुवन-शिवाभ्यां हृदि पुन-
-र्भवाभ्या-मानन्द-स्फुरदनुभवाभ्यां नतिरियम् ॥ 1 ॥
गलन्ती शम्भो त्वच्चरित-सरितः किल्बिषरजो
दलन्ती धीकुल्या-सरणिषु पतन्ती विजयताम् ।
दिशन्ती संसार-भ्रमण-परितापोपशमनं
वसन्ती मच्चेतोह्रदभुवि शिवानन्दलहरी ॥ 2 ॥
त्रयीवेद्यं हृद्यं त्रिपुर-हरमाद्यं त्रिनयनं
जटाभारोदारं चलदुरगहारं मृगधरम् ।
महादेवं देवं मयि सदयभावं पशुपतिं
चिदालम्बं साम्बं शिवमति-विडम्बं हृदि भजे ॥ 3 ॥
सहस्रं वर्तन्ते जगति विबुधाः क्षुद्रफलदा
न मन्ये स्वप्ने वा तदनुसरणं तत्कृतफलम् ।
हरि-ब्रह्मादीना-मपि निकट-भाजामसुलभं
चिरं याचे शम्भो शिव तव पदाम्भोज-भजनम् ॥ 4 ॥
स्मृतौ शास्त्रे वैद्ये शकुन-कविता-गानफणितौ
पुराणे मन्त्रे वा स्तुति-नटन-हास्येष्वचतुरः ।
कथं राज्ञां प्रीतिर्भवति मयि कोऽहं पशुपते
पशुं मां सर्वज्ञ प्रथित कृपया पालय विभो ॥ 5 ॥
घटो वा मृत्पिण्डो-ऽप्यणुरपि च धूमोऽग्निरचलः
पटो वा तन्तुर्वा परिहरति किं घोरशमनम् ।
वृथा कण्ठक्षोभं वहसि तरसा तर्कवचसा
पदाम्भोजं शम्भोर्भज परमसौख्यं व्रज सुधीः ॥ 6 ॥
मनस्ते पादाब्जे निवसतु वचः स्तोत्रफणितौ
करौ चाभ्यर्चायां श्रुतिरपि कथा कर्णनविधौ ।
तव ध्याने बुद्धिर्नयनयुगलं मूर्तिविभवे [बुद्धिः नयनयुगलं]
पर-ग्रन्थान्कैर्वा परमशिव जाने परमतः ॥ 7 ॥
यथा बुद्धिः शुक्तौ रजतमिति काचाश्मनि मणि- [मणिः जले]
-र्जले पैष्टे क्षीरं भवति मृगतृष्णा-सु सलिलम् ।
तथा देवभ्रान्त्या भजति भवदन्यं जडजनो
महादेवेशं त्वां मनसि च न मत्वा पशुपते ॥ 8 ॥
गभीरे कासारे विशति विजने घोरविपिने
विशाले शैले च भ्रमति कुसुमार्थं जडमतिः ।
समर्प्यैकं चेतः सरसिजमु-मानाथ भवते
सुखे-नावस्थातुं जन इह न जानाति किमहो ॥ 9 ॥
नरत्वं देवत्वं नगवन-मृगत्वं मशकता
पशुत्वं कीटत्वं भवतु विहगत्वादि जननम् ।
सदा त्वत्पादाब्ज-स्मरण-परमानन्दलहरी-
-विहारासक्तं चेद्धृदयमिह किं तेन वपुषा ॥ 10 ॥
वटुर्वा गेही वा यतिरपि जटी वा तदितरो
नरो वा यः कश्चिद्भवतु भव किं तेन भवति ।
यदीयं हृत्पद्मं यदि भवदधीनं पशुपते
तदीयस्त्वं शम्भो भवसि भवभारं च वहसि ॥ 11 ॥
गुहायां गेहे वा बहिरपि वने वाऽद्रिशिखरे
जले वा वह्नौ वा वसतु वसतेः किं वद फलम् ।
सदा यस्यैवान्तः-करणमपि शम्भो तव पदे
स्थितं चेद्योगोऽसौ स च परमयोगी स च सुखी ॥ 12 ॥
असारे संसारे निज-भजनदूरे जडधिया
भ्रमन्तं मामन्धं परमकृपया पातुमुचितम् ।
मदन्यः को दीनस्तव कृपण-रक्षातिनिपुण- [रक्षातिनिपुणः त्वदन्यः]
-स्त्वदन्यः को वा मे त्रिजगति शरण्यः पशुपते ॥ 13 ॥
प्रभुस्त्वं दीनानां खलु परमबन्धुः पशुपते
प्रमुख्योऽहं तेषामपि किमुत बन्धुत्वमनयोः ।
त्वयैव क्षन्तव्याः शिव मदपराधाश्च सकलाः
प्रयत्ना-त्कर्तव्यं मदवनमियं बन्धुसरणिः ॥ 14 ॥
उपेक्षा नो चेत्किं न हरसि भवद्ध्यान-विमुखां
दुराशा-भूयिष्ठां विधिलिपि-मशक्तो यदि भवान् ।
शिरस्तद्वैधात्रं ननखलु सुवृत्तं पशुपते
कथं वा निर्यत्नं करनख-मुखेनैव लुलितम् ॥ 15 ॥
विरिञ्चि-र्दीर्घायु-र्भवतु भवता तत्परशिर- [तत्परशिरः चतुष्कं]
-श्चतुष्कं संरक्ष्यं स खलु भुवि दैन्यं लिखितवान् ।
विचारः को वा मां विशद कृपया पाति शिव ते
कटाक्षव्यापारः स्वयमपि च दीनावनपरः ॥ 16 ॥
फलाद्वा पुण्यानां मयि करुणया वा त्वयि विभो
प्रसन्नेऽपि स्वामिन् भवदमल-पादाब्ज-युगलम् ।
कथं पश्येयं मां स्थगयति नमः सम्भ्रमजुषां
निलिम्पानां श्रेणि-र्निज-कनक-माणिक्य-मकुटैः ॥ 17 ॥
त्वमेको लोकानां परमफलदो दिव्यपदवीं
वहन्तस्त्वन्मूलां पुनरपि भजन्ते हरिमुखाः ।
कियद्वा दाक्षिण्यं तव शिव मदाशा च कियती
कदा वा मद्रक्षां वहसि करुणा-पूरितदृशा ॥ 18 ॥
दुराशा-भूयिष्ठे दुरधिप-गृहद्वार-घटके
दुरन्ते संसारे दुरितनिलये दुःखजनके ।
मदायासं किं न व्यपनयसि कस्योप-कृतये
वदेयं प्रीतिश्चेत्तव शिव कृतार्थाः खलु वयम् ॥ 19 ॥
सदा मोहाटव्यां चरति युवतीनां कुचगिरौ
नटत्याशा-शाखा-स्वटति झटिति स्वैरमभितः ।
कपालिन् भिक्षो मे हृदय-कपिमत्यन्त-चपलं
दृढं भक्त्या बद्ध्वा शिव भवदधीनं कुरु विभो ॥ 20 ॥
धृति-स्तम्भाधारां दृढ-गुण-निबद्धां सगमनां
विचित्रां पद्माढ्यां प्रतिदिवस-सन्मार्ग-घटिताम् ।
स्मरारे मच्चेतः-स्फुट-पटकुटीं प्राप्य विशदां
जय स्वामिन् शक्त्या सह शिव गणैः सेवित विभो ॥ 21 ॥
प्रलोभाद्यैरर्थाहरण-परतन्त्रो धनिगृहे [प्रलोभाद्यैः अर्थाहरण-परतन्त्रो]
प्रवेशोद्युक्तः सन् भ्रमति बहुधा तस्करपते ।
इमं चेतश्चोरं कथमिह सहे शङ्कर विभो
तवाधीनं कृत्वा मयि निरपराधे कुरु कृपाम् ॥ 22 ॥
करोमि त्वत्पूजां सपदि सुखदो मे भव विभो
विधित्वं विष्णुत्वं दिशसि खलु तस्याः फलमिति ।
पुनश्च त्वां द्रष्टुं दिवि भुवि वहन्पक्षि-मृगता-
-मदृष्ट्वा तत्खेदं कथमिह सहे शङ्कर विभो ॥ 23 ॥
कदा वा कैलासे कनकमणिसौधे सह गणै- [सह गणैः वसन्]
-र्वसन् शम्भोरग्रे स्फुट-घटित-मूर्धाञ्जलिपुटः ।
विभो साम्ब स्वामि-न्परमशिव पाहीति निगद-
-न्विधातॄणां कल्पान् क्षणमिव विनेष्यामि सुखतः ॥ 24 ॥
स्तवै-र्ब्रह्मादीनां जयजय-वचोभिर्नियमिनां
गणानां केलीभिर्मदकलमहोक्षस्य ककुदि । [केलीभिः मदकल-महोक्षस्य]
स्थितं नीलग्रीवं त्रिनयन-मुमाश्लिष्ट-वपुषं
कदा त्वां पश्येयं करधृत-मृगं खण्ड-परशुम् ॥ 25 ॥
कदा वा त्वां दृष्ट्वा गिरिश तव भव्याङ्घ्रि युगलं
गृहीत्वा हस्ताभ्यां शिरसि नयने वक्षसि वहन् ।
समा श्लिष्या घ्राय स्फुट जलज गन्धान् परिमला-
-नलाभ्यां ब्रह्माद्यैर्मुदमनुभविष्यामि हृदये ॥ 26 ॥ [ब्रह्माद्यैः मुद-मनुभविष्यामि]
करस्थे हेमाद्रौ गिरिश निकटस्थे धनपतौ
गृहस्थे स्वर्भूजा मर सुरभि चिन्तामणिगणे ।
शिरःस्थे शीतांशौ चरणयुगलस्थेऽखिलशुभे
कमर्थं दास्येऽहं भवतु भवदर्थं मम मनः ॥ 27 ॥
सारूप्यं तव पूजने शिव महादेवेति सङ्कीर्तने
सामीप्यं शिवभक्ति-धुर्यजनता-साङ्गत्य-सम्भाषणे ॥
सालोक्यं च चराचरात्मकतनुध्याने भवानीपते
सायुज्यं मम सिद्धमत्र भवति स्वामिन् कृतार्थोऽस्म्यहम् ॥ 28 ॥
त्वत्पादाम्बुजमर्चयामि परमं त्वां चिन्तयाम्यन्वहं
त्वामीशं शरणं व्रजामि वचसा त्वामेव याचे विभो ।
वीक्षां मे दिश चाक्षुषीं सकरुणां दिव्यैश्चिरं प्रार्थितां
शम्भो लोकगुरो मदीयमनसः सौख्योपदेशं कुरु ॥ 29 ॥
वस्त्रोद्धूतविधौ सहस्रकरता पुष्पार्चने विष्णुता
गन्धे गन्धवहात्मताऽन्नपचने बर्हिर्मुखाध्यक्षता ।
पात्रे काञ्चनगर्भतास्ति मयि चेद्बालेन्दुचूडामणे
शुश्रूषां करवाणि ते पशुपते स्वामिंस्त्रिलोकीगुरो ॥ 30 ॥
नालं वा परमोपकारकमिदं त्वेकं पशूनां पते
पश्यन् कुक्षिगतांश्चराचरगणान् बाह्यस्थितान् रक्षितुम् ।
सर्वामर्त्यपलायनौषधमतिज्वालाकरं भीकरं
निक्षिप्तं गरलं गले न गिलितं नोद्गीर्णमेव त्वया ॥ 31 ॥
ज्वालोग्रः सकलामरातिभयदः क्ष्वेलः कथं वा त्वया
दृष्टः किं च करे धृतः करतले किं पक्वजम्बूफलम् ।
जिह्वायां निहितश्च सिद्धघुटिका वा कण्ठदेशे भृतः
किं ते नीलमणिर्विभूषणमयं शम्भो महात्मन् वद ॥ 32 ॥
नालं वा सकृदेव देव भवतः सेवा नतिर्वा नुतिः
पूजा वा स्मरणं कथाश्रवणमप्यालोकनं मादृशाम् ।
स्वामिन्नस्थिरदेवतानुसरणायासेन किं लभ्यते
का वा मुक्तिरितः कुतो भवति चेत्किं प्रार्थनीयं तदा ॥ 33 ॥
किं ब्रूमस्तव साहसं पशुपते कस्यास्ति शम्भो भव-
-द्धैर्यं चेदृशमात्मनः स्थितिरियं चान्यैः कथं लभ्यते ।
भ्रश्यद्देवगणं त्रसन्मुनिगणं नश्यत्प्रपञ्चं लयं
पश्यन्निर्भय एक एव विहरत्यानन्दसान्द्रो भवान् ॥ 34 ॥
योगक्षेमधुरन्धरस्य सकलश्रेयःप्रदोद्योगिनो
दृष्टादृष्टमतोपदेशकृतिनो बाह्यान्तरव्यापिनः ।
सर्वज्ञस्य दयाकरस्य भवतः किं वेदितव्यं मया
शम्भो त्वं परमान्तरङ्ग इति मे चित्ते स्मराम्यन्वहम् ॥ 35 ॥
भक्तो भक्तिगुणावृते मुदमृतापूर्णे प्रसन्ने मनः
कुम्भे साम्ब तवाङ्घ्रिपल्लवयुगं संस्थाप्य संवित्फलम् ।
सत्वं मन्त्रमुदीरयन्निजशरीरागारशुद्धिं वहन्
पुण्याहं प्रकटीकरोमि रुचिरं कल्याणमापादयन् ॥ 36 ॥
आम्नायाम्बुधिमादरेण सुमनःसङ्घाः समुद्यन्मनो [समुद्यन्मनः]
मन्थानं दृढभक्तिरज्जुसहितं कृत्वा मथित्वा ततः ।
सोमं कल्पतरुं सुपर्वसुरभिं चिन्तामणिं धीमतां
नित्यानन्दसुधां निरन्तररमासौभाग्यमातन्वते ॥ 37 ॥
प्राक्पुण्याचलमार्गदर्शितसुधामूर्तिः प्रसन्नः शिवः
सोमः सद्गणसेवितो मृगधरः पूर्णस्तमोमोचकः ।
चेतः पुष्करलक्षितो भवति चेदानन्दपाथोनिधिः
प्रागल्भ्येन विजृम्भते सुमनसां वृत्तिस्तदा जायते ॥ 38 ॥
धर्मो मे चतुरङ्घ्रिकः सुचरितः पापं विनाशं गतं
कामक्रोधमदादयो विगलिताः कालाः सुखाविष्कृताः ।
ज्ञानानन्दमहौषधिः सुफलिता कैवल्यनाथे सदा
मान्ये मानसपुण्डरीकनगरे राजावतंसे स्थिते ॥ 39 ॥
धीयन्त्रेण वचोघटेन कविताकुल्योपकुल्याक्रमै- [कविताकुल्योपकुल्याक्रमैः]
-रानीतैश्च सदाशिवस्य चरिताम्भोराशिदिव्यामृतैः ।
हृत्केदारयुताश्च भक्तिकलमाः साफल्यमातन्वते
दुर्भिक्षान्मम सेवकस्य भगवन्विश्वेश भीतिः कुतः ॥ 40 ॥
पापोत्पातविमोचनाय रुचिरैश्वर्याय मृत्युञ्जय
स्तोत्रध्याननतिप्रदक्षिणसपर्यालोकनाकर्णने ।
जिह्वाचित्तशिरोङ्घ्रिहस्तनयनश्रोत्रैरहं प्रार्थितो
मामाज्ञापय तन्निरूपय मुहुर्मामेव मा मेऽवचः ॥ 41 ॥
गाम्भीर्यं परिखापदं घनधृतिः प्राकार उद्यद्गुण- [उद्यद्गुणस्तॊमः]
-स्तोमश्चाप्तबलं घनेन्द्रियचयो द्वाराणि देहे स्थितः ।
विद्या वस्तुसमृद्धिरित्यखिलसामग्रीसमेते सदा
दुर्गातिप्रियदेव मामकमनोदुर्गे निवासं कुरु ॥ 42 ॥
मा गच्छ त्वमितस्ततो गिरिश भो मय्येव वासं कुरु
स्वामिन्नादिकिरात मामकमनःकान्तारसीमान्तरे ।
वर्तन्ते बहुशो मृगा मदजुषो मात्सर्यमोहादय- [ मात्सर्यमोहादयः]
-स्तान्हत्वा मृगयाविनोदरुचिता लाभं च सम्प्राप्स्यसि ॥ 43 ॥
करलग्नमृगः करीन्द्रभङ्गो
घनशार्दूलविखण्डनोऽस्तजन्तुः ।
गिरिशो विशदाकृतिश्च चेतः-
-कुहरे पञ्चमुखोऽस्ति मे कुतो भीः ॥ 44 ॥
छन्दः शाखिशिखान्वितैर् [शाखिशिखान्वितैरः] द्विजवरैः संसेविते शाश्वते
सौख्यापादिनि खेदभेदिनि सुधासारैः फलैर्दीपिते ।
चेतःपक्षिशिखामणे त्यज वृथा अञ्चारमन्यैरलं
नित्यं शङ्कर पादपद्मयुगलीनीडे विहारं कुरु ॥ 45 ॥
आकीर्णे नखराजिकान्तिविभवै [नखराजिकान्तिविभवैः] रुद्यत्सुधावैभवै-[रुद्यत्सुधावैभवैः]
-राधौतेऽपि च पद्मरागललिते हंसव्रजैराश्रिते ।
नित्यं भक्तिवधूगणैश्च रहसि स्वेच्छाविहारं कुरु
स्थित्वा मानसराजहंस गिरिजानाथाङ्घ्रिसौधान्तरे ॥ 46 ॥
शम्भुध्यान वसन्तसङ्गिनि हृदारामेऽघजीर्णच्छदाः
स्रस्ता भक्तिलताच्छटा विलसिताः पुण्यप्रवालश्रिताः ।
दीप्यन्ते गुणकोरका जपवचःपुष्पाणि सद्वासना
ज्ञानानन्द सुधामरन्दलहरी संवित्फलाभ्युन्नतिः ॥ 47 ॥
नित्यानन्दरसालयं सुरमुनिस्वान्ताम्बुजाताश्रयं
स्वच्छं सद्द्विजसेवितं कलुषहृत्सद्वासना विष्कृतम् ।
शम्भुध्यान सरोवरं व्रज मनोहं सावतंस स्थिरं
किं क्षुद्रा श्रयपल्वल भ्रमण सञ्जातश्रमं प्राप्स्यसि ॥ 48 ॥
आनन्दामृत पूरिता हरपदां भोजा लवालोद्यता
स्थैर्योपघ्नमुपेत्य भक्तिलतिका शाखोप शाखान्विता ।
उच्छैर् मानस कायमान पटलीमाक्रम्य निष्कल्मषा
नित्याभीष्ट फलप्रदा भवतु मे सत्कर्म संवर्धिता ॥ 49 ॥
सन्ध्या रम्भ विजृम्भितं श्रुतिशिरः स्थानान्तराधि ष्ठितं
सप्रेम भ्रमराभिरामं असकृत् सद्वासना शोभितम् ।
भोगीन्द्रा भरणं समस्तसुमनः पूज्यं गुणाविष्कृतं
सेवे श्रीगिरि मल्लिकार्जुन महालिङ्गं शिवालिङ्गितम् ॥ 50 ॥
भृङ्गीच्छा नटनोत्कटः करमदग्राही स्फुरन् माधवा- [स्फुरन् माधवाव्ह्लादो]
-ह्लादो नादयुतो महासितवपुः पञ्चेषुणा चादृतः ।
सत्पक्षः सुमनो वनेषु स पुनः साक्षान्मदीये मनो-
-राजीवे भ्रमराधिपो विहरतां श्रीशैलवासी विभुः ॥ 51 ॥
कारुण्यामृत वर्षिणं घनविपद्ग्रीष्मच् छिदाकर्मठं
विद्यासस्य फलोदयाय सुमनः संसेव्य मिच्छाकृतिम् ।
नृत्यद् भक्त मयूरमद्रि निलयं चञ्चज्जटामण्डलं
शम्भो वाञ्छति नीलकन्धर सदा त्वां मे मनश्चातकः ॥ 52 ॥
आकाशेन शिखी समस्तफणिनां नेत्रा कलापी नता-[नतानुग्राहि]
-नुग्राहि प्रणवोपदे शनिनदैः केकीति यो गीयते ।
श्यामां शैलसमुद्भवां घनरुचिं दृष्ट्वा नटन्तं मुदा
वेदान्तोपवने विहाररसिकं तं नीलकण्ठं भजे ॥ 53 ॥
सन्ध्या घर्मदिनात्ययो हरिकराघात प्रभूतानक- [प्रभूतानकध्वानो ]
-ध्वानो वारिदगर्जितं दिविषदां दृष्टिच्छटा चञ्चला ।
भक्तानां परितोषबाष्प विततिर् वृष्टिर् मयूरी शिवा
यस्मिन्नुज्ज्वल ताण्डवं विजयते तं नीलकण्ठं भजे ॥ 54 ॥
आद्यायामित तेजसे श्रुतिपदैर्वेद्याय साध्याय ते
विद्यानन्दमयात्मने त्रिजगतः संरक्षणोद्योगिने ।
ध्येयायाखिलयोगिभिः सुरगणैर्गेयाय मायाविने
सम्यक्ताण्डव सम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 55 ॥
नित्याय त्रिगुणात्मने पुरजिते कात्यायनी श्रेयसे
सत्यायादि कुटुम्बिने मुनिमनः प्रत्यक्ष चिन्मूर्तये ।
मायासृष्ट जगत्त्रयाय सकलाम्नायान्तसञ्चारिणे
सायं ताण्डव सम्भ्रमाय जटिने सेयं नतिः शम्भवे ॥ 56 ॥
नित्यं स्वोदरपोषणाय सकलानुद्दिश्य वित्ताशया
व्यर्थं पर्यटनं करोमि भवतः सेवां न जाने विभो ।
मज्जन्मान्तर पुण्य पाक बलतस्त्वं शर्व सर्वान्तर- [सर्वान्तरः]
-स्तिष्ठस्येव हि तेन वा पशुपते ते रक्षणीयोऽस्म्यहम् ॥ 57 ॥
एको वारिज बान्धवः क्षितिनभो व्याप्तं तमो मण्डलं
भित्त्वा लोचन गोचरोऽपि भवति त्वं कोटि सूर्यप्रभः ।
वेद्यः किं न भवस्यहो घनतरं कीदृग्भवेन्मत्तम- [कीदृग्भवेन्मत्तमः]
-स्तत्सर्वं [तत्सर्वं] व्यपनीय मे पशुपते साक्षात्प्रसन्नो भव ॥ 58 ॥
हंसः पद्मवनं समिच्छति यथा नीलाम्बुदं चातकः
कोकः कोकनदप्रियं प्रतिदिनं चन्द्रं चकोरस्तथा ।
चेतो वाञ्छति मामकं पशुपते चिन्मार्गमृग्यं विभो
गौरीनाथ भवत्पदाब्ज युगलं कैवल्य सौख्यप्रदम् ॥ 59 ॥
रोधस्तोयहृतः श्रमेण पथिकश्छायां तरोर्वृष्टितो [तरोर्वृष्टितः]
भीतः स्वस्थगृहं गृहस्थमतिथिर् दीनः प्रभुं धार्मिकम् ।
दीपं सन्तमसाकुलश्च शिखिनं शीता वृतस्त्वं तथा
चेतः सर्वभयापहं व्रज सुखं शम्भोः पदाम्भोरुहम् ॥ 60 ॥
अङ्कोलं निज-बीज-सन्ततिरयस्कान्तोपलं [सन्ततिः अयस्कान्तोपलं] सूचिका
साध्वी नैजविभुं लता क्षितिरुहं सिन्धुः सरिद् वल्लभम् ।
प्राप्नोतीह यथा तथा पशुपतेः पादारविन्द द्वयं
चेतोवृत्ति रुपेत्य तिष्ठति सदा सा भक्ति रित्युच्यते ॥ 61 ॥
आनन्दाश्रुभिरातनोति पुलकं नैर्मल्यतश्छादनं
वाचा-शङ्खमुखे स्थितैश्च जठरापूर्तिं चरित्रामृतैः ।
रुद्राक्षैर् हसितेन देव वपुषो रक्षां भवद्भावना-
-पर्यङ्के विनिवेश्य भक्तिजननी भक्तार्भकं रक्षति ॥ 62 ॥
मार्गावर्तितपादुका पशुपतेरङ्गस्य कूर्चायते
गण्डूषाम्बुनिषेचनं पुररिपोर्दिव्याभिषेकायते ।
किञ्चि-द्भक्षित-मांस-शेषकबलं नव्योपहारायते
भक्तिः किं न करोत्यहो वनचरो भक्तावतंसायते ॥ 63 ॥
वक्षस्ताडनमन्तकस्य कठिनापस्मारसम्मर्दनं
भूभृत्पर्यटनं नमत्सुरशिरःकोटीरसङ्घर्षणम् ।
कर्मेदं मृदुलस्य तावकपदद्वन्द्वस्य किं वोचितं
मच्चेतोमणिपादुकाविहरणं शम्भो सदाङ्गीकुरु ॥ 64 ॥
वक्षस्ताडनशङ्कया विचलितो वैवस्वतो निर्जराः
कोटीरोज्ज्वलरत्नदीपकलिकानीराजनं कुर्वते ।
दृष्ट्वा मुक्तिवधूस्तनोति निभृताश्लेषं भवानीपते
यच्चेतस्तव पादपद्मभजनं तस्येह किं दुर्लभम् ॥ 65 ॥
क्रीडार्थं सृजसि प्रपञ्चमखिलं क्रीडामृगास्ते जनाः
यत्कर्माचरितं मया च भवतः प्रीत्यै भवत्येव तत् ।
शम्भो स्वस्य कुतूहलस्य करणं मच्चेष्टितं निश्चितं
तस्मान्मामकरक्षणं पशुपते कर्तव्यमेव त्वया ॥ 66 ॥
बहुविधपरितोषबाष्पपूर-
-स्फुटपुलकाङ्कितचारुभोगभूमिम् ।
चिरपदफलकाङ्क्षिसेव्यमानां
परमसदाशिवभावनां प्रपद्ये ॥ 67 ॥
अमितमुदमृतं मुहुर्दुहन्तीं
विमलभवत्पदगोष्ठमावसन्तीम् ।
सदय पशुपते सुपुण्यपाकां
मम परिपालय भक्तिधेनुमेकाम् ॥ 68 ॥
जडता पशुता कलङ्किता
कुटिलचरत्वं च नास्ति मयि देव ।
अस्ति यदि राजमौले
भवदाभरणस्य नास्मि किं पात्रम् ॥ 69 ॥
अरहसि रहसि स्वतन्त्रबुद्ध्या
वरिवसितुं सुलभः प्रसन्नमूर्तिः ।
अगणितफलदायकः प्रभुर्मे
जगदधिको हृदि राजशेखरोऽस्ति ॥ 70 ॥
आरूढभक्तिगुणकुञ्चितभावचाप-
-युक्तैः शिवस्मरणबाणगणैरमोघैः ।
निर्जित्य किल्बिषरिपून्विजयी सुधीन्द्रः
सानन्दमावहति सुस्थिरराजलक्ष्मीम् ॥ 71 ॥
ध्यानाञ्जनेन समवेक्ष्य तमःप्रदेशं
भित्त्वा महाबलिभिरीश्वरनाममन्त्रैः ।
दिव्याश्रितं भुजगभूषणमुद्वहन्ति
ये पादपद्ममिह ते शिव ते कृतार्थाः ॥ 72 ॥
भूदारतामुदवहद्यदपेक्षया श्री-
-भूदार एव किमतः सुमते लभस्व ।
केदारमाकलितमुक्तिमहौषधीनां
पादारविन्दभजनं परमेश्वरस्य ॥ 73 ॥
आशापाशक्लेशदुर्वासनादि-
-भेदोद्युक्तैर्दिव्यगन्धैरमन्दैः ।
आशाशाटीकस्य पादारविन्दं
चेतःपेटीं वासितां मे तनोतु ॥ 74 ॥
कल्याणिनं सरसचित्रगतिं सवेगं
सर्वेङ्गितज्ञमनघं ध्रुवलक्षणाढ्यम् ।
चेतस्तुरङ्गमधिरुह्य चर स्मरारे
नेतः समस्तजगतां वृषभाधिरूढ ॥ 75 ॥
भक्तिर्महेशपदपुष्करमावसन्ती
कादम्बिनीव कुरुते परितोषवर्षम् ।
सम्पूरितो भवति यस्य मनस्तटाक-
-स्तज्जन्मसस्यमखिलं सफलं च नान्यत् ॥ 76 ॥
बुद्धिः स्थिरा भवितुमीश्वरपादपद्म-
-सक्ता वधूर्विरहिणीव सदा स्मरन्ती ।
सद्भावनास्मरणदर्शनकीर्तनादि
सम्मोहितेव शिवमन्त्रजपेन विन्ते ॥ 77 ॥
सदुपचारविधिष्वनुबोधितां
सविनयां सुहृदं समुपाश्रिताम् ।
मम समुद्धर बुद्धिमिमां प्रभो
वरगुणेन नवोढवधूमिव ॥ 78 ॥
नित्यं योगिमनः सरोजदलसञ्चारक्षमस्त्वत्क्रमः
शम्भो तेन कथं कठोरयमराड्वक्षःकवाटक्षतिः ।
अत्यन्तं मृदुलं त्वदङ्घ्रियुगलं हा मे मनश्चिन्तय-
-त्येतल्लोचनगोचरं कुरु विभो हस्तेन संवाहये ॥ 79 ॥
एष्यत्येष जनिं मनोऽस्य कठिनं तस्मिन्नटानीति म-
-द्रक्षायै गिरिसीम्नि कोमलपदन्यासः पुराभ्यासितः ।
नो चेद्दिव्यगृहान्तरेषु सुमनस्तल्पेषु वेद्यादिषु
प्रायः सत्सु शिलातलेषु नटनं शम्भो किमर्थं तव ॥ 80 ॥
कञ्चित्कालमुमामहेश भवतः पादारविन्दार्चनैः
कञ्चिद्ध्यानसमाधिभिश्च नतिभिः कञ्चित्कथाकर्णनैः ।
कञ्चित्कञ्चिदवेक्षणैश्च नुतिभिः कञ्चिद्दशामीदृशीं
यः प्राप्नोति मुदा त्वदर्पितमना जीवन् स मुक्तः खलु ॥ 81 ॥
बाणत्वं वृषभत्वमर्धवपुषा भार्यात्वमार्यापते
घोणित्वं सखिता मृदङ्गवहता चेत्यादि रूपं दधौ ।
त्वत्पादे नयनार्पणं च कृतवांस्त्वद्देहभागो हरिः
पूज्यात्पूज्यतरः स एव हि न चेत्को वा तदन्योऽधिकः ॥ 82 ॥
जननमृतियुतानां सेवया देवतानां
न भवति सुखलेशः संशयो नास्ति तत्र ।
अजनिममृतरूपं साम्बमीशं भजन्ते
य इह परमसौख्यं ते हि धन्या लभन्ते ॥ 83 ॥
शिव तव परिचर्यासन्निधानाय गौर्या
भव मम गुणधुर्यां बुद्धिकन्यां प्रदास्ये ।
सकलभुवनबन्धो सच्चिदानन्दसिन्धो
सदय हृदयगेहे सर्वदा संवस त्वम् ॥ 84 ॥
जलधिमथनदक्षो नैव पातालभेदी
न च वनमृगयायां नैव लुब्धः प्रवीणः ।
अशनकुसुमभूषावस्त्रमुख्यां सपर्यां
कथय कथमहं ते कल्पयानीन्दुमौले ॥ 85 ॥
पूजाद्रव्यसमृद्धयो विरचिताः पूजां कथं कुर्महे
पक्षित्वं न च वा किटित्वमपि न प्राप्तं मया दुर्लभम् ।
जाने मस्तकमङ्घ्रिपल्लवमुमाजाने न तेऽहं विभो
न ज्ञातं हि पितामहेन हरिणा तत्त्वेन तद्रूपिणा ॥ 86 ॥
अशनं गरलं फणी कलापो
वसनं चर्म च वाहनं महोक्षः ।
मम दास्यसि किं किमस्ति शम्भो
तव पादाम्बुजभक्तिमेव देहि ॥ 87 ॥
यदा कृताम्भोनिधिसेतुबन्धनः
करस्थलाधःकृतपर्वताधिपः ।
भवानि ते लङ्घितपद्मसम्भव-
-स्तदा शिवार्चास्तवभावनक्षमः ॥ 88 ॥
नतिभिर्नुतिभिस्त्वमीश पूजा-
-विधिभिर्ध्यानसमाधिभिर्न तुष्टः ।
धनुषा मुसलेन चाश्मभिर्वा
वद ते प्रीतिकरं तथा करोमि ॥ 89 ॥
वचसा चरितं वदामि शम्भो-
-रहमुद्योगविधासु तेऽप्रसक्तः ।
मनसाकृतिमीश्वरस्य सेवे
शिरसा चैव सदाशिवं नमामि ॥ 90 ॥
आद्याविद्या हृद्गता निर्गतासी-
-द्विद्या हृद्या हृद्गता त्वत्प्रसादात् ।
सेवे नित्यं श्रीकरं त्वत्पदाब्जं
भावे मुक्तेर्भाजनं राजमौले ॥ 91 ॥
दूरीकृतानि दुरितानि दुरक्षराणि
दौर्भाग्यदुःखदुरहङ्कृतिदुर्वचांसि ।
सारं त्वदीयचरितं नितरां पिबन्तं
गौरीश मामिह समुद्धर सत्कटाक्षैः ॥ 92 ॥
सोमकलाधरमौलौ
कोमलघनकन्धरे महामहसि ।
स्वामिनि गिरिजानाथे
मामकहृदयं निरन्तरं रमताम् ॥ 93 ॥
सा रसना ते नयने
तावेव करौ स एव कृतकृत्यः ।
या ये यौ यो भर्गं
वदतीक्षेते सदार्चतः स्मरति ॥ 94 ॥
अतिमृदुलौ मम चरणा-
-वतिकठिनं ते मनो भवानीश ।
इति विचिकित्सां सन्त्यज
शिव कथमासीद्गिरौ तथा वेशः ॥ 95 ॥
धैर्याङ्कुशेन निभृतं
रभसादाकृष्य भक्तिशृङ्खलया ।
पुरहर चरणालाने
हृदयमदेभं बधान चिद्यन्त्रैः ॥ 96 ॥
प्रचरत्यभितः प्रगल्भवृत्त्या
मदवानेष मनः करी गरीयान् ।
रिगृह्य नयेन भक्तिरज्वा
परम स्थाणु पदं दृढं नयामुम् ॥ 97 ॥
सर्वालङ्कारयुक्तां सरलपदयुतां साधुवृत्तां सुवर्णां
सद्भिः संस्तूयमानां सरसगुणयुतां लक्षितां लक्षणाढ्याम् ।
उद्यद्भूषाविशेषामुपगतविनयां द्योतमानार्थरेखां
कल्याणीं देव गौरीप्रिय मम कविताकन्यकां त्वं गृहाण ॥ 98 ॥
इदं ते युक्तं वा परमशिव कारुण्यजलधे
गतौ तिर्यग्रूपं तव पदशिरोदर्शनधिया ।
हरिब्रह्माणौ तौ दिवि भुवि चरन्तौ श्रमयुतौ
कथं शम्भो स्वामिन्कथय मम वेद्योऽसि पुरतः ॥ 99 ॥
स्तोत्रेणालमहं प्रवच्मि न मृषा देवा विरिञ्चादयः
स्तुत्यानां गणनाप्रसङ्गसमये त्वामग्रगण्यं विदुः ।
माहात्म्याग्रविचारणप्रकरणे धानातुषस्तोमव-
-द्धूतास्त्वां विदुरुत्तमोत्तमफलं शम्भो भवत्सेवकाः ॥ 100 ॥
इति श्रीमत्परमहंसपरिव्राजकाचार्यस्य श्रीगोविन्दभगवत्पूज्यपादशिष्यस्य श्रीमच्छङ्करभगवतः कृतौ शिवानन्दलहरी ॥
Roman (IAST) Transliteration
kalābhyāṃ cūḍālaṅkṛta-śaśikalābhyāṃ nijatapaḥ-
-phalābhyāṃ bhakteṣu prakaṭita-phalābhyāṃ bhavatu me |
śivābhyā-mastoka-tribhuvana-śivābhyāṃ hṛdi puna-
-rbhavābhyā-mānanda-sphuradanubhavābhyāṃ natiriyam || 1 ||
galantī śambho tvaccarita-saritaḥ kilbiṣarajo
dalantī dhīkulyā-saraṇiṣu patantī vijayatām |
diśantī saṃsāra-bhramaṇa-paritāpopaśamanaṃ
vasantī maccetohradabhuvi śivānandalaharī || 2 ||
trayīvedyaṃ hṛdyaṃ tripura-haramādyaṃ trinayanaṃ
jaṭābhārodāraṃ caladuragahāraṃ mṛgadharam |
mahādevaṃ devaṃ mayi sadayabhāvaṃ paśupatiṃ
cidālambaṃ sāmbaṃ śivamati-viḍambaṃ hṛdi bhaje || 3 ||
sahasraṃ vartante jagati vibudhāḥ kṣudraphaladā
na manye svapne vā tadanusaraṇaṃ tatkṛtaphalam |
hari-brahmādīnā-mapi nikaṭa-bhājāmasulabhaṃ
ciraṃ yāce śambho śiva tava padāmbhoja-bhajanam || 4 ||
smṛtau śāstre vaidye śakuna-kavitā-gānaphaṇitau
purāṇe mantre vā stuti-naṭana-hāsyeṣvacaturaḥ |
kathaṃ rājñāṃ prītirbhavati mayi ko'haṃ paśupate
paśuṃ māṃ sarvajña prathita kṛpayā pālaya vibho || 5 ||
ghaṭo vā mṛtpiṇḍo-'pyaṇurapi ca dhūmo'gniracalaḥ
paṭo vā tanturvā pariharati kiṃ ghoraśamanam |
vṛthā kaṇṭhakṣobhaṃ vahasi tarasā tarkavacasā
padāmbhojaṃ śambhorbhaja paramasaukhyaṃ vraja sudhīḥ || 6 ||
manaste pādābje nivasatu vacaḥ stotraphaṇitau
karau cābhyarcāyāṃ śrutirapi kathā karṇanavidhau |
tava dhyāne buddhirnayanayugalaṃ mūrtivibhave [buddhiḥ nayanayugalaṃ]
para-granthānkairvā paramaśiva jāne paramataḥ || 7 ||
yathā buddhiḥ śuktau rajatamiti kācāśmani maṇi- [maṇiḥ jale]
-rjale paiṣṭe kṣīraṃ bhavati mṛgatṛṣṇā-su salilam |
tathā devabhrāntyā bhajati bhavadanyaṃ jaḍajano
mahādeveśaṃ tvāṃ manasi ca na matvā paśupate || 8 ||
gabhīre kāsāre viśati vijane ghoravipine
viśāle śaile ca bhramati kusumārthaṃ jaḍamatiḥ |
samarpyaikaṃ cetaḥ sarasijamu-mānātha bhavate
sukhe-nāvasthātuṃ jana iha na jānāti kimaho || 9 ||
naratvaṃ devatvaṃ nagavana-mṛgatvaṃ maśakatā
paśutvaṃ kīṭatvaṃ bhavatu vihagatvādi jananam |
sadā tvatpādābja-smaraṇa-paramānandalaharī-
-vihārāsaktaṃ ceddhṛdayamiha kiṃ tena vapuṣā || 10 ||
vaṭurvā gehī vā yatirapi jaṭī vā taditaro
naro vā yaḥ kaścidbhavatu bhava kiṃ tena bhavati |
yadīyaṃ hṛtpadmaṃ yadi bhavadadhīnaṃ paśupate
tadīyastvaṃ śambho bhavasi bhavabhāraṃ ca vahasi || 11 ||
guhāyāṃ gehe vā bahirapi vane vā'driśikhare
jale vā vahnau vā vasatu vasateḥ kiṃ vada phalam |
sadā yasyaivāntaḥ-karaṇamapi śambho tava pade
sthitaṃ cedyogo'sau sa ca paramayogī sa ca sukhī || 12 ||
asāre saṃsāre nija-bhajanadūre jaḍadhiyā
bhramantaṃ māmandhaṃ paramakṛpayā pātumucitam |
madanyaḥ ko dīnastava kṛpaṇa-rakṣātinipuṇa- [rakṣātinipuṇaḥ tvadanyaḥ]
-stvadanyaḥ ko vā me trijagati śaraṇyaḥ paśupate || 13 ||
prabhustvaṃ dīnānāṃ khalu paramabandhuḥ paśupate
pramukhyo'haṃ teṣāmapi kimuta bandhutvamanayoḥ |
tvayaiva kṣantavyāḥ śiva madaparādhāśca sakalāḥ
prayatnā-tkartavyaṃ madavanamiyaṃ bandhusaraṇiḥ || 14 ||
upekṣā no cetkiṃ na harasi bhavaddhyāna-vimukhāṃ
durāśā-bhūyiṣṭhāṃ vidhilipi-maśakto yadi bhavān |
śirastadvaidhātraṃ nanakhalu suvṛttaṃ paśupate
kathaṃ vā niryatnaṃ karanakha-mukhenaiva lulitam || 15 ||
viriñci-rdīrghāyu-rbhavatu bhavatā tatparaśira- [tatparaśiraḥ catuṣkaṃ]
-ścatuṣkaṃ saṃrakṣyaṃ sa khalu bhuvi dainyaṃ likhitavān |
vicāraḥ ko vā māṃ viśada kṛpayā pāti śiva te
kaṭākṣavyāpāraḥ svayamapi ca dīnāvanaparaḥ || 16 ||
phalādvā puṇyānāṃ mayi karuṇayā vā tvayi vibho
prasanne'pi svāmin bhavadamala-pādābja-yugalam |
kathaṃ paśyeyaṃ māṃ sthagayati namaḥ sambhramajuṣāṃ
nilimpānāṃ śreṇi-rnija-kanaka-māṇikya-makuṭaiḥ || 17 ||
tvameko lokānāṃ paramaphalado divyapadavīṃ
vahantastvanmūlāṃ punarapi bhajante harimukhāḥ |
kiyadvā dākṣiṇyaṃ tava śiva madāśā ca kiyatī
kadā vā madrakṣāṃ vahasi karuṇā-pūritadṛśā || 18 ||
durāśā-bhūyiṣṭhe duradhipa-gṛhadvāra-ghaṭake
durante saṃsāre duritanilaye duḥkhajanake |
madāyāsaṃ kiṃ na vyapanayasi kasyopa-kṛtaye
vadeyaṃ prītiścettava śiva kṛtārthāḥ khalu vayam || 19 ||
sadā mohāṭavyāṃ carati yuvatīnāṃ kucagirau
naṭatyāśā-śākhā-svaṭati jhaṭiti svairamabhitaḥ |
kapālin bhikṣo me hṛdaya-kapimatyanta-capalaṃ
dṛḍhaṃ bhaktyā baddhvā śiva bhavadadhīnaṃ kuru vibho || 20 ||
dhṛti-stambhādhārāṃ dṛḍha-guṇa-nibaddhāṃ sagamanāṃ
vicitrāṃ padmāḍhyāṃ pratidivasa-sanmārga-ghaṭitām |
smarāre maccetaḥ-sphuṭa-paṭakuṭīṃ prāpya viśadāṃ
jaya svāmin śaktyā saha śiva gaṇaiḥ sevita vibho || 21 ||
pralobhādyairarthāharaṇa-paratantro dhanigṛhe [pralobhādyaiḥ arthāharaṇa-paratantro]
praveśodyuktaḥ san bhramati bahudhā taskarapate |
imaṃ cetaścoraṃ kathamiha sahe śaṅkara vibho
tavādhīnaṃ kṛtvā mayi niraparādhe kuru kṛpām || 22 ||
karomi tvatpūjāṃ sapadi sukhado me bhava vibho
vidhitvaṃ viṣṇutvaṃ diśasi khalu tasyāḥ phalamiti |
punaśca tvāṃ draṣṭuṃ divi bhuvi vahanpakṣi-mṛgatā-
-madṛṣṭvā tatkhedaṃ kathamiha sahe śaṅkara vibho || 23 ||
kadā vā kailāse kanakamaṇisaudhe saha gaṇai- [saha gaṇaiḥ vasan]
-rvasan śambhoragre sphuṭa-ghaṭita-mūrdhāñjalipuṭaḥ |
vibho sāmba svāmi-nparamaśiva pāhīti nigada-
-nvidhātṝṇāṃ kalpān kṣaṇamiva vineṣyāmi sukhataḥ || 24 ||
stavai-rbrahmādīnāṃ jayajaya-vacobhirniyamināṃ
gaṇānāṃ kelībhirmadakalamahokṣasya kakudi | [kelībhiḥ madakala-mahokṣasya]
sthitaṃ nīlagrīvaṃ trinayana-mumāśliṣṭa-vapuṣaṃ
kadā tvāṃ paśyeyaṃ karadhṛta-mṛgaṃ khaṇḍa-paraśum || 25 ||
kadā vā tvāṃ dṛṣṭvā giriśa tava bhavyāṅghri yugalaṃ
gṛhītvā hastābhyāṃ śirasi nayane vakṣasi vahan |
samā śliṣyā ghrāya sphuṭa jalaja gandhān parimalā-
-nalābhyāṃ brahmādyairmudamanubhaviṣyāmi hṛdaye || 26 || [brahmādyaiḥ muda-manubhaviṣyāmi]
karasthe hemādrau giriśa nikaṭasthe dhanapatau
gṛhasthe svarbhūjā mara surabhi cintāmaṇigaṇe |
śiraḥsthe śītāṃśau caraṇayugalasthe'khilaśubhe
kamarthaṃ dāsye'haṃ bhavatu bhavadarthaṃ mama manaḥ || 27 ||
sārūpyaṃ tava pūjane śiva mahādeveti saṅkīrtane
sāmīpyaṃ śivabhakti-dhuryajanatā-sāṅgatya-sambhāṣaṇe ||
sālokyaṃ ca carācarātmakatanudhyāne bhavānīpate
sāyujyaṃ mama siddhamatra bhavati svāmin kṛtārtho'smyaham || 28 ||
tvatpādāmbujamarcayāmi paramaṃ tvāṃ cintayāmyanvahaṃ
tvāmīśaṃ śaraṇaṃ vrajāmi vacasā tvāmeva yāce vibho |
vīkṣāṃ me diśa cākṣuṣīṃ sakaruṇāṃ divyaiściraṃ prārthitāṃ
śambho lokaguro madīyamanasaḥ saukhyopadeśaṃ kuru || 29 ||
vastroddhūtavidhau sahasrakaratā puṣpārcane viṣṇutā
gandhe gandhavahātmatā'nnapacane barhirmukhādhyakṣatā |
pātre kāñcanagarbhatāsti mayi cedbālenducūḍāmaṇe
śuśrūṣāṃ karavāṇi te paśupate svāmiṃstrilokīguro || 30 ||
nālaṃ vā paramopakārakamidaṃ tvekaṃ paśūnāṃ pate
paśyan kukṣigatāṃścarācaragaṇān bāhyasthitān rakṣitum |
sarvāmartyapalāyanauṣadhamatijvālākaraṃ bhīkaraṃ
nikṣiptaṃ garalaṃ gale na gilitaṃ nodgīrṇameva tvayā || 31 ||
jvālograḥ sakalāmarātibhayadaḥ kṣvelaḥ kathaṃ vā tvayā
dṛṣṭaḥ kiṃ ca kare dhṛtaḥ karatale kiṃ pakvajambūphalam |
jihvāyāṃ nihitaśca siddhaghuṭikā vā kaṇṭhadeśe bhṛtaḥ
kiṃ te nīlamaṇirvibhūṣaṇamayaṃ śambho mahātman vada || 32 ||
nālaṃ vā sakṛdeva deva bhavataḥ sevā natirvā nutiḥ
pūjā vā smaraṇaṃ kathāśravaṇamapyālokanaṃ mādṛśām |
svāminnasthiradevatānusaraṇāyāsena kiṃ labhyate
kā vā muktiritaḥ kuto bhavati cetkiṃ prārthanīyaṃ tadā || 33 ||
kiṃ brūmastava sāhasaṃ paśupate kasyāsti śambho bhava-
-ddhairyaṃ cedṛśamātmanaḥ sthitiriyaṃ cānyaiḥ kathaṃ labhyate |
bhraśyaddevagaṇaṃ trasanmunigaṇaṃ naśyatprapañcaṃ layaṃ
paśyannirbhaya eka eva viharatyānandasāndro bhavān || 34 ||
yogakṣemadhurandharasya sakalaśreyaḥpradodyogino
dṛṣṭādṛṣṭamatopadeśakṛtino bāhyāntaravyāpinaḥ |
sarvajñasya dayākarasya bhavataḥ kiṃ veditavyaṃ mayā
śambho tvaṃ paramāntaraṅga iti me citte smarāmyanvaham || 35 ||
bhakto bhaktiguṇāvṛte mudamṛtāpūrṇe prasanne manaḥ
kumbhe sāmba tavāṅghripallavayugaṃ saṃsthāpya saṃvitphalam |
satvaṃ mantramudīrayannijaśarīrāgāraśuddhiṃ vahan
puṇyāhaṃ prakaṭīkaromi ruciraṃ kalyāṇamāpādayan || 36 ||
āmnāyāmbudhimādareṇa sumanaḥsaṅghāḥ samudyanmano [samudyanmanaḥ]
manthānaṃ dṛḍhabhaktirajjusahitaṃ kṛtvā mathitvā tataḥ |
somaṃ kalpataruṃ suparvasurabhiṃ cintāmaṇiṃ dhīmatāṃ
nityānandasudhāṃ nirantararamāsaubhāgyamātanvate || 37 ||
prākpuṇyācalamārgadarśitasudhāmūrtiḥ prasannaḥ śivaḥ
somaḥ sadgaṇasevito mṛgadharaḥ pūrṇastamomocakaḥ |
cetaḥ puṣkaralakṣito bhavati cedānandapāthonidhiḥ
prāgalbhyena vijṛmbhate sumanasāṃ vṛttistadā jāyate || 38 ||
dharmo me caturaṅghrikaḥ sucaritaḥ pāpaṃ vināśaṃ gataṃ
kāmakrodhamadādayo vigalitāḥ kālāḥ sukhāviṣkṛtāḥ |
jñānānandamahauṣadhiḥ suphalitā kaivalyanāthe sadā
mānye mānasapuṇḍarīkanagare rājāvataṃse sthite || 39 ||
dhīyantreṇa vacoghaṭena kavitākulyopakulyākramai- [kavitākulyopakulyākramaiḥ]
-rānītaiśca sadāśivasya caritāmbhorāśidivyāmṛtaiḥ |
hṛtkedārayutāśca bhaktikalamāḥ sāphalyamātanvate
durbhikṣānmama sevakasya bhagavanviśveśa bhītiḥ kutaḥ || 40 ||
pāpotpātavimocanāya ruciraiśvaryāya mṛtyuñjaya
stotradhyānanatipradakṣiṇasaparyālokanākarṇane |
jihvācittaśiroṅghrihastanayanaśrotrairahaṃ prārthito
māmājñāpaya tannirūpaya muhurmāmeva mā me'vacaḥ || 41 ||
gāmbhīryaṃ parikhāpadaṃ ghanadhṛtiḥ prākāra udyadguṇa- [udyadguṇastòmaḥ]
-stomaścāptabalaṃ ghanendriyacayo dvārāṇi dehe sthitaḥ |
vidyā vastusamṛddhirityakhilasāmagrīsamete sadā
durgātipriyadeva māmakamanodurge nivāsaṃ kuru || 42 ||
mā gaccha tvamitastato giriśa bho mayyeva vāsaṃ kuru
svāminnādikirāta māmakamanaḥkāntārasīmāntare |
vartante bahuśo mṛgā madajuṣo mātsaryamohādaya- [ mātsaryamohādayaḥ]
-stānhatvā mṛgayāvinodarucitā lābhaṃ ca samprāpsyasi || 43 ||
karalagnamṛgaḥ karīndrabhaṅgo
ghanaśārdūlavikhaṇḍano'stajantuḥ |
giriśo viśadākṛtiśca cetaḥ-
-kuhare pañcamukho'sti me kuto bhīḥ || 44 ||
chandaḥ śākhiśikhānvitair [śākhiśikhānvitairaḥ] dvijavaraiḥ saṃsevite śāśvate
saukhyāpādini khedabhedini sudhāsāraiḥ phalairdīpite |
cetaḥpakṣiśikhāmaṇe tyaja vṛthā añcāramanyairalaṃ
nityaṃ śaṅkara pādapadmayugalīnīḍe vihāraṃ kuru || 45 ||
ākīrṇe nakharājikāntivibhavai [nakharājikāntivibhavaiḥ] rudyatsudhāvaibhavai-[rudyatsudhāvaibhavaiḥ]
-rādhaute'pi ca padmarāgalalite haṃsavrajairāśrite |
nityaṃ bhaktivadhūgaṇaiśca rahasi svecchāvihāraṃ kuru
sthitvā mānasarājahaṃsa girijānāthāṅghrisaudhāntare || 46 ||
śambhudhyāna vasantasaṅgini hṛdārāme'ghajīrṇacchadāḥ
srastā bhaktilatācchaṭā vilasitāḥ puṇyapravālaśritāḥ |
dīpyante guṇakorakā japavacaḥpuṣpāṇi sadvāsanā
jñānānanda sudhāmarandalaharī saṃvitphalābhyunnatiḥ || 47 ||
nityānandarasālayaṃ suramunisvāntāmbujātāśrayaṃ
svacchaṃ saddvijasevitaṃ kaluṣahṛtsadvāsanā viṣkṛtam |
śambhudhyāna sarovaraṃ vraja manohaṃ sāvataṃsa sthiraṃ
kiṃ kṣudrā śrayapalvala bhramaṇa sañjātaśramaṃ prāpsyasi || 48 ||
ānandāmṛta pūritā harapadāṃ bhojā lavālodyatā
sthairyopaghnamupetya bhaktilatikā śākhopa śākhānvitā |
ucchair mānasa kāyamāna paṭalīmākramya niṣkalmaṣā
nityābhīṣṭa phalapradā bhavatu me satkarma saṃvardhitā || 49 ||
sandhyā rambha vijṛmbhitaṃ śrutiśiraḥ sthānāntarādhi ṣṭhitaṃ
saprema bhramarābhirāmaṃ asakṛt sadvāsanā śobhitam |
bhogīndrā bharaṇaṃ samastasumanaḥ pūjyaṃ guṇāviṣkṛtaṃ
seve śrīgiri mallikārjuna mahāliṅgaṃ śivāliṅgitam || 50 ||
bhṛṅgīcchā naṭanotkaṭaḥ karamadagrāhī sphuran mādhavā- [sphuran mādhavāvhlādo]
-hlādo nādayuto mahāsitavapuḥ pañceṣuṇā cādṛtaḥ |
satpakṣaḥ sumano vaneṣu sa punaḥ sākṣānmadīye mano-
-rājīve bhramarādhipo viharatāṃ śrīśailavāsī vibhuḥ || 51 ||
kāruṇyāmṛta varṣiṇaṃ ghanavipadgrīṣmac chidākarmaṭhaṃ
vidyāsasya phalodayāya sumanaḥ saṃsevya micchākṛtim |
nṛtyad bhakta mayūramadri nilayaṃ cañcajjaṭāmaṇḍalaṃ
śambho vāñchati nīlakandhara sadā tvāṃ me manaścātakaḥ || 52 ||
ākāśena śikhī samastaphaṇināṃ netrā kalāpī natā-[natānugrāhi]
-nugrāhi praṇavopade śaninadaiḥ kekīti yo gīyate |
śyāmāṃ śailasamudbhavāṃ ghanaruciṃ dṛṣṭvā naṭantaṃ mudā
vedāntopavane vihārarasikaṃ taṃ nīlakaṇṭhaṃ bhaje || 53 ||
sandhyā gharmadinātyayo harikarāghāta prabhūtānaka- [prabhūtānakadhvāno ]
-dhvāno vāridagarjitaṃ diviṣadāṃ dṛṣṭicchaṭā cañcalā |
bhaktānāṃ paritoṣabāṣpa vitatir vṛṣṭir mayūrī śivā
yasminnujjvala tāṇḍavaṃ vijayate taṃ nīlakaṇṭhaṃ bhaje || 54 ||
ādyāyāmita tejase śrutipadairvedyāya sādhyāya te
vidyānandamayātmane trijagataḥ saṃrakṣaṇodyogine |
dhyeyāyākhilayogibhiḥ suragaṇairgeyāya māyāvine
samyaktāṇḍava sambhramāya jaṭine seyaṃ natiḥ śambhave || 55 ||
nityāya triguṇātmane purajite kātyāyanī śreyase
satyāyādi kuṭumbine munimanaḥ pratyakṣa cinmūrtaye |
māyāsṛṣṭa jagattrayāya sakalāmnāyāntasañcāriṇe
sāyaṃ tāṇḍava sambhramāya jaṭine seyaṃ natiḥ śambhave || 56 ||
nityaṃ svodarapoṣaṇāya sakalānuddiśya vittāśayā
vyarthaṃ paryaṭanaṃ karomi bhavataḥ sevāṃ na jāne vibho |
majjanmāntara puṇya pāka balatastvaṃ śarva sarvāntara- [sarvāntaraḥ]
-stiṣṭhasyeva hi tena vā paśupate te rakṣaṇīyo'smyaham || 57 ||
eko vārija bāndhavaḥ kṣitinabho vyāptaṃ tamo maṇḍalaṃ
bhittvā locana gocaro'pi bhavati tvaṃ koṭi sūryaprabhaḥ |
vedyaḥ kiṃ na bhavasyaho ghanataraṃ kīdṛgbhavenmattama- [kīdṛgbhavenmattamaḥ]
-statsarvaṃ [tatsarvaṃ] vyapanīya me paśupate sākṣātprasanno bhava || 58 ||
haṃsaḥ padmavanaṃ samicchati yathā nīlāmbudaṃ cātakaḥ
kokaḥ kokanadapriyaṃ pratidinaṃ candraṃ cakorastathā |
ceto vāñchati māmakaṃ paśupate cinmārgamṛgyaṃ vibho
gaurīnātha bhavatpadābja yugalaṃ kaivalya saukhyapradam || 59 ||
rodhastoyahṛtaḥ śrameṇa pathikaśchāyāṃ tarorvṛṣṭito [tarorvṛṣṭitaḥ]
bhītaḥ svasthagṛhaṃ gṛhasthamatithir dīnaḥ prabhuṃ dhārmikam |
dīpaṃ santamasākulaśca śikhinaṃ śītā vṛtastvaṃ tathā
cetaḥ sarvabhayāpahaṃ vraja sukhaṃ śambhoḥ padāmbhoruham || 60 ||
aṅkolaṃ nija-bīja-santatirayaskāntopalaṃ [santatiḥ ayaskāntopalaṃ] sūcikā
sādhvī naijavibhuṃ latā kṣitiruhaṃ sindhuḥ sarid vallabham |
prāpnotīha yathā tathā paśupateḥ pādāravinda dvayaṃ
cetovṛtti rupetya tiṣṭhati sadā sā bhakti rityucyate || 61 ||
ānandāśrubhirātanoti pulakaṃ nairmalyataśchādanaṃ
vācā-śaṅkhamukhe sthitaiśca jaṭharāpūrtiṃ caritrāmṛtaiḥ |
rudrākṣair hasitena deva vapuṣo rakṣāṃ bhavadbhāvanā-
-paryaṅke viniveśya bhaktijananī bhaktārbhakaṃ rakṣati || 62 ||
mārgāvartitapādukā paśupateraṅgasya kūrcāyate
gaṇḍūṣāmbuniṣecanaṃ puraripordivyābhiṣekāyate |
kiñci-dbhakṣita-māṃsa-śeṣakabalaṃ navyopahārāyate
bhaktiḥ kiṃ na karotyaho vanacaro bhaktāvataṃsāyate || 63 ||
vakṣastāḍanamantakasya kaṭhināpasmārasammardanaṃ
bhūbhṛtparyaṭanaṃ namatsuraśiraḥkoṭīrasaṅgharṣaṇam |
karmedaṃ mṛdulasya tāvakapadadvandvasya kiṃ vocitaṃ
maccetomaṇipādukāviharaṇaṃ śambho sadāṅgīkuru || 64 ||
vakṣastāḍanaśaṅkayā vicalito vaivasvato nirjarāḥ
koṭīrojjvalaratnadīpakalikānīrājanaṃ kurvate |
dṛṣṭvā muktivadhūstanoti nibhṛtāśleṣaṃ bhavānīpate
yaccetastava pādapadmabhajanaṃ tasyeha kiṃ durlabham || 65 ||
krīḍārthaṃ sṛjasi prapañcamakhilaṃ krīḍāmṛgāste janāḥ
yatkarmācaritaṃ mayā ca bhavataḥ prītyai bhavatyeva tat |
śambho svasya kutūhalasya karaṇaṃ macceṣṭitaṃ niścitaṃ
tasmānmāmakarakṣaṇaṃ paśupate kartavyameva tvayā || 66 ||
bahuvidhaparitoṣabāṣpapūra-
-sphuṭapulakāṅkitacārubhogabhūmim |
cirapadaphalakāṅkṣisevyamānāṃ
paramasadāśivabhāvanāṃ prapadye || 67 ||
amitamudamṛtaṃ muhurduhantīṃ
vimalabhavatpadagoṣṭhamāvasantīm |
sadaya paśupate supuṇyapākāṃ
mama paripālaya bhaktidhenumekām || 68 ||
jaḍatā paśutā kalaṅkitā
kuṭilacaratvaṃ ca nāsti mayi deva |
asti yadi rājamaule
bhavadābharaṇasya nāsmi kiṃ pātram || 69 ||
arahasi rahasi svatantrabuddhyā
varivasituṃ sulabhaḥ prasannamūrtiḥ |
agaṇitaphaladāyakaḥ prabhurme
jagadadhiko hṛdi rājaśekharo'sti || 70 ||
ārūḍhabhaktiguṇakuñcitabhāvacāpa-
-yuktaiḥ śivasmaraṇabāṇagaṇairamoghaiḥ |
nirjitya kilbiṣaripūnvijayī sudhīndraḥ
sānandamāvahati susthirarājalakṣmīm || 71 ||
dhyānāñjanena samavekṣya tamaḥpradeśaṃ
bhittvā mahābalibhirīśvaranāmamantraiḥ |
divyāśritaṃ bhujagabhūṣaṇamudvahanti
ye pādapadmamiha te śiva te kṛtārthāḥ || 72 ||
bhūdāratāmudavahadyadapekṣayā śrī-
-bhūdāra eva kimataḥ sumate labhasva |
kedāramākalitamuktimahauṣadhīnāṃ
pādāravindabhajanaṃ parameśvarasya || 73 ||
āśāpāśakleśadurvāsanādi-
-bhedodyuktairdivyagandhairamandaiḥ |
āśāśāṭīkasya pādāravindaṃ
cetaḥpeṭīṃ vāsitāṃ me tanotu || 74 ||
kalyāṇinaṃ sarasacitragatiṃ savegaṃ
sarveṅgitajñamanaghaṃ dhruvalakṣaṇāḍhyam |
cetasturaṅgamadhiruhya cara smarāre
netaḥ samastajagatāṃ vṛṣabhādhirūḍha || 75 ||
bhaktirmaheśapadapuṣkaramāvasantī
kādambinīva kurute paritoṣavarṣam |
sampūrito bhavati yasya manastaṭāka-
-stajjanmasasyamakhilaṃ saphalaṃ ca nānyat || 76 ||
buddhiḥ sthirā bhavitumīśvarapādapadma-
-saktā vadhūrvirahiṇīva sadā smarantī |
sadbhāvanāsmaraṇadarśanakīrtanādi
sammohiteva śivamantrajapena vinte || 77 ||
sadupacāravidhiṣvanubodhitāṃ
savinayāṃ suhṛdaṃ samupāśritām |
mama samuddhara buddhimimāṃ prabho
varaguṇena navoḍhavadhūmiva || 78 ||
nityaṃ yogimanaḥ sarojadalasañcārakṣamastvatkramaḥ
śambho tena kathaṃ kaṭhorayamarāḍvakṣaḥkavāṭakṣatiḥ |
atyantaṃ mṛdulaṃ tvadaṅghriyugalaṃ hā me manaścintaya-
-tyetallocanagocaraṃ kuru vibho hastena saṃvāhaye || 79 ||
eṣyatyeṣa janiṃ mano'sya kaṭhinaṃ tasminnaṭānīti ma-
-drakṣāyai girisīmni komalapadanyāsaḥ purābhyāsitaḥ |
no ceddivyagṛhāntareṣu sumanastalpeṣu vedyādiṣu
prāyaḥ satsu śilātaleṣu naṭanaṃ śambho kimarthaṃ tava || 80 ||
kañcitkālamumāmaheśa bhavataḥ pādāravindārcanaiḥ
kañciddhyānasamādhibhiśca natibhiḥ kañcitkathākarṇanaiḥ |
kañcitkañcidavekṣaṇaiśca nutibhiḥ kañciddaśāmīdṛśīṃ
yaḥ prāpnoti mudā tvadarpitamanā jīvan sa muktaḥ khalu || 81 ||
bāṇatvaṃ vṛṣabhatvamardhavapuṣā bhāryātvamāryāpate
ghoṇitvaṃ sakhitā mṛdaṅgavahatā cetyādi rūpaṃ dadhau |
tvatpāde nayanārpaṇaṃ ca kṛtavāṃstvaddehabhāgo hariḥ
pūjyātpūjyataraḥ sa eva hi na cetko vā tadanyo'dhikaḥ || 82 ||
jananamṛtiyutānāṃ sevayā devatānāṃ
na bhavati sukhaleśaḥ saṃśayo nāsti tatra |
ajanimamṛtarūpaṃ sāmbamīśaṃ bhajante
ya iha paramasaukhyaṃ te hi dhanyā labhante || 83 ||
śiva tava paricaryāsannidhānāya gauryā
bhava mama guṇadhuryāṃ buddhikanyāṃ pradāsye |
sakalabhuvanabandho saccidānandasindho
sadaya hṛdayagehe sarvadā saṃvasa tvam || 84 ||
jaladhimathanadakṣo naiva pātālabhedī
na ca vanamṛgayāyāṃ naiva lubdhaḥ pravīṇaḥ |
aśanakusumabhūṣāvastramukhyāṃ saparyāṃ
kathaya kathamahaṃ te kalpayānīndumaule || 85 ||
pūjādravyasamṛddhayo viracitāḥ pūjāṃ kathaṃ kurmahe
pakṣitvaṃ na ca vā kiṭitvamapi na prāptaṃ mayā durlabham |
jāne mastakamaṅghripallavamumājāne na te'haṃ vibho
na jñātaṃ hi pitāmahena hariṇā tattvena tadrūpiṇā || 86 ||
aśanaṃ garalaṃ phaṇī kalāpo
vasanaṃ carma ca vāhanaṃ mahokṣaḥ |
mama dāsyasi kiṃ kimasti śambho
tava pādāmbujabhaktimeva dehi || 87 ||
yadā kṛtāmbhonidhisetubandhanaḥ
karasthalādhaḥkṛtaparvatādhipaḥ |
bhavāni te laṅghitapadmasambhava-
-stadā śivārcāstavabhāvanakṣamaḥ || 88 ||
natibhirnutibhistvamīśa pūjā-
-vidhibhirdhyānasamādhibhirna tuṣṭaḥ |
dhanuṣā musalena cāśmabhirvā
vada te prītikaraṃ tathā karomi || 89 ||
vacasā caritaṃ vadāmi śambho-
-rahamudyogavidhāsu te'prasaktaḥ |
manasākṛtimīśvarasya seve
śirasā caiva sadāśivaṃ namāmi || 90 ||
ādyāvidyā hṛdgatā nirgatāsī-
-dvidyā hṛdyā hṛdgatā tvatprasādāt |
seve nityaṃ śrīkaraṃ tvatpadābjaṃ
bhāve mukterbhājanaṃ rājamaule || 91 ||
dūrīkṛtāni duritāni durakṣarāṇi
daurbhāgyaduḥkhadurahaṅkṛtidurvacāṃsi |
sāraṃ tvadīyacaritaṃ nitarāṃ pibantaṃ
gaurīśa māmiha samuddhara satkaṭākṣaiḥ || 92 ||
somakalādharamaulau
komalaghanakandhare mahāmahasi |
svāmini girijānāthe
māmakahṛdayaṃ nirantaraṃ ramatām || 93 ||
sā rasanā te nayane
tāveva karau sa eva kṛtakṛtyaḥ |
yā ye yau yo bhargaṃ
vadatīkṣete sadārcataḥ smarati || 94 ||
atimṛdulau mama caraṇā-
-vatikaṭhinaṃ te mano bhavānīśa |
iti vicikitsāṃ santyaja
śiva kathamāsīdgirau tathā veśaḥ || 95 ||
dhairyāṅkuśena nibhṛtaṃ
rabhasādākṛṣya bhaktiśṛṅkhalayā |
purahara caraṇālāne
hṛdayamadebhaṃ badhāna cidyantraiḥ || 96 ||
pracaratyabhitaḥ pragalbhavṛttyā
madavāneṣa manaḥ karī garīyān |
rigṛhya nayena bhaktirajvā
parama sthāṇu padaṃ dṛḍhaṃ nayāmum || 97 ||
sarvālaṅkārayuktāṃ saralapadayutāṃ sādhuvṛttāṃ suvarṇāṃ
sadbhiḥ saṃstūyamānāṃ sarasaguṇayutāṃ lakṣitāṃ lakṣaṇāḍhyām |
udyadbhūṣāviśeṣāmupagatavinayāṃ dyotamānārtharekhāṃ
kalyāṇīṃ deva gaurīpriya mama kavitākanyakāṃ tvaṃ gṛhāṇa || 98 ||
idaṃ te yuktaṃ vā paramaśiva kāruṇyajaladhe
gatau tiryagrūpaṃ tava padaśirodarśanadhiyā |
haribrahmāṇau tau divi bhuvi carantau śramayutau
kathaṃ śambho svāminkathaya mama vedyo'si purataḥ || 99 ||
stotreṇālamahaṃ pravacmi na mṛṣā devā viriñcādayaḥ
stutyānāṃ gaṇanāprasaṅgasamaye tvāmagragaṇyaṃ viduḥ |
māhātmyāgravicāraṇaprakaraṇe dhānātuṣastomava-
-ddhūtāstvāṃ viduruttamottamaphalaṃ śambho bhavatsevakāḥ || 100 ||
iti śrīmatparamahaṃsaparivrājakācāryasya śrīgovindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kṛtau śivānandalaharī ||