📄 Save this Stotram as PDF Click the button to open the Save dialog
How to save: 1 Click "Save as PDF" 2 A dialog opens 3 Choose "Save as PDF" as printer 4 Click Save
1.7 - राजसूयानुब्राह्मणं - कृष्ण यजुर्वेद तैत्तिरीय ब्राह्मण पाठः - एतद् ब्राह्मणान्येव
1.7 - Rajasuyanubrahmanam - Krishna Yajurveda Taittiriya Brahmana Pathah - Etad Brahmananyeva
Krishna Vedic Devanagari
कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके सप्तमः प्रपाठकः - राजसूयानुब्राह्मणं
ओ-न्नमः परमात्मने, श्री महागणपतये नमः,
श्री गुरुभ्यो नमः । ह॒रिः॒ ओम् ॥
अनुवाकं 1 - शुनासीरीयेन्द्रतुरीयपञ्चावत्तीयापामार्गहोमाः
ए॒त-द्ब्रा᳚ह्मणान्ये॒व पञ्च॑ ह॒वीग्ंषि॑ । अथेन्द्रा॑य॒ शुना॒सीरा॑य पुरो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर्व॑पति । सं॒​वँ॒थ्स॒रो वा इन्द्रा॒ शुना॒सीरः॑ । सं॒​वँ॒थ्स॒रेणै॒वास्मा॒ अन्न॒मव॑ रुन्धे । वा॒य॒व्य॑-म्पयो॑ भवति । वा॒युर्वै वृष्ट्यै᳚ प्रदापयि॒ता । स ए॒वास्मै॒ वृष्टि॒-म्प्रदा॑पयति । सौ॒र्य॑ एक॑कपालो भवति । सूर्ये॑ण॒ वा अ॒मुष्मि॑ँल्लो॒के वृष्टि॑र्धृ॒ता । स ए॒वास्मै॒ वृष्टि॒-न्नि य॑च्छति ॥ 1 ॥
द्वा॒द॒श॒ग॒वग्ं सीर॒-न्दक्षि॑णा॒ समृ॑द्ध्यै । दे॒वा॒सु॒रा-स्सं​यँ॑त्ता आसन्न् । ते दे॒वा अ॒ग्निम॑ब्रुवन्न् । त्वया॑ वी॒रेणासु॑रान॒-भिभ॑वा॒मेति॑ । सो᳚-ऽब्रवीत् । त्रे॒धा-ऽहमा॒त्मानं॒-विँक॑रिष्य॒ इति॑ । स त्रे॒धा ऽऽत्मानं॒-व्यँ॑कुरुत । अ॒ग्नि-न्तृती॑यम् । रु॒द्र-न्तृती॑यम् । वरु॑ण॒-न्तृती॑यम् ॥ 2 ॥
सो᳚-ऽब्रवीत् । क इ॒द-न्तु॒रीय॒मिति॑ । अ॒हमितीन्द्रो᳚-ऽब्रवीत् ।
स-न्तु सृ॑जावहा॒ इति॑ । तौ सम॑सृजेताम् । स इन्द्र॑स्तु॒रीय॑-मभवत् । यदिन्द्र॑-स्तु॒रीय॒-मभ॑वत् । तदि॑न्द्र-तुरी॒यस्ये᳚न्द्र-तुरीय॒त्वम् । ततो॒ वै दे॒वा व्य॑जयन्त । यदि॑न्द्रतुरी॒य-न्नि॑रु॒प्यते॒ विजि॑त्यै ॥ 3 ॥
व॒हिनी॑ धे॒नु-र्दक्षि॑णा । य-द्व॒हिनी᳚ । तेना᳚ग्ने॒यी ।
य-द्गौः । तेन॑ रौ॒द्री । य-द्धे॒नुः । तेनै॒न्द्री । यथ्स्त्री स॒ती दा॒न्ता । तेन॑ वारु॒णी समृ॑द्ध्यै । प्र॒जाप॑ति-र्य॒ज्ञम॑सृजत ॥ 4 ॥
तग्ं सृ॒ष्टग्ं रक्षाग्॑स्यजिघाग्ंसन्न् । स ए॒ताः प्र॒जाप॑ति-रा॒त्मनो॑ दे॒वता॒ निर॑मिमीत । ताभि॒र्वै स दि॒ग्भ्यो रक्षाग्ं॑सि॒ प्राणु॑दत । य-त्प॑ञ्चाव॒त्तीय॑-ञ्जु॒होति॑ । दि॒ग्भ्य ए॒व त-द्यज॑मानो॒ रक्षाग्ं॑सि॒ प्रणु॑दते । समू॑ढ॒ग्ं॒ रक्ष॒-स्सन्द॑ग्ध॒ग्ं॒ रक्ष॒ इत्या॑ह । रक्षाग्॑स्ये॒व सन्द॑हति । अ॒ग्नये॑ रक्षो॒घ्ने स्वाहेत्या॑ह । दे॒वता᳚भ्य ए॒व वि॑जिग्या॒नाभ्यो॑ भाग॒धेय॑-ङ्करोति । प्र॒ष्टि॒वा॒ही रथो॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ 5 ॥
इन्द्रो॑ वृ॒त्रग्ं ह॒त्वा । असु॑रा-न्परा॒भाव्य॑ । नमु॑चिमासु॒र-न्नाल॑भत । तग्ं श॒च्या॑-ऽगृह्णात् । तौ सम॑लभेताम् । सो᳚-ऽस्मा-द॒भिशु॑नतरो-ऽभवत् । सो᳚-ऽब्रवीत् । स॒धांग्ं सन्द॑धावहै । अथ॒ त्वा-ऽव॑ स्रक्ष्यामि । न मा॒ शुष्के॑ण॒ नार्द्रेण॑ हनः ॥ 6 ॥
न दिवा॒ न नक्त॒मिति॑ । स ए॒तम॒पा-म्फेन॑मसिञ्चत् । न वा ए॒ष शुष्को॒ नार्द्रो व्यु॑ष्टा ऽऽसीत् । अनु॑दित॒-स्सूर्यः॑ । न वा ए॒त-द्दिवा॒ न नक्त᳚म् । तस्यै॒तस्मि॑न् ँलो॒के । अ॒पा-म्फेने॑न॒ शिर॒ उद॑वर्तयत् । तदे॑न॒मन्व॑वर्तत । मित्र॑द्रु॒गिति॑ ॥ 7 ॥
स ए॒तान॑पामा॒र्गान॑जनयत् । तान॑जुहोत् । तैर्वै स रक्षा॒ग्॒स्यपा॑हत । यद॑पामार्ग हो॒मो भव॑ति । रक्ष॑सा॒-मप॑हत्यै । ए॒को॒ल् मु॒केन॑ यन्ति । तद्धि रक्ष॑सा-म्भाग॒धेय᳚म् । इ॒मा-न्दिशं॑-यँन्ति । ए॒षा वै रक्ष॑सा॒-न्दिक् । स्वाया॑मे॒व दि॒शि रक्षाग्ं॑सि हन्ति ॥ 8 ॥
स्वकृ॑त॒ इरि॑णे जुहोति प्रद॒रे वा᳚ । ए॒त-द्वै रक्ष॑सामा॒यत॑नम् । स्व ए॒वायत॑ने॒ रक्षाग्ं॑सि हन्ति । प॒र्ण॒मये॑न स्रु॒वेण॑ जुहोति । ब्रह्म॒ वै प॒र्णः । ब्रह्म॑णै॒व रक्षाग्ं॑सि हन्ति । दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इत्या॑ह । स॒वि॒तृप्र॑सूत ए॒व रक्षाग्ं॑सि हन्ति । ह॒तग्ं रक्षो ऽव॑धिष्म॒ रक्ष॒ इत्या॑ह । रक्ष॑सा॒ग्॒ स्तृत्यै᳚ । यद्वस्ते॒ त-द्दक्षि॑णा नि॒रव॑त्त्यै । अप्र॑तीक्ष॒मा य॑न्ति । रक्ष॑सा-म॒न्तर्​हि॑त्यै ॥ 9 ॥
(य॒च्छ॒ति॒ - वरु॑ण॒-न्तृती॑यं॒ - ँविजि॑त्या - असृजत॒ - समृ॑द्ध्यै - हनो॒ - मित्र॑द्रु॒गिति॑ - हन्ति॒ - स्तृत्यै॒ त्रीणि॑ च) (अ. 1)
अनुवाकं 2 - देविकावहवींषि
धा॒त्रे पु॑रो॒डाश॒-न्द्वाद॑शकपाल॒-न्निर्व॑पति । सं॒​वँ॒थ्स॒रो वै धा॒ता । सं॒​वँ॒थ्स॒रेणै॒वास्मै᳚ प्र॒जाः प्रज॑नयति । अन्वे॒वास्मा॒ अनु॑मतिर्मन्यते । रा॒ते रा॒का । प्र सि॑नीवा॒ली ज॑नयति । प्र॒जास्वे॒व प्रजा॑तासु कु॒ह्वा॑ वाच॑-न्दधाति । मि॒थु॒नौ गावौ॒ दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ना॒वै॒ष्ण॒व-मेका॑दशकपाल॒-न्निर्व॑पति । ऐ॒न्द्रा॒वै॒ष्ण॒व-मेका॑दशकपालम् ॥ 10 ॥
वै॒ष्ण॒व-न्त्रि॑कपा॒लम् । वी॒र्यं॑-वाँ अ॒ग्निः । वी॒र्य॑मिन्द्रः॑ । वी॒र्यं॑-विँष्णुः॑ । प्र॒जा ए॒व प्रजा॑ता वी॒र्ये᳚ प्रति॑ष्ठापयति । तस्मा᳚-त्प्र॒जा वी॒र्या॑वतीः । वा॒म॒न ऋ॑ष॒भो व॒ही दक्षि॑णा । यद्व॒ही । तेना᳚ग्ने॒यः । यदृ॑ष॒भः ॥ 11 ॥
तेनै॒न्द्रः । यद्वा॑म॒नः । तेन॑ वैष्ण॒व-स्समृ॑द्ध्यै । अ॒ग्नी॒षो॒मीय॒-मेका॑दशकपाल॒-न्निर्व॑पति । इ॒न्द्रा॒सो॒मीय॒-मेका॑दशकपालम् । सौ॒म्य-ञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । अ॒ग्निः प्र॒जाना᳚-म्प्रजनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति ॥ 12 ॥
अ॒ग्निः प्र॒जा-म्प्रज॑नयति । वृ॒द्धामिन्द्रः॒ प्रय॑च्छति । ब॒भ्रु-र्दक्षि॑णा॒ समृ॑द्ध्यै । सो॒मा॒पौ॒ष्ण-ञ्च॒रु-न्निर्व॑पति । ऐ॒न्द्रा॒पौ॒ष्ण-ञ्च॒रुम् । सोमो॒ वै रे॑तो॒धाः । पू॒षा प॑शू॒ना-म्प्र॑जनयि॒ता । वृ॒द्धाना॒मिन्द्रः॑ प्रदापयि॒ता । सोम॑ ए॒वास्मै॒ रेतो॒ दधा॑ति । पू॒षा प॒शू-न्प्रज॑नयति ॥ 13 ॥
वृ॒द्धानिन्द्रः॒ प्रय॑च्छति । पौ॒ष्णश्च॒रु-र्भ॑वति । इ॒यं-वैँ पू॒षा । अ॒स्यामे॒व प्रति॑ तिष्ठति । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । ब॒हु वै पुरु॑षो-ऽमे॒द्ध्य-मुप॑गच्छति । वै॒श्वा॒न॒र-न्द्वाद॑शकपाल॒-न्निर्व॑पति । सं॒​वँ॒थ्स॒रो वा अ॒ग्नि-र्वै᳚श्वान॒रः । सं॒​वँ॒थ्स॒रेणै॒वैनग्ग्॑ स्वदयति । हिर॑ण्य॒-न्दक्षि॑णा ॥ 14 ॥
प॒वित्रं॒-वैँ हिर॑ण्यम् । पु॒नात्ये॒वैन᳚म् । ब॒हु वै रा॑ज॒न्यो ऽनृ॑त-ङ्करोति । उप॑ जा॒म्यै हर॑ते । जि॒नाति॑ ब्राह्म॒णम् । वद॒त्यनृ॑तम् । अनृ॑ते॒ खलु॒ वै क्रि॒यमा॑णे॒ वरु॑णो गृह्णाति । वा॒रु॒णं-यँ॑व॒मय॑-ञ्च॒रु-न्निर्व॑पति । व॒रु॒ण॒पा॒शादे॒वैन॑-म्मुञ्चति । अश्वो॒ दक्षि॑णा । वा॒रु॒णो हि दे॒वत॒या-ऽश्व॒-स्समृ॑द्ध्यै ॥ 15 ॥
(ऐ॒न्द्रा॒वै॒ष्णा॒वमेका॑दशकपालं॒-ँयदृ॑ष॒भो- दधा॑ति-पू॒षा प॒शू-न्प्रज॑नयति॒-हिर॑ण्यं॒ दक्षि॑णा॒-दक्षि॒णैकं॑ च) (अ. 2)
अनुवाकं 3 - रत्निनां हवींषि
र॒त्निना॑मे॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । ए॒ते वै रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ए॒ते॑-ऽपादा॒तारः॑ । य ए॒व रा॒ष्ट्रस्य॑ प्रदा॒तारः॑ । ये॑-ऽपादा॒तारः॑ । त ए॒वास्मै॑ रा॒ष्ट्र-म्प्रय॑च्छन्ति । रा॒ष्ट्रमे॒व भ॑वति । य-थ्स॑मा॒हृत्य॑ नि॒र्वपे᳚त् । अर॑त्निन-स्स्युः । य॒था॒य॒थ-न्निर्व॑पति रत्नि॒त्वाय॑ ॥ 16 ॥
य-थ्स॒द्यो नि॒र्वपे᳚त् । याव॑ती॒मेके॑न ह॒विषा॒-ऽऽशिष॑मव रु॒न्धे । ताव॑ती॒मव॑ रुन्धीत । अ॒न्व॒ह-न्निर्व॑पति । भूय॑सीमे॒वाशिष॒मव॑ रुन्धे । भूय॑सो यज्ञक्र॒तूनुपै॑ति । बा॒र्॒ह॒स्प॒त्य-ञ्च॒रु-न्निर्व॑पति ब्र॒ह्मणो॑ गृ॒हे । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सग्ग्​श्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म॒न्वार॑म्भयति । शि॒ति॒पृ॒ष्ठो दक्षि॑णा॒ समृ॑द्ध्यै ॥ 17 ॥
ऐ॒न्द्र-मेका॑दशकपालग्ं राज॒न्य॑स्य गृ॒हे । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । ऋ॒ष॒भो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒दि॒त्य-ञ्च॒रु-म्महि॑ष्यै गृ॒हे । इ॒यं-वाँ अदि॑तिः । अ॒स्यामे॒व प्रति॑तिष्ठति । धे॒नु-र्दक्षि॑णा॒ समृ॑द्ध्यै । भगा॑य च॒रुं-वाँ॒वाता॑यै गृ॒हे । भग॑मे॒वास्मि॑-न्दधाति । विचि॑त्तगर्भा पष्ठौ॒ही दक्षि॑णा॒ समृ॑द्ध्यै ॥ 18 ॥
नै॒र्॒ऋ॒त-ञ्च॒रु-म्प॑रिवृ॒क्त्यै॑ गृ॒हे कृ॒ष्णानां᳚-व्रीँही॒णा-न्न॒खनि॑र्भिन्नम् । पा॒प्मान॑मे॒व निर्-ऋ॑ति-न्नि॒रव॑दयते । कृ॒ष्णा कू॒टा दक्षि॑णा॒ समृ॑द्ध्यै । आ॒ग्ने॒य-म॒ष्टाक॑पालग्ं सेना॒न्यो॑ गृ॒हे । सेना॑मे॒वास्य॒ सग्ग्​श्य॑ति । हिर॑ण्य॒-न्दक्षि॑णा॒ समृ॑द्ध्यै । वा॒रु॒ण-न्दश॑कपालग्ं सू॒तस्य॑ गृ॒हे । व॒रु॒ण॒स॒वमे॒वाव॑-रुन्धे । म॒हानि॑रष्टो॒ दक्षि॑णा॒ समृ॑द्ध्यै । मा॒रु॒तग्ं स॒प्तक॑पाल-ङ्ग्राम॒ण्यो॑ गृ॒हे ॥ 19 ॥
अन्नं॒-वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑-रुन्धे । पृश्ञि॒-र्दक्षि॑णा॒ समृ॑द्ध्यै । सा॒वि॒त्र-न्द्वाद॑शकपाल-ङ्क्ष॒त्तुर्गृ॒हे प्रसू᳚त्यै । उ॒प॒द्ध्व॒स्तो दक्षि॑णा॒ समृ॑द्ध्यै । आ॒श्वि॒न-न्द्वि॑कपा॒लग्ं स॑ग्रंही॒तुर्गृ॒हे । अ॒श्विनौ॒ वै दे॒वाना᳚-म्भि॒षजौ᳚ । ताभ्या॑मे॒वास्मै॑ भेष॒ज-ङ्क॑रोति । स॒वा॒त्यौ॑ दक्षि॑णा॒ समृ॑द्ध्यै । पौ॒ष्ण-ञ्च॒रु-म्भा॑गदु॒घस्य॑ गृ॒हे ॥ 20 ॥
अन्नं॒-वैँ पू॒षा । अन्न॑मे॒वाव॑ रुन्धे । श्या॒मो दक्षि॑णा॒ समृ॑द्ध्यै । रौ॒द्र-ङ्गा॑वीधु॒क-ञ्च॒रुम॑क्षावा॒पस्य॑ गृ॒हे । अ॒न्त॒त ए॒व रु॒द्र-न्नि॒रव॑दयते । श॒बल॒ उद्वा॑रो॒ दक्षि॑णा॒ समृ॑द्ध्यै । द्वाद॑शै॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः । सं॒​वँ॒थ्स॒रेणै॒वास्मै॑ रा॒ष्ट्रमव॑-रुन्धे । रा॒ष्ट्रमे॒व भ॑वति ॥ 21 ॥
यन्न प्र॑ति नि॒र्वपे᳚त् । र॒त्निन॑ आ॒शिषो-ऽव॑रुन्धीरन्न् । प्रति॒ निर्व॑पति । इन्द्रा॑य सु॒त्राम्णे॑ पुरो॒डाश॒-मेका॑दशकपालम् । इन्द्रा॑याग्ंहो॒मुचे᳚ । आ॒शिष॑ ए॒वाव॑रुन्धे । अ॒य-न्नो॒ राजा॑ वृत्र॒हा राजा॑ भू॒त्वा वृ॒त्रं-वँ॑द्ध्या॒दित्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । मै॒त्रा॒-बा॒र्॒ह॒स्प॒त्य-म्भ॑वति । श्वे॒तायै᳚ श्वे॒तव॑थ्सायै दु॒ग्धे ॥ 22 ॥
बा॒र्॒ह॒स्प॒त्ये मै॒त्रमपि॑ दधाति । ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्र-ञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म्प्रति॑ष्ठापयति । बा॒र्॒ह॒स्प॒त्येन॒ पूर्वे॑ण॒ प्रच॑रति । मु॒ख॒त ए॒वास्मै॒ ब्रह्म॒ सग्ग्​श्य॑ति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म॒न्वार॑म्भयति । स्व॒य॒-ङ्कृ॒ता वेदि॑र्भवति । स्व॒य॒दि॒न्न-म्ब॒र्॒हिः । स्व॒य॒कृ॒न्त इ॒द्ध्मः । अन॑भिजितस्या॒-भिजि॑त्यै । तस्मा॒-द्राज्ञा॒मर॑ण्य-म॒भिजि॑तम् । सैव श्वे॒ता श्वे॒तव॑थ्सा॒ दक्षि॑णा॒ समृ॑द्ध्यै ॥ 23 ॥
(र॒त्नि॒त्वाय॒ - समृ॑द्ध्यै - पष्ठौ॒हि दक्षि॑णा॒ समृ॑द्ध्यै - ग्राम॒ण्यो॑ गृ॒हे - भा॑गदु॒घस्य॑ गृ॒हे-भ॑वति - दु॒ग्धे॑ - ऽभिजि॑त्यै॒ द्वे च॑) (अ. 3)
अनुवाकं 4 - देवसुवां हवींषि
दे॒व॒सु॒वामे॒तानि॑ ह॒वीग्ंषि॑ भवन्ति । ए॒ताव॑न्तो॒ वै दे॒वानाग्ं॑ स॒वाः । त ए॒वास्मै॑ स॒वा-न्प्रय॑च्छन्ति । त ए॑नग्ं सुवन्ते । अ॒ग्निरे॒वैन॑-ङ्गृ॒हप॑तीनाग्ं सुवते । सोमो॒ वन॒स्पती॑नाम् । रु॒द्रः प॑शू॒नाम् । बृह॒स्पति॑-र्वा॒चाम् । इन्द्रो᳚ ज्ये॒ष्ठाना᳚म् । मि॒त्र-स्स॒त्याना᳚म् ॥ 24 ॥
वरु॑णो॒ धर्म॑पतीनाम् । ए॒तदे॒व सर्व॑-म्भवति । स॒वि॒ता त्वा᳚ प्रस॒वानाग्ं॑ सुवता॒मिति॒ हस्त॑-ङ्गृह्णाति॒ प्रसू᳚त्यै । ये दे॑वा देव॒सुव॒-स्स्थेत्या॑ह । य॒था॒ य॒जुरे॒वै तत् । म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒-ऽस्माक॑-म्ब्राह्म॒णाना॒ग्ं॒ राजेत्या॑ह । तस्मा॒-थ्सोम॑राजानो ब्राह्म॒णाः । प्रति॒ त्यन्नाम॑ रा॒ज्यम॑धा॒यीत्या॑ह ॥ 25 ॥
रा॒ज्यमे॒वास्मि॒-न्प्रति॑ दधाति । स्वा-न्त॒नुवं॒-वँरु॑णो अशिश्रे॒दित्या॑ह । व॒रु॒ण॒स॒वमे॒वा-व॑रुन्धे । शुचे᳚र्मि॒त्रस्य॒ व्रत्या॑ अभू॒मेत्या॑ह । शुचि॑मे॒वैनं॒-व्रँत्य॑-ङ्करोति । अम॑न्महि मह॒त ऋ॒तस्य॒ नामेत्या॑ह । म॒नु॒त ए॒वैन᳚म् । सर्वे॒ व्राता॒ वरु॑णस्या भूव॒न्नित्या॑ह । सर्व॑व्रातमे॒वैन॑-ङ्करोति । वि मि॒त्र एवै॒ररा॑ति-मतारी॒दित्या॑ह ॥ 26 ॥
अरा॑तिमे॒वैन॑-न्तारयति । असू॑षुदन्त य॒ज्ञिया॑ ऋ॒तेनेत्या॑ह । स्व॒दय॑त्ये॒वैन᳚म् । व्यु॑ त्रि॒तो ज॑रि॒माण॑-न्न आन॒डित्या॑ह । आयु॑रे॒वास्मि॑-न्दधाति । द्वाभ्यां॒-विँमृ॑ष्टे । द्वि॒पा-द्यज॑मानः॒ प्रति॑ष्ठित्यै । अ॒ग्नी॒षो॒मीय॑स्य॒ चैका॑दशकपालस्य देवसु॒वा-ञ्च॑ ह॒विषा॑म॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑-मुभ॒यतः॒ परि॑गृह्णाति । वि॒ष्णु॒क्र॒मान् क्र॑मते( ) । विष्णु॑रे॒व भू॒त्वेमाँल्लो॒का-न॒भिज॑यति ॥ 27 ॥
(स॒त्याना॑-मधा॒यीत्या॑-हातारी॒दित्या॑ह-क्रमत॒ एक॑-ञ्च) (अ. 4)
अनुवाकं 5 - अभिषेकार्थमपाङ्ग्रहग्रहणम्
अ॒र्थेत॒-स्स्थेति॑ जुहोति । आहु॑त्यै॒वैना॑ नि॒ष्क्रीय॑ गृह्णाति । अथो॑ ह॒विष्कृ॑तानामे॒वाभिघृ॑ताना-ङ्गृह्णाति । वह॑न्तीना-ङ्गृह्णाति । ए॒ता वा अ॒पाग्ं रा॒ष्ट्रम् । रा॒ष्ट्रमे॒वास्मै॑ गृह्णाति । अथो॒ श्रिय॑मे॒वैन॑म॒भि व॑हन्ति । अ॒पा-म्पति॑र॒सीत्या॑ह । मि॒थु॒नमे॒वाकः॑ । वृषा᳚-ऽस्यू॒र्मिरित्या॑ह ॥ 28 ॥
ऊ॒र्मि॒मन्त॑मे॒वैन॑-ङ्करोति । वृ॒ष॒से॒नो॑-ऽसीत्या॑ह । सेना॑मे॒वास्य॒ सग्ग्​श्य॑ति । व्र॒ज॒क्षित॒-स्स्थेत्या॑ह । ए॒ता वा अ॒पां-विँशः॑ । विश॑मे॒वास्मै॒ पर्यू॑हति । म॒रुता॒मोज॒-स्स्थेत्या॑ह । अन्नं॒-वैँ म॒रुतः॑ । अन्न॑मे॒वा व॑रुन्धे । सूर्य॑वर्चस॒-स्स्थेत्या॑ह ॥ 29 ॥
रा॒ष्ट्रमे॒व व॑र्च॒स्व्य॑कः । सूर्य॑त्वचस॒-स्स्थेत्या॑ह । स॒त्यं-वाँ ए॒तत् । य-द्वर्​ष॑ति । अनृ॑तं॒-यँदा॒तप॑ति॒ वर्​ष॑ति । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे । नैनग्ं॑ सत्यानृ॒ते उ॑दि॒ते हिग्ग्॑स्तः । य ए॒वं-वेँद॑ । मान्दा॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व ब्र॑ह्मवर्च॒स्य॑कः ॥ 30 ॥
वाशा॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व व॒श्य॑कः । शक्व॑री॒-स्स्थेत्या॑ह । प॒शवो॒ वै शक्व॑रीः । प॒शूने॒वाव॑ रुन्धे । वि॒श्व॒भृत॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व प॑य॒स्व्य॑कः । ज॒न॒भृत॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒वेन्द्रि॑या॒व्य॑कः । अ॒ग्नेस्ते॑ज॒स्या᳚-स्स्थेत्या॑ह ॥ 31 ॥
रा॒ष्ट्रमे॒व ते॑ज॒स्व्य॑कः । अ॒पामोष॑धीना॒ग्ं॒ रस॒-स्स्थेत्या॑ह । रा॒ष्ट्रमे॒व म॑ध॒व्य॑मकः । सा॒र॒स्व॒त-ङ्ग्रह॑-ङ्गृह्णाति । ए॒षा वा अ॒पा-म्पृ॒ष्ठम् । यथ्सर॑स्वती । पृ॒ष्ठमे॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति । षो॒ड॒शभि॑-र्गृह्णाति । षोड॑शकलो॒ वै पुरु॑षः । यावा॑ने॒व पुरु॑षः । तस्मि॑न् वी॒र्य॑-न्दधाति । षो॒ड॒शभि॑-र्जु॒होति॑ षोड॒शभि॑-र्गृह्णाति । द्वात्रिग्ं॑श॒-थ्सम्प॑द्यन्ते । द्वात्रिग्ं॑शदक्षरा ऽनु॒ष्टुक् । वाग॑नु॒ष्टु-फ्सर्वा॑णि॒ छन्दाग्ं॑सि । वा॒चैवैन॒ग्ं॒ सर्वे॑भि॒-श्छन्दो॑भि-र॒भिषि॑ञ्चति ॥ 32 ॥
(ऊ॒र्मिरित्या॑ह॒ - सूर्य॑वर्चस॒-स्स्थेत्या॑ह - ब्रह्मवर्च॒स्य॑क - स्तेज॒स्या᳚-स्स्थेत्या॑है॒व - पुरु॑ष॒-ष्षट्च॑) (अ. 5)
अनुवाकं 6 - अभिषेकार्थजलसंस्कारः
देवी॑राप॒-स्स-म्मधु॑मती॒-र्मधु॑मतीभि-स्सृज्यद्ध्व॒मित्या॑ह । ब्रह्म॑णै॒वैना॒-स्सग्ं सृ॑जति । अना॑धृष्टा-स्सीद॒तेत्या॑ह । ब्रह्म॑णै॒वैना᳚-स्सादयति । अ॒न्त॒रा होतु॑श्च॒ धिष्णि॑य-म्ब्राह्मणाच्छ॒ग्ं॒ सिन॑श्च सादयति । आ॒ग्ने॒यो वै होता᳚ । ऐ॒न्द्रो ब्रा᳚ह्मणाच्छ॒ग्ं॒सी । तेज॑सा चै॒वेन्द्रि॒येण॑ चोभ॒यतो॑ रा॒ष्ट्र-म्परि॑गृह्णाति । हिर॑ण्ये॒नो-त्पु॑नाति । आहु॑त्यै॒ हि प॒वित्रा᳚भ्यामुत्पु॒नन्ति॒ व्यावृ॑त्त्यै ॥ 33 ॥
श॒तमा॑न-म्भवति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । अनि॑भृष्टम॒सीत्या॑ह । अनि॑भृष्ट॒ग्ग्॒ ह्ये॑तत् । वा॒चो बन्धु॒रित्या॑ह । वा॒चो ह्ये॑ष बन्धुः॑ । त॒पो॒जा इत्या॑ह । त॒पो॒जा ह्ये॑तत् । सोम॑स्य दा॒त्रम॒सीत्या॑ह ॥ 34 ॥
सोम॑स्य॒ ह्ये॑तद्दा॒त्रम् । शु॒क्रा वः॑ शु॒क्रेणोत्पु॑ना॒मीत्या॑ह । शु॒क्रा ह्यापः॑ । शु॒क्रग्ं हिर॑ण्यम् । च॒न्द्राश्च॒न्द्रेणेत्या॑ह । च॒न्द्रा ह्यापः॑ । च॒न्द्रग्ं हिर॑ण्यम् । अ॒मृता॑ अ॒मृते॒नेत्या॑ह । अ॒मृता॒ ह्यापः॑ । अ॒मृत॒ग्ं॒ हिर॑ण्यम् ॥ 35 ॥
स्वाहा॑ राज॒सूया॒येत्या॑ह । रा॒ज॒सूया॑य॒ ह्ये॑ना उत्पु॒नाति॑ । स॒ध॒मादो᳚ द्यु॒म्निनी॒रूर्ज॑ ए॒ता इति॑ वारु॒ण्यर्चा गृ॑ह्णाति । व॒रु॒ण॒स॒वमे॒वा व॑रुन्धे । एक॑या गृह्णाति । ए॒क॒धैव यज॑माने वी॒र्य॑-न्दधाति । क्ष॒त्रस्योल्ब॑मसि क्ष॒त्रस्य॒ योनि॑र॒सीति॑ ता॒र्प्य-ञ्चो॒ष्णीष॑-ञ्च॒ प्रय॑च्छति सयोनि॒त्वाय॑ । एक॑शतेन दर्भपुञ्जी॒लैः प॑वयति । श॒तायु॒र्वै पुरु॑ष-श्श॒तवी᳚र्यः । आ॒त्मैक॑श॒तः ॥ 36 ॥
यावा॑ने॒व पुरु॑षः । तस्मि॑न् वी॒र्य॑-न्दधाति । दद्ध्या॑शयति । इ॒न्द्रि॒यमे॒वा-व॑रुन्धे । उ॒दु॒म्बर॑-माशयति । अ॒न्नाद्य॒स्याव॑ रुद्ध्यै । शष्पा᳚ण्याशयति । सुरा॑बलि-मे॒वैन॑-ङ्करोति । आ॒विद॑ ए॒ता भ॑वन्ति । आ॒विद॑मे॒वैन॑-ङ्गमयन्ति ॥ 37 ॥
अ॒ग्निरे॒वैन॒-ङ्गार्​ह॑पत्येनावति । इन्द्र॑ इन्द्रि॒येण॑ । पू॒षा प॒शुभिः॑ । मि॒त्रावरु॑णौ प्राणापा॒नाभ्या᳚म् । इन्द्रो॑ वृ॒त्राय॒ वज्र॒मुद॑यच्छत् । स दिव॑मलिखत् । सो᳚-ऽर्य॒म्णः पन्था॑ अभवत् । स आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ द्यावा॑पृथि॒वी उपा॑धावत् । स आ॒भ्यामे॒व प्रसू॑त॒ इन्द्रो॑ वृ॒त्राय॒ वज्र॒-म्प्राह॑रत् । आवि॑न्ने॒ द्यावा॑पृथि॒वी धृ॒तव्र॑ते॒ इति॒ यदाह॑ ॥ 38 ॥
आ॒भ्यामे॒व प्रसू॑तो॒ यज॑मानो॒ वज्र॒-म्भ्रातृ॑व्याय॒ प्रह॑रति । आवि॑न्ना दे॒व्यदि॑ति-र्विश्वरू॒पीत्या॑ह । इ॒यं-वैँ दे॒व्यदि॑ति-र्विश्वरू॒पी । अ॒स्यामे॒व प्रति॑ तिष्ठति । आवि॑न्नो॒-ऽयम॒सावा॑मुष्याय॒णो᳚-ऽस्यां-विँ॒श्य॑स्मि-न्रा॒ष्ट्र इत्या॑ह । वि॒शैवैनग्ं॑ रा॒ष्ट्रेण॒ सम॑र्धयति । म॒ह॒ते क्ष॒त्राय॑ मह॒त आधि॑पत्याय मह॒ते जान॑राज्या॒येत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते । ए॒ष वो॑ भरता॒ राजा॒ सोमो॒-ऽस्माक॑-म्ब्राह्म॒णाना॒ग्ं॒ राजेत्या॑ह । तस्मा॒-थ्सोम॑राजानो ब्राह्म॒णाः ॥ 39 ॥
इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒ इति॒ धनुः॒ प्रय॑च्छति॒ विजि॑त्यै । श॒त्रु॒बाध॑ना॒-स्स्थेतीषून्॑ । शत्रू॑ने॒वास्य॑ बाधन्ते । पा॒त मा᳚ प्र॒त्यञ्च॑-म्पा॒त मा॑ ति॒र्यञ्च॑म॒न्वञ्च॑-म्मा पा॒तेत्या॑ह । ति॒स्रो वै श॑र॒व्याः᳚ । प्र॒तीची॑ ति॒रश्च्य॒नूची᳚ । ताभ्य॑ ए॒वैन॑-म्पान्ति । दि॒ग्भ्यो मा॑ पा॒तेत्या॑ह । दि॒ग्भ्य ए॒वैन॑-म्पान्ति । विश्वा᳚भ्यो मा ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह । अप॑रिमितादे॒वैन॑-म्पान्ति । हिर॑ण्यवर्णावु॒षसां᳚-विँरो॒क इति॑ त्रि॒ष्टुभा॑ बा॒हू उ-द्गृ॑ह्णाति । इ॒न्द्रि॒यं-वैँ वी॒र्य॑-न्त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व वी॒र्य॑-मु॒परि॑ष्टादा॒त्मन्-ध॑त्ते ॥ 40 ॥
(व्यावृ॑त्त्यै-दा॒त्रम॒सीत्या॑हा॒-मृत॒ग्ं॒ हिर॑ण्य-मेकश॒तो-ग॑मय॒न्-त्याह॑-ब्राह्मा॒णा-ना॒ष्ट्राभ्यः॑ पा॒तेत्या॑ह च॒त्वारि॑ च) (अ. 6)
अनुवाकं 7 - दिग्व्यास्थापनम्
दिशो॒ व्यास्था॑पयति । दि॒शाम॒भिजि॑त्यै । यद॑नु प्र॒क्रामे᳚त् । अ॒भि दिशो॑ जयेत् । उत्तु मा᳚द्येत् । मन॒सा-ऽनु॒ प्रक्रा॑मति । अ॒भि दिशो॑ जयति । नोन्मा᳚द्यति । स॒मिध॒मा ति॒ष्ठेत्या॑ह । तेज॑ ए॒वाव॑रुन्धे ॥ 41 ॥
उ॒ग्रामा ति॒ष्ठेत्या॑ह । इ॒न्द्रि॒यमे॒वाव॑ रुन्धे । वि॒राज॒मा ति॒ष्ठेत्या॑ह । अ॒न्नाद्य॑मे॒वाव॑ रुन्धे । उदी॑ची॒मा ति॒ष्ठेत्या॑ह । प॒शूने॒वाव॑ रुन्धे । ऊ॒र्ध्वामा ति॒ष्ठेत्या॑ह । सु॒व॒र्गमे॒व लो॒क-म॒भिज॑यति । अनूज्जि॑हीते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ 42 ॥
मा॒रु॒त ए॒ष भ॑वति । अन्नं॒-वैँ म॒रुतः॑ । अन्न॑मे॒वाव॑ रुन्धे । एक॑विग्ंशतिकपालो भवति॒ प्रति॑ष्ठित्यै । यो॑-ऽरण्ये ऽनुवा॒क्यो॑ ग॒णः । त-म्म॑द्ध्य॒त उप॑दधाति । ग्रा॒म्यैरे॒व प॒शुभि॑-रार॒ण्या-न्प॒शू-न्परि॑गृह्णाति । तस्मा᳚-द्ग्रा॒म्यैः प॒शुभि॑रार॒ण्याः प॒शवः॒ परि॑गृहीताः । पृथि॑र्वै॒न्यः । अ॒भ्य॑षिच्यत ॥ 43 ॥
स रा॒ष्ट्र-न्नाभ॑वत् । स ए॒तानि॑ पा॒र्थान्य॑पश्यत् । तान्य॑जुहोत् । तैर्वै स रा॒ष्ट्र-म॑भवत् । यत्पा॒र्थानि॑ जु॒होति॑ । रा॒ष्ट्रमे॒व भ॑वति । बा॒र्॒ह॒स्प॒त्य-म्पूर्वे॑षामुत्त॒म-म्भ॑वति । ऐ॒न्द्रमुत्त॑रेषा-म्प्रथ॒मम् । ब्रह्म॑ चै॒वास्मै᳚ क्ष॒त्र-ञ्च॑ स॒मीची॑ दधाति । अथो॒ ब्रह्म॑न्ने॒व क्ष॒त्र-म्प्रति॑ष्ठापयति ॥ 44 ॥
षट्पु॒रस्ता॑-दभिषे॒कस्य॑ जुहोति । षडु॒परि॑ष्टात् । द्वाद॑श॒ स-म्प॑द्यन्ते । द्वाद॑श॒ मासा᳚-स्सं​वँथ्स॒रः । सं॒​वँ॒थ्स॒रः खलु॒ वै दे॒वाना॒-म्पूः । दे॒वाना॑मे॒व पुर॑-म्मद्ध्य॒तो व्यव॑सर्पति । तस्य॒ न कुत॑श्च॒ नोपा᳚व्या॒धो भ॑वति । भू॒ताना॒-मवे᳚ष्टी-र्जुहोति । अत्रा᳚त्र॒ वै मृ॒त्यु-र्जा॑यते । यत्र॑ यत्रै॒व मृ॒त्यु-र्जाय॑ते । तत॑ ए॒वैन॒मव॑यजते । तस्मा᳚-द्राज॒सूये॑नेजा॒न-स्सर्व॒मायु॑रेति । सर्वे॒ ह्य॑स्य मृ॒त्यवो-ऽवे᳚ष्टाः । तस्मा᳚-द्राज॒सूये॑नेजा॒नो नाभिच॑रित॒वै । प्र॒त्यगे॑न-मभिचा॒र-स्स्तृ॑णुते ॥ 45 ॥
(रु॒न्धे॒-सम॑ष्ट्या-असिच्यत-स्थापयति॒-जाय॑ते॒ पञ्च॑ च) (अ. 7)
अनुवाकं 8 - अभिषेकः
सोम॑स्य॒ त्विषि॑रसि॒ तवे॑व मे॒ त्विषि॑र्भूया॒दिति॑ शार्दूलच॒र्मोप॑स्तृणाति । यैव सोमे॒ त्विषिः॑ । या शा᳚र्दू॒ले । तामे॒वाव॑ रुन्धे । मृ॒त्योर्वा ए॒ष वर्णः॑ । यच्छा᳚र्दू॒लः । अ॒मृत॒ग्ं॒ हिर॑ण्यम् । अ॒मृत॑मसि मृ॒त्योर्मा॑ पा॒हीति॒ हिर॑ण्य॒-मुपा᳚स्यति । अ॒मृत॑मे॒व मृ॒त्योर॒न्त-र्ध॑त्ते । श॒तमा॑न-म्भवति ॥ 46 ॥
श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑ तिष्ठति । दि॒द्योन्मा॑ पा॒हीत्यु॒परि॑ष्टा॒दधि॒ निद॑धाति । उ॒भ॒यत॑ ए॒वास्मै॒ शर्म॑ दधाति । अवे᳚ष्टा दन्द॒शूका॒ इति॑ क्ली॒बग्ं सीसे॑न विद्ध्यति । द॒न्द॒शूका॑-ने॒वाव॑ यजते । तस्मा᳚-त्क्ली॒ब-न्द॑न्द॒शूका॒ दग्ंशु॑काः । निर॑स्त॒-न्नमु॑चे॒-श्शिर॒ इति॑ लोहिताय॒स-न्निर॑स्यति । पा॒प्मान॑मे॒व नमु॑चि-न्नि॒रव॑दयते । प्रा॒णा आ॒त्मनः॒ पूर्वे॑-ऽभि॒षिच्या॒ इत्या॑हुः ॥ 47 ॥
सोमो॒ राजा॒ वरु॑णः । दे॒वा ध॑र्म॒सुव॑श्च॒ ये । ते ते॒ वाचग्ं॑ सुवन्ता॒-न्ते ते᳚ प्रा॒णग्ं सु॑वन्ता॒मित्या॑ह । प्रा॒णाने॒वात्मनः॒ पूर्वा॑-न॒भिषि॑ञ्चति । य-द्ब्रू॒यात् । अ॒ग्नेस्त्वा॒ तेज॑सा॒ ऽभिषि॑ञ्चा॒मीति॑ । ते॒ज॒स्व्ये॑व स्या᳚त् । दु॒श्चर्मा॒ तु भ॑वेत् । सोम॑स्य त्वा द्यु॒म्नेना॒-भिषि॑ञ्चा॒मीत्या॑ह । सौ॒म्यो वै दे॒वत॑या॒ पुरु॑षः ॥ 48 ॥
स्वयै॒वैन॑-न्दे॒वत॑या॒-ऽभिषि॑ञ्चति । अ॒ग्ने-स्तेज॒सेत्या॑ह । तेज॑ ए॒वास्मि॑-न्दधाति । सूर्य॑स्य॒ वर्च॒सेत्या॑ह । वर्च॑ ए॒वास्मि॑-न्दधाति । इन्द्र॑स्ये-न्द्रि॒येणेत्या॑ह । इ॒न्द्रि॒यमे॒वास्मि॑-न्दधाति । मि॒त्रावरु॑णयो-र्वी॒र्ये॑णेत्या॑ह । वी॒र्य॑मे॒वास्मि॑-न्दधाति । म॒रुता॒मोज॒सेत्या॑ह ॥ 49 ॥
ओज॑ ए॒वास्मि॑-न्दधाति । क्ष॒त्राणा᳚-ङ्क्ष॒त्रप॑तिर॒सीत्या॑ह । क्ष॒त्राणा॑मे॒वैन॑-ङ्क्ष॒त्रप॑ति-ङ्करोति । अति॑ दि॒वस्पा॒हीत्या॑ह । अत्य॒न्या-न्पा॒हीति॒ वावैतदा॑ह । स॒माव॑वृत्रन्न-ध॒रागुदी॑ची॒-रित्या॑ह । रा॒ष्ट्रमे॒वास्मि॑-न्ध्रु॒वम॑कः । उ॒च्छेष॑णेन जुहोति । उ॒च्छेष॑णभागो॒ वै रु॒द्रः । भा॒ग॒धेये॑नै॒व रु॒द्र-न्नि॒रव॑दयते ॥ 50 ॥
उद॑म्प॒रेत्याग्नी᳚द्ध्रे जुहोति । ए॒षा वै रु॒द्रस्य॒ दिक् । स्वाया॑मे॒व दि॒शि रु॒द्र-न्नि॒रव॑दयते । रुद्र॒ यत्ते॒ क्रयी॒ पर॒-न्नामेत्या॑ह । यद्वा अ॑स्य॒ क्रयी॒ पर॒-न्नाम॑ । तेन॒ वा ए॒ष हि॑नस्ति । यग्ं हि॒नस्ति॑ । तेनै॒वैनग्ं॑ स॒ह श॑मयति । तस्मै॑ हु॒तम॑सि य॒मेष्ट॑म॒सीत्या॑ह । य॒मादे॒वास्य॑ मृ॒त्युमव॑यजते ॥ 51 ॥
प्रजा॑पते॒ न त्वदे॒तान्य॒न्य इति॒ तस्यै॑ गृ॒हे जु॑हुयात् । या-ङ्का॒मये॑त रा॒ष्ट्रम॑स्यै प्र॒जा स्या॒दिति॑ । रा॒ष्ट्रमे॒वास्यै᳚ प्र॒जा भ॑वति । प॒र्ण॒-मये॑ना-द्ध्व॒र्यु-र॒भिषि॑ञ्चति । ब्र॒ह्म॒व॒र्च॒समे॒वास्मि॒न्-त्विषि॑-न्दधाति । औदु॑म्बरेण राज॒न्यः॑ । ऊर्ज॑मे॒वास्मि॑-न्न॒न्नाद्य॑-न्दधाति । आश्व॑त्थेन॒ वैश्यः॑ । विश॑मे॒वास्मि॒-न्पुष्टि॑-न्दधाति । नैय॑ग्रोधेन॒ जन्यः॑( ) । मि॒त्राण्ये॒वास्मै॑ कल्पयति । अथो॒ प्रति॑ष्ठित्यै ॥ 52 ॥
(भ॒व॒ - त्या॒हुः॒ - पुरु॑ष॒ - ओज॒सेत्या॑ह - नि॒रव॑दयते - यजते॒ - जन्यो॒ द्वे च॑) (अ. 8)
अनुवाकं 9 - स्थारोहणम्. विजयः
इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒ इति॒ रथ॑मु॒पाव॑हरति॒ विजि॑त्यै । मि॒त्रावरु॑णयोस्त्वा प्रशा॒स्त्रोः प्र॒शिषा॑ युन॒ज्मीत्या॑ह । ब्रह्म॑णै॒वैन॑-न्दे॒वता᳚भ्यां-युँनक्ति । प्र॒ष्टि॒वा॒हिनं॑-युँनक्ति । प्र॒ष्टि॒वा॒ही वै दे॑वर॒थः । दे॒व॒र॒थ-मे॒वास्मै॑ युनक्ति । त्रयो-ऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । द्वौ स॑व्येष्ठसार॒थी । षट्-थ्सम्प॑द्यन्ते ॥ 53 ॥
षड्वा ऋ॒तवः॑ । ऋ॒तुभि॑रे॒वैनं॑-युँनक्ति । वि॒ष्णु॒क्र॒मान्-क्र॑मते । विष्णु॑रे॒व भू॒त्वेमान् ँलो॒कान॒भिज॑यति । यः, क्ष॒त्रियः॒ प्रति॑हितः । सो᳚-ऽन्वार॑भते । रा॒ष्ट्रमे॒व भ॑वति । त्रि॒ष्टुभा॒ ऽन्वार॑भते । इ॒न्द्रि॒यं-वैँ त्रि॒ष्टुक् । इ॒न्द्रि॒यमे॒व यज॑माने दधाति ॥ 54 ॥
म॒रुता᳚-म्प्रस॒वे जे॑ष॒मित्या॑ह । म॒रुद्भि॑रे॒व प्रसू॑त॒ उज्ज॑यति । आ॒प्त-म्मन॒ इत्या॑ह । यदे॒व मन॒सैफ्सी᳚त् । तदा॑पत् । रा॒ज॒न्य॑-ञ्जिनाति । अना᳚क्रान्त ए॒वाक्र॑मते । वि वा ए॒ष इ॑न्द्रि॒येण॑ वी॒र्ये॑णर्ध्यते । यो रा॑ज॒न्य॑-ञ्जि॒नाति॑ । सम॒हमि॑न्द्रि॒येण॑ वी॒र्ये॑णेत्या॑ह ॥ 55 ॥
इ॒न्द्रि॒यमे॒व वी॒र्य॑मा॒त्मन्-ध॑त्ते । प॒शू॒ना-म्म॒न्युर॑सि॒ तवे॑व मे म॒न्युर्भू॑या॒दिति॒ वारा॑ही उपा॒नहा॒वुप॑ मुञ्चते । प॒शू॒नां-वाँ ए॒ष म॒न्युः । य-द्व॑रा॒हः । तेनै॒व प॑शू॒ना-म्म॒न्युमा॒त्म-न्ध॑त्ते । अ॒भि वा इ॒यग्ं सु॑षुवा॒ण-ङ्का॑मयते । तस्ये᳚श्व॒रेन्द्रि॒यं-वीँ॒र्य॑मादा॑तोः । वारा॑ही उपा॒नहा॒वुप॑मुञ्चते । अ॒स्या ए॒वान्तर्ध॑त्ते । इ॒न्द्रि॒यस्य॑ वी॒र्य॑स्याना᳚त्त्यै ॥ 56 ॥
नमो॑ मा॒त्रे पृ॑थि॒व्या इत्या॒हाहिग्ं॑ सायै । इय॑द॒स्या-यु॑र॒स्यायु॑र्मे धे॒हीत्या॑ह । आयुरे॒वात्मन्-ध॑त्ते । ऊर्ग॒स्यूर्ज॑-म्मे धे॒हीत्या॑ह । ऊर्ज॑म॒वात्म-न्ध॑त्ते । युङ्ङ॑सि॒ वर्चो॑-ऽसि॒ वर्चो॒ मयि॑ धे॒हीत्या॑ह । वर्च॑ ए॒वात्म-न्ध॑त्ते । ए॒क॒धा ब्र॒ह्मण॒ उप॑ हरति । ए॒क॒धैव यज॑मान॒ आयु॒रूर्जं॒-वँर्चो॑ दधाति । र॒थ॒वि॒मो॒च॒नीया॑ जुहोति॒ प्रति॑ष्ठित्यै ॥ 57 ॥
त्रयो-ऽश्वा॑ भवन्ति । रथ॑श्चतु॒र्थः । तस्मा᳚-च्च॒तुर्जु॑होति । यदु॒भौ स॒हाव॒तिष्ठे॑ताम् । स॒मा॒नं-लोँ॒कमि॑याताम् । स॒ह स॑ग्रंही॒त्रा र॑थ॒वाह॑ने॒ रथ॒माद॑धाति । सु॒व॒र्गादे॒वैनं॑-लोँ॒काद॒न्तर्द॑धाति । ह॒ग्ं॒स-श्शु॑चि॒षदित्या द॑धाति । ब्रह्म॑णै॒वैन॑-मुपाव॒हर॑ति । ब्रह्म॒णा ऽऽद॑धाति । अति॑च्छन्द॒सा ऽऽद॑धाति । अति॑च्छन्दा॒ वै सर्वा॑णि॒ छन्दाग्ं॑सि । सर्वे॑भिरे॒वैन॒-ञ्छन्दो॑भि॒-राद॑धाति । वर्​ष्म॒ वा ए॒षा छन्द॑साम् । यदति॑च्छन्दाः । यदति॑च्छन्दसा॒ दधा॑ति । वर्​ष्मै॒वैनग्ं॑ समा॒नाना᳚-ङ्करोति ॥ 58 ॥
(प॒द्य॒न्ते॒ - द॒धा॒ति॒ - वी॒र्ये॑णेत्या॒हा - ना᳚त्यै॒ - प्रति॑ष्ठित्यै॒ - ब्रह्म॒णा-ऽऽद॑धाति स॒प्त च॑) (अ. 9)
अनुवाकं 10 - आसने समुपवेश-स्सर्वैस्सेव्यत्व-ञ्च
मि॒त्रो॑-ऽसि॒ वरु॑णो॒-ऽसीत्या॑ह । मै॒त्रं-वाँ अहः॑ । वा॒रु॒णी रात्रिः॑ । अ॒हो॒रा॒त्राभ्या॑-मे॒वैन॑-मु॒पाव॑हरति । मि॒त्रो॑-ऽसि॒ वरु॑णो॒सीत्या॑ह । मै॒त्रो वै दक्षि॑णः । वा॒रु॒ण-स्स॒व्यः । वै॒श्व॒दे॒व्या॑मिक्षा᳚ । स्वमे॒वैनौ॑ भाग॒धेय॑-मु॒पाव॑हरति । सम॒हं-विँश्वै᳚र्दे॒वै-रित्या॑ह ॥ 59 ॥
वै॒श्व॒दे॒व्यो॑ वै प्र॒जाः । ता ए॒वाद्याः᳚ कुरुते । क्ष॒त्रस्य॒ नाभि॑रसि क्ष॒त्रस्य॒ योनि॑-र॒सीत्य॑धीवा॒समा-स्तृ॑णाति सयोनि॒त्वाय॑ । स्यो॒नामासी॑द सु॒षदा॒मासी॒देत्या॑ह । य॒था॒ य॒जुरे॒वै तत् । मा त्वा॑ हिग्ंसी॒-न्मा मा॑ हिग्ंसी॒दित्या॒हा-हिग्ं॑सायै । निष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या᳚स्वा साम्रा᳚ज्याय सु॒क्रतु॒रित्या॑ह । साम्रा᳚ज्यमे॒वैनग्ं॑ सु॒क्रतु॑-ङ्करोति । ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसि॑ सवि॒ता-ऽसि॑ स॒त्यस॑व॒ इत्या॑ह । स॒वि॒तार॑-मे॒वैनग्ं॑ स॒त्यस॑व-ङ्करोति ॥ 60 ॥
ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसीन्द्रो॑-ऽसि स॒त्यौजा॒ इत्या॑ह । इन्द्र॑मे॒वैनग्ं॑ स॒त्यौज॑स-ङ्करोति । ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसि॑ मि॒त्रो॑-ऽसि सु॒शेव॒ इत्या॑ह । मि॒त्रमे॒वैनग्ं॑ सु॒शेव॑-ङ्करोति । ब्रह्मा(3)न्त्वग्ं रा॑जन्-ब्र॒ह्मा-ऽसि॒ वरु॑णो-ऽसि स॒त्यध॒र्मेत्या॑ह । वरु॑णमे॒वैनग्ं॑ स॒त्यध॑र्माण-ङ्करोति । स॒वि॒ता-ऽसि॑ स॒त्यस॑व॒ इत्या॑ह । गा॒य॒त्री-मे॒वैतेना॑भि॒व्याह॑रति । इन्द्रो॑-ऽसि स॒त्यौजा॒ इत्या॑ह । त्रि॒ष्टुभ॑-मे॒वैतेना॑भि॒-व्याह॑रति ॥ 61 ॥
मि॒त्रो॑-ऽसि सु॒शेव॒ इत्या॑ह । जग॑ती-मे॒वैतेना॑भि॒व्याह॑रति । स॒त्यमे॒ता दे॒वताः᳚ । स॒त्यमे॒तानि॒ छन्दाग्ं॑सि । स॒त्यमे॒वाव॑ रुन्धे । वरु॑णो-ऽसि स॒त्यध॒र्मेत्या॑ह । अ॒नु॒ष्टुभ॑-मे॒वैतेना॑भि॒व्याह॑रति । स॒त्या॒नृ॒ते वा अ॑नु॒ष्टुप् । स॒त्या॒नृ॒ते वरु॑णः । स॒त्या॒नृ॒ते ए॒वाव॑रुन्धे ॥ 62 ॥
नैनग्ं॑ सत्यानृ॒ते उ॑दि॒ते हिग्ग्॑स्तः । य ए॒वं-वेँद॑ । इन्द्र॑स्य॒ वज्रो॑-ऽसि॒ वार्त्र॑घ्न॒ इति॒ स्फ्य-म्प्रय॑च्छति । वज्रो॒ वै स्फ्यः । वज्रे॑णै॒वास्मा॑ अवरप॒रग्ं र॑न्धयति । ए॒वग्ं हि तच्छ्रेयः॑ । यद॑स्मा ए॒ते रद्ध्ये॑युः । दिशो॒-ऽभ्य॑यग्ं राजा॑ ऽभू॒दिति॒ पञ्चा॒क्षान्-प्रय॑च्छति । ए॒ते वै सर्वे-ऽयाः᳚ । अप॑राजायिन-मे॒वैन॑-ङ्करोति ॥ 63 ॥
ओ॒द॒नमुद्ब्रु॑वते । प॒र॒मे॒ष्ठी वा ए॒षः । यदो॑द॒नः । प॒र॒मामे॒वैन॒ग्ग्॒ श्रिय॑-ङ्गमयति । सुश्लो॒काँ(4) सुम॑ङ्ग॒लाँ(4) सत्य॑रा॒जा(3)नित्या॑ह । आ॒शिष॑मे॒वैतामा शा᳚स्ते । शौ॒न॒-श्शे॒पमाख्या॑पयते । व॒रु॒ण॒पा॒शा-दे॒वैन॑-म्मुञ्चति । प॒र॒-श्श॒त-म्भ॑वति । श॒तायुः॒ पुरु॑ष-श्श॒तेन्द्रि॑यः( ) । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति । मा॒रु॒तस्य॒ चैक॑विग्ंशतिकपालस्य वैश्वदे॒व्यै चा॒मिक्षा॑या अ॒ग्नये᳚ स्विष्ट॒कृते॑ स॒मव॑द्यति । दे॒वता॑भिरे॒वैन॑-मुभ॒यतः॒ परि॑गृह्णाति । अ॒पा-न्नप्त्रे॒ स्वाहो॒र्जो नप्त्रे॒ स्वाहा॒-ऽग्नये॑ गृ॒हप॑तये॒ स्वाहेति॑ ति॒स्र आहु॑ती-र्जुहोति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑ तिष्ठति ॥ 64 ॥
(दे॒वैरित्या॑ह - स॒त्यस॑व-ङ्करोति - त्रि॒ष्टुभ॑मे॒वैतेना॑भि॒ व्याह॑रति- सत्यानृ॒ते ए॒वाव॑रुन्धे - करोति - श॒तेन्द्रि॑य॒-ष्षट्च॑) (अ. 10)
(ए॒त-द्ब्रा᳚ह्मणानि - धा॒त्रे - रा॒त्निनां᳚ - देवसु॒वा - म॒र्थेतो॒ - देवी॒--र् दिशः॒ - सोम॒स्ये - न्द्र॑स्य - मि॒त्रो दश॑)
(ए॒त-द्ब्रा᳚ह्मणानि - वैष्ण॒व-न्त्रि॑कपा॒ल - मन्नं॒-वैँ पू॒षा - वाशा॒-स्स्थेत्या॑ह॒ - दिशो॒ व्यास्था॑पय॒ - त्युद॑म्प॒रेत्य॒ - ब्रह्मा(3)न्त्वग्ं रा॑ज॒-ञ्चतु॑ष्षष्टिः
(ए॒त-द्ब्रा᳚ह्मणानि॒ - प्रति॑ तिष्ठति)
॥ हरिः॑ ओम् ॥
॥ कृष्ण यजुर्वेदीय तैत्तिरीय ब्राह्मणे प्रथमाष्टके सप्तमः प्रपाठक-स्समाप्तः ॥
Roman (IAST) Transliteration
kṛṣṇa yajurvedīya taittirīya brāhmaṇe prathamāṣṭake saptamaḥ prapāṭhakaḥ - rājasūyānubrāhmaṇaṃ
o-nnamaḥ paramātmane, śrī mahāgaṇapataye namaḥ,
śrī gurubhyo namaḥ | ha॒riḥ॒ om ||
anuvākaṃ 1 - śunāsīrīyendraturīyapañcāvattīyāpāmārgahomāḥ
e॒ta-dbrā᳚hmaṇānye॒va pañca̭ ha॒vīgṃṣi̭ | athendrā̭ya॒ śunā॒sīrā̭ya puro॒ḍāśa॒-ndvāda̭śakapāla॒-nnirva̭pati | saṃ॒​va~॒thsa॒ro vā indrā॒ śunā॒sīraḥ̭ | saṃ॒​va~॒thsa॒reṇai॒vāsmā॒ anna॒mava̭ rundhe | vā॒ya॒vya̭-mpayo̭ bhavati | vā॒yurvai vṛṣṭyai᳚ pradāpayi॒tā | sa e॒vāsmai॒ vṛṣṭi॒-mpradā̭payati | sau॒rya̭ eka̭kapālo bhavati | sūryḙṇa॒ vā a॒muṣmi̭~llo॒ke vṛṣṭi̭rdhṛ॒tā | sa e॒vāsmai॒ vṛṣṭi॒-nni ya̭cchati || 1 ||
dvā॒da॒śa॒ga॒vagṃ sīra॒-ndakṣi̭ṇā॒ samṛ̭ddhyai | de॒vā॒su॒rā-ssaṃ​ya~̭ttā āsann | te de॒vā a॒gnima̭bruvann | tvayā̭ vī॒reṇāsṷrāna॒-bhibha̭vā॒meti̭ | so᳚-'bravīt | tre॒dhā-'hamā॒tmānaṃ॒-vi~ka̭riṣya॒ iti̭ | sa tre॒dhā ''tmānaṃ॒-vya~̭kuruta | a॒gni-ntṛtī̭yam | ru॒dra-ntṛtī̭yam | varṷṇa॒-ntṛtī̭yam || 2 ||
so᳚-'bravīt | ka i॒da-ntu॒rīya॒miti̭ | a॒hamitīndro᳚-'bravīt |
sa-ntu sṛ̭jāvahā॒ iti̭ | tau sama̭sṛjetām | sa indra̭stu॒rīya̭-mabhavat | yadindra̭-stu॒rīya॒-mabha̭vat | tadi̭ndra-turī॒yasye᳚ndra-turīya॒tvam | tato॒ vai de॒vā vya̭jayanta | yadi̭ndraturī॒ya-nni̭ru॒pyate॒ viji̭tyai || 3 ||
va॒hinī̭ dhe॒nu-rdakṣi̭ṇā | ya-dva॒hinī᳚ | tenā᳚gne॒yī |
ya-dgauḥ | tena̭ rau॒drī | ya-ddhe॒nuḥ | tenai॒ndrī | yathstrī sa॒tī dā॒ntā | tena̭ vāru॒ṇī samṛ̭ddhyai | pra॒jāpa̭ti-rya॒jñama̭sṛjata || 4 ||
tagṃ sṛ॒ṣṭagṃ rakṣāg̭syajighāgṃsann | sa e॒tāḥ pra॒jāpa̭ti-rā॒tmano̭ de॒vatā॒ nira̭mimīta | tābhi॒rvai sa di॒gbhyo rakṣāgṃ̭si॒ prāṇṷdata | ya-tpa̭ñcāva॒ttīya̭-ñju॒hoti̭ | di॒gbhya e॒va ta-dyaja̭māno॒ rakṣāgṃ̭si॒ praṇṷdate | samṷ̄ḍha॒gṃ॒ rakṣa॒-ssanda̭gdha॒gṃ॒ rakṣa॒ ityā̭ha | rakṣāg̭sye॒va sanda̭hati | a॒gnayḙ rakṣo॒ghne svāhetyā̭ha | de॒vatā᳚bhya e॒va vi̭jigyā॒nābhyo̭ bhāga॒dheya̭-ṅkaroti | pra॒ṣṭi॒vā॒hī ratho॒ dakṣi̭ṇā॒ samṛ̭ddhyai || 5 ||
indro̭ vṛ॒tragṃ ha॒tvā | asṷrā-nparā॒bhāvya̭ | namṷcimāsu॒ra-nnāla̭bhata | tagṃ śa॒cyā̭-'gṛhṇāt | tau sama̭labhetām | so᳚-'smā-da॒bhiśṷnataro-'bhavat | so᳚-'bravīt | sa॒dhāṃgṃ sanda̭dhāvahai | atha॒ tvā-'va̭ srakṣyāmi | na mā॒ śuṣkḙṇa॒ nārdreṇa̭ hanaḥ || 6 ||
na divā॒ na nakta॒miti̭ | sa e॒tama॒pā-mphena̭masiñcat | na vā e॒ṣa śuṣko॒ nārdro vyṷṣṭā ''sīt | anṷdita॒-ssūryaḥ̭ | na vā e॒ta-ddivā॒ na nakta᳚m | tasyai॒tasmi̭n ~lo॒ke | a॒pā-mphenḙna॒ śira॒ uda̭vartayat | tadḙna॒manva̭vartata | mitra̭dru॒giti̭ || 7 ||
sa e॒tāna̭pāmā॒rgāna̭janayat | tāna̭juhot | tairvai sa rakṣā॒g॒syapā̭hata | yada̭pāmārga ho॒mo bhava̭ti | rakṣa̭sā॒-mapa̭hatyai | e॒ko॒l mu॒kena̭ yanti | taddhi rakṣa̭sā-mbhāga॒dheya᳚m | i॒mā-ndiśaṃ̭-ya~nti | e॒ṣā vai rakṣa̭sā॒-ndik | svāyā̭me॒va di॒śi rakṣāgṃ̭si hanti || 8 ||
svakṛ̭ta॒ iri̭ṇe juhoti prada॒re vā᳚ | e॒ta-dvai rakṣa̭sāmā॒yata̭nam | sva e॒vāyata̭ne॒ rakṣāgṃ̭si hanti | pa॒rṇa॒mayḙna sru॒veṇa̭ juhoti | brahma॒ vai pa॒rṇaḥ | brahma̭ṇai॒va rakṣāgṃ̭si hanti | de॒vasya̭ tvā savi॒tuḥ pra̭sa॒va ityā̭ha | sa॒vi॒tṛpra̭sūta e॒va rakṣāgṃ̭si hanti | ha॒tagṃ rakṣo 'va̭dhiṣma॒ rakṣa॒ ityā̭ha | rakṣa̭sā॒g॒ stṛtyai᳚ | yadvaste॒ ta-ddakṣi̭ṇā ni॒rava̭ttyai | apra̭tīkṣa॒mā ya̭nti | rakṣa̭sā-ma॒ntar​hi̭tyai || 9 ||
(ya॒ccha॒ti॒ - varṷṇa॒-ntṛtī̭yaṃ॒ - ~viji̭tyā - asṛjata॒ - samṛ̭ddhyai - hano॒ - mitra̭dru॒giti̭ - hanti॒ - stṛtyai॒ trīṇi̭ ca) (a. 1)
anuvākaṃ 2 - devikāvahavīṃṣi
dhā॒tre pṷro॒ḍāśa॒-ndvāda̭śakapāla॒-nnirva̭pati | saṃ॒​va~॒thsa॒ro vai dhā॒tā | saṃ॒​va~॒thsa॒reṇai॒vāsmai᳚ pra॒jāḥ praja̭nayati | anve॒vāsmā॒ anṷmatirmanyate | rā॒te rā॒kā | pra si̭nīvā॒lī ja̭nayati | pra॒jāsve॒va prajā̭tāsu ku॒hvā̭ vāca̭-ndadhāti | mi॒thu॒nau gāvau॒ dakṣi̭ṇā॒ samṛ̭ddhyai | ā॒gnā॒vai॒ṣṇa॒va-mekā̭daśakapāla॒-nnirva̭pati | ai॒ndrā॒vai॒ṣṇa॒va-mekā̭daśakapālam || 10 ||
vai॒ṣṇa॒va-ntri̭kapā॒lam | vī॒ryaṃ̭-vā~ a॒gniḥ | vī॒rya̭mindraḥ̭ | vī॒ryaṃ̭-vi~ṣṇuḥ̭ | pra॒jā e॒va prajā̭tā vī॒rye᳚ prati̭ṣṭhāpayati | tasmā᳚-tpra॒jā vī॒ryā̭vatīḥ | vā॒ma॒na ṛ̭ṣa॒bho va॒hī dakṣi̭ṇā | yadva॒hī | tenā᳚gne॒yaḥ | yadṛ̭ṣa॒bhaḥ || 11 ||
tenai॒ndraḥ | yadvā̭ma॒naḥ | tena̭ vaiṣṇa॒va-ssamṛ̭ddhyai | a॒gnī॒ṣo॒mīya॒-mekā̭daśakapāla॒-nnirva̭pati | i॒ndrā॒so॒mīya॒-mekā̭daśakapālam | sau॒mya-ñca॒rum | somo॒ vai rḙto॒dhāḥ | a॒gniḥ pra॒jānā᳚-mprajanayi॒tā | vṛ॒ddhānā॒mindraḥ̭ pradāpayi॒tā | soma̭ e॒vāsmai॒ reto॒ dadhā̭ti || 12 ||
a॒gniḥ pra॒jā-mpraja̭nayati | vṛ॒ddhāmindraḥ॒ praya̭cchati | ba॒bhru-rdakṣi̭ṇā॒ samṛ̭ddhyai | so॒mā॒pau॒ṣṇa-ñca॒ru-nnirva̭pati | ai॒ndrā॒pau॒ṣṇa-ñca॒rum | somo॒ vai rḙto॒dhāḥ | pū॒ṣā pa̭śū॒nā-mpra̭janayi॒tā | vṛ॒ddhānā॒mindraḥ̭ pradāpayi॒tā | soma̭ e॒vāsmai॒ reto॒ dadhā̭ti | pū॒ṣā pa॒śū-npraja̭nayati || 13 ||
vṛ॒ddhānindraḥ॒ praya̭cchati | pau॒ṣṇaśca॒ru-rbha̭vati | i॒yaṃ-vai~ pū॒ṣā | a॒syāme॒va prati̭ tiṣṭhati | śyā॒mo dakṣi̭ṇā॒ samṛ̭ddhyai | ba॒hu vai purṷṣo-'me॒ddhya-mupa̭gacchati | vai॒śvā॒na॒ra-ndvāda̭śakapāla॒-nnirva̭pati | saṃ॒​va~॒thsa॒ro vā a॒gni-rvai᳚śvāna॒raḥ | saṃ॒​va~॒thsa॒reṇai॒vainagg̭ svadayati | hira̭ṇya॒-ndakṣi̭ṇā || 14 ||
pa॒vitraṃ॒-vai~ hira̭ṇyam | pu॒nātye॒vaina᳚m | ba॒hu vai rā̭ja॒nyo 'nṛ̭ta-ṅkaroti | upa̭ jā॒myai hara̭te | ji॒nāti̭ brāhma॒ṇam | vada॒tyanṛ̭tam | anṛ̭te॒ khalu॒ vai kri॒yamā̭ṇe॒ varṷṇo gṛhṇāti | vā॒ru॒ṇaṃ-ya~̭va॒maya̭-ñca॒ru-nnirva̭pati | va॒ru॒ṇa॒pā॒śāde॒vaina̭-mmuñcati | aśvo॒ dakṣi̭ṇā | vā॒ru॒ṇo hi de॒vata॒yā-'śva॒-ssamṛ̭ddhyai || 15 ||
(ai॒ndrā॒vai॒ṣṇā॒vamekā̭daśakapālaṃ॒-~yadṛ̭ṣa॒bho- dadhā̭ti-pū॒ṣā pa॒śū-npraja̭nayati॒-hira̭ṇyaṃ॒ dakṣi̭ṇā॒-dakṣi॒ṇaikaṃ̭ ca) (a. 2)
anuvākaṃ 3 - ratnināṃ havīṃṣi
ra॒tninā̭me॒tāni̭ ha॒vīgṃṣi̭ bhavanti | e॒te vai rā॒ṣṭrasya̭ pradā॒tāraḥ̭ | e॒tḙ-'pādā॒tāraḥ̭ | ya e॒va rā॒ṣṭrasya̭ pradā॒tāraḥ̭ | yḙ-'pādā॒tāraḥ̭ | ta e॒vāsmai̭ rā॒ṣṭra-mpraya̭cchanti | rā॒ṣṭrame॒va bha̭vati | ya-thsa̭mā॒hṛtya̭ ni॒rvape᳚t | ara̭tnina-ssyuḥ | ya॒thā॒ya॒tha-nnirva̭pati ratni॒tvāya̭ || 16 ||
ya-thsa॒dyo ni॒rvape᳚t | yāva̭tī॒mekḙna ha॒viṣā॒-''śiṣa̭mava ru॒ndhe | tāva̭tī॒mava̭ rundhīta | a॒nva॒ha-nnirva̭pati | bhūya̭sīme॒vāśiṣa॒mava̭ rundhe | bhūya̭so yajñakra॒tūnupai̭ti | bā॒r॒ha॒spa॒tya-ñca॒ru-nnirva̭pati bra॒hmaṇo̭ gṛ॒he | mu॒kha॒ta e॒vāsmai॒ brahma॒ sagg​śya̭ti | atho॒ brahma̭nne॒va kṣa॒tra-ma॒nvāra̭mbhayati | śi॒ti॒pṛ॒ṣṭho dakṣi̭ṇā॒ samṛ̭ddhyai || 17 ||
ai॒ndra-mekā̭daśakapālagṃ rāja॒nya̭sya gṛ॒he | i॒ndri॒yame॒vāva̭ rundhe | ṛ॒ṣa॒bho dakṣi̭ṇā॒ samṛ̭ddhyai | ā॒di॒tya-ñca॒ru-mmahi̭ṣyai gṛ॒he | i॒yaṃ-vā~ adi̭tiḥ | a॒syāme॒va prati̭tiṣṭhati | dhe॒nu-rdakṣi̭ṇā॒ samṛ̭ddhyai | bhagā̭ya ca॒ruṃ-vā~॒vātā̭yai gṛ॒he | bhaga̭me॒vāsmi̭-ndadhāti | vici̭ttagarbhā paṣṭhau॒hī dakṣi̭ṇā॒ samṛ̭ddhyai || 18 ||
nai॒r॒ṛ॒ta-ñca॒ru-mpa̭rivṛ॒ktyai̭ gṛ॒he kṛ॒ṣṇānāṃ᳚-vrī~hī॒ṇā-nna॒khani̭rbhinnam | pā॒pmāna̭me॒va nir-ṛ̭ti-nni॒rava̭dayate | kṛ॒ṣṇā kū॒ṭā dakṣi̭ṇā॒ samṛ̭ddhyai | ā॒gne॒ya-ma॒ṣṭāka̭pālagṃ senā॒nyo̭ gṛ॒he | senā̭me॒vāsya॒ sagg​śya̭ti | hira̭ṇya॒-ndakṣi̭ṇā॒ samṛ̭ddhyai | vā॒ru॒ṇa-ndaśa̭kapālagṃ sū॒tasya̭ gṛ॒he | va॒ru॒ṇa॒sa॒vame॒vāva̭-rundhe | ma॒hāni̭raṣṭo॒ dakṣi̭ṇā॒ samṛ̭ddhyai | mā॒ru॒tagṃ sa॒ptaka̭pāla-ṅgrāma॒ṇyo̭ gṛ॒he || 19 ||
annaṃ॒-vai~ ma॒rutaḥ̭ | anna̭me॒vāva̭-rundhe | pṛśñi॒-rdakṣi̭ṇā॒ samṛ̭ddhyai | sā॒vi॒tra-ndvāda̭śakapāla-ṅkṣa॒tturgṛ॒he prasū᳚tyai | u॒pa॒ddhva॒sto dakṣi̭ṇā॒ samṛ̭ddhyai | ā॒śvi॒na-ndvi̭kapā॒lagṃ sa̭graṃhī॒turgṛ॒he | a॒śvinau॒ vai de॒vānā᳚-mbhi॒ṣajau᳚ | tābhyā̭me॒vāsmai̭ bheṣa॒ja-ṅka̭roti | sa॒vā॒tyaṷ dakṣi̭ṇā॒ samṛ̭ddhyai | pau॒ṣṇa-ñca॒ru-mbhā̭gadu॒ghasya̭ gṛ॒he || 20 ||
annaṃ॒-vai~ pū॒ṣā | anna̭me॒vāva̭ rundhe | śyā॒mo dakṣi̭ṇā॒ samṛ̭ddhyai | rau॒dra-ṅgā̭vīdhu॒ka-ñca॒ruma̭kṣāvā॒pasya̭ gṛ॒he | a॒nta॒ta e॒va ru॒dra-nni॒rava̭dayate | śa॒bala॒ udvā̭ro॒ dakṣi̭ṇā॒ samṛ̭ddhyai | dvāda̭śai॒tāni̭ ha॒vīgṃṣi̭ bhavanti | dvāda̭śa॒ māsā᳚-ssaṃ​va~thsa॒raḥ | saṃ॒​va~॒thsa॒reṇai॒vāsmai̭ rā॒ṣṭramava̭-rundhe | rā॒ṣṭrame॒va bha̭vati || 21 ||
yanna pra̭ti ni॒rvape᳚t | ra॒tnina̭ ā॒śiṣo-'va̭rundhīrann | prati॒ nirva̭pati | indrā̭ya su॒trāmṇḙ puro॒ḍāśa॒-mekā̭daśakapālam | indrā̭yāgṃho॒muce᳚ | ā॒śiṣa̭ e॒vāva̭rundhe | a॒ya-nno॒ rājā̭ vṛtra॒hā rājā̭ bhū॒tvā vṛ॒traṃ-va~̭ddhyā॒dityā̭ha | ā॒śiṣa̭me॒vaitāmāśā᳚ste | mai॒trā॒-bā॒r॒ha॒spa॒tya-mbha̭vati | śve॒tāyai᳚ śve॒tava̭thsāyai du॒gdhe || 22 ||
bā॒r॒ha॒spa॒tye mai॒tramapi̭ dadhāti | brahma̭ cai॒vāsmai᳚ kṣa॒tra-ñca̭ sa॒mīcī̭ dadhāti | atho॒ brahma̭nne॒va kṣa॒tra-mprati̭ṣṭhāpayati | bā॒r॒ha॒spa॒tyena॒ pūrvḙṇa॒ praca̭rati | mu॒kha॒ta e॒vāsmai॒ brahma॒ sagg​śya̭ti | atho॒ brahma̭nne॒va kṣa॒tra-ma॒nvāra̭mbhayati | sva॒ya॒-ṅkṛ॒tā vedi̭rbhavati | sva॒ya॒di॒nna-mba॒r॒hiḥ | sva॒ya॒kṛ॒nta i॒ddhmaḥ | ana̭bhijitasyā॒-bhiji̭tyai | tasmā॒-drājñā॒mara̭ṇya-ma॒bhiji̭tam | saiva śve॒tā śve॒tava̭thsā॒ dakṣi̭ṇā॒ samṛ̭ddhyai || 23 ||
(ra॒tni॒tvāya॒ - samṛ̭ddhyai - paṣṭhau॒hi dakṣi̭ṇā॒ samṛ̭ddhyai - grāma॒ṇyo̭ gṛ॒he - bhā̭gadu॒ghasya̭ gṛ॒he-bha̭vati - du॒gdhḙ - 'bhiji̭tyai॒ dve ca̭) (a. 3)
anuvākaṃ 4 - devasuvāṃ havīṃṣi
de॒va॒su॒vāme॒tāni̭ ha॒vīgṃṣi̭ bhavanti | e॒tāva̭nto॒ vai de॒vānāgṃ̭ sa॒vāḥ | ta e॒vāsmai̭ sa॒vā-npraya̭cchanti | ta ḙnagṃ suvante | a॒gnire॒vaina̭-ṅgṛ॒hapa̭tīnāgṃ suvate | somo॒ vana॒spatī̭nām | ru॒draḥ pa̭śū॒nām | bṛha॒spati̭-rvā॒cām | indro᳚ jye॒ṣṭhānā᳚m | mi॒tra-ssa॒tyānā᳚m || 24 ||
varṷṇo॒ dharma̭patīnām | e॒tade॒va sarva̭-mbhavati | sa॒vi॒tā tvā᳚ prasa॒vānāgṃ̭ suvatā॒miti॒ hasta̭-ṅgṛhṇāti॒ prasū᳚tyai | ye dḙvā deva॒suva॒-ssthetyā̭ha | ya॒thā॒ ya॒jure॒vai tat | ma॒ha॒te kṣa॒trāya̭ maha॒ta ādhi̭patyāya maha॒te jāna̭rājyā॒yetyā̭ha | ā॒śiṣa̭me॒vaitāmāśā᳚ste | e॒ṣa vo̭ bharatā॒ rājā॒ somo॒-'smāka̭-mbrāhma॒ṇānā॒gṃ॒ rājetyā̭ha | tasmā॒-thsoma̭rājāno brāhma॒ṇāḥ | prati॒ tyannāma̭ rā॒jyama̭dhā॒yītyā̭ha || 25 ||
rā॒jyame॒vāsmi॒-nprati̭ dadhāti | svā-nta॒nuvaṃ॒-va~rṷṇo aśiśre॒dityā̭ha | va॒ru॒ṇa॒sa॒vame॒vā-va̭rundhe | śuce᳚rmi॒trasya॒ vratyā̭ abhū॒metyā̭ha | śuci̭me॒vainaṃ॒-vra~tya̭-ṅkaroti | ama̭nmahi maha॒ta ṛ॒tasya॒ nāmetyā̭ha | ma॒nu॒ta e॒vaina᳚m | sarve॒ vrātā॒ varṷṇasyā bhūva॒nnityā̭ha | sarva̭vrātame॒vaina̭-ṅkaroti | vi mi॒tra evai॒rarā̭ti-matārī॒dityā̭ha || 26 ||
arā̭time॒vaina̭-ntārayati | asṷ̄ṣudanta ya॒jñiyā̭ ṛ॒tenetyā̭ha | sva॒daya̭tye॒vaina᳚m | vyṷ tri॒to ja̭ri॒māṇa̭-nna āna॒ḍityā̭ha | āyṷre॒vāsmi̭-ndadhāti | dvābhyāṃ॒-vi~mṛ̭ṣṭe | dvi॒pā-dyaja̭mānaḥ॒ prati̭ṣṭhityai | a॒gnī॒ṣo॒mīya̭sya॒ caikā̭daśakapālasya devasu॒vā-ñca̭ ha॒viṣā̭ma॒gnaye᳚ sviṣṭa॒kṛtḙ sa॒mava̭dyati | de॒vatā̭bhire॒vaina̭-mubha॒yataḥ॒ pari̭gṛhṇāti | vi॒ṣṇu॒kra॒mān kra̭mate( ) | viṣṇṷre॒va bhū॒tvemā~llo॒kā-na॒bhija̭yati || 27 ||
(sa॒tyānā̭-madhā॒yītyā̭-hātārī॒dityā̭ha-kramata॒ eka̭-ñca) (a. 4)
anuvākaṃ 5 - abhiṣekārthamapāṅgrahagrahaṇam
a॒rtheta॒-sstheti̭ juhoti | āhṷtyai॒vainā̭ ni॒ṣkrīya̭ gṛhṇāti | atho̭ ha॒viṣkṛ̭tānāme॒vābhighṛ̭tānā-ṅgṛhṇāti | vaha̭ntīnā-ṅgṛhṇāti | e॒tā vā a॒pāgṃ rā॒ṣṭram | rā॒ṣṭrame॒vāsmai̭ gṛhṇāti | atho॒ śriya̭me॒vaina̭ma॒bhi va̭hanti | a॒pā-mpati̭ra॒sītyā̭ha | mi॒thu॒name॒vākaḥ̭ | vṛṣā᳚-'syū॒rmirityā̭ha || 28 ||
ū॒rmi॒manta̭me॒vaina̭-ṅkaroti | vṛ॒ṣa॒se॒no̭-'sītyā̭ha | senā̭me॒vāsya॒ sagg​śya̭ti | vra॒ja॒kṣita॒-ssthetyā̭ha | e॒tā vā a॒pāṃ-vi~śaḥ̭ | viśa̭me॒vāsmai॒ paryṷ̄hati | ma॒rutā॒moja॒-ssthetyā̭ha | annaṃ॒-vai~ ma॒rutaḥ̭ | anna̭me॒vā va̭rundhe | sūrya̭varcasa॒-ssthetyā̭ha || 29 ||
rā॒ṣṭrame॒va va̭rca॒svya̭kaḥ | sūrya̭tvacasa॒-ssthetyā̭ha | sa॒tyaṃ-vā~ e॒tat | ya-dvar​ṣa̭ti | anṛ̭taṃ॒-ya~dā॒tapa̭ti॒ var​ṣa̭ti | sa॒tyā॒nṛ॒te e॒vāva̭rundhe | nainagṃ̭ satyānṛ॒te ṷdi॒te higg̭staḥ | ya e॒vaṃ-ve~da̭ | māndā॒-ssthetyā̭ha | rā॒ṣṭrame॒va bra̭hmavarca॒sya̭kaḥ || 30 ||
vāśā॒-ssthetyā̭ha | rā॒ṣṭrame॒va va॒śya̭kaḥ | śakva̭rī॒-ssthetyā̭ha | pa॒śavo॒ vai śakva̭rīḥ | pa॒śūne॒vāva̭ rundhe | vi॒śva॒bhṛta॒-ssthetyā̭ha | rā॒ṣṭrame॒va pa̭ya॒svya̭kaḥ | ja॒na॒bhṛta॒-ssthetyā̭ha | rā॒ṣṭrame॒vendri̭yā॒vya̭kaḥ | a॒gnestḙja॒syā᳚-ssthetyā̭ha || 31 ||
rā॒ṣṭrame॒va tḙja॒svya̭kaḥ | a॒pāmoṣa̭dhīnā॒gṃ॒ rasa॒-ssthetyā̭ha | rā॒ṣṭrame॒va ma̭dha॒vya̭makaḥ | sā॒ra॒sva॒ta-ṅgraha̭-ṅgṛhṇāti | e॒ṣā vā a॒pā-mpṛ॒ṣṭham | yathsara̭svatī | pṛ॒ṣṭhame॒vainagṃ̭ samā॒nānā᳚-ṅkaroti | ṣo॒ḍa॒śabhi̭-rgṛhṇāti | ṣoḍa̭śakalo॒ vai purṷṣaḥ | yāvā̭ne॒va purṷṣaḥ | tasmi̭n vī॒rya̭-ndadhāti | ṣo॒ḍa॒śabhi̭-rju॒hoti̭ ṣoḍa॒śabhi̭-rgṛhṇāti | dvātrigṃ̭śa॒-thsampa̭dyante | dvātrigṃ̭śadakṣarā 'nu॒ṣṭuk | vāga̭nu॒ṣṭu-phsarvā̭ṇi॒ chandāgṃ̭si | vā॒caivaina॒gṃ॒ sarvḙbhi॒-śchando̭bhi-ra॒bhiṣi̭ñcati || 32 ||
(ū॒rmirityā̭ha॒ - sūrya̭varcasa॒-ssthetyā̭ha - brahmavarca॒sya̭ka - steja॒syā᳚-ssthetyā̭hai॒va - purṷṣa॒-ṣṣaṭca̭) (a. 5)
anuvākaṃ 6 - abhiṣekārthajalasaṃskāraḥ
devī̭rāpa॒-ssa-mmadhṷmatī॒-rmadhṷmatībhi-ssṛjyaddhva॒mityā̭ha | brahma̭ṇai॒vainā॒-ssagṃ sṛ̭jati | anā̭dhṛṣṭā-ssīda॒tetyā̭ha | brahma̭ṇai॒vainā᳚-ssādayati | a॒nta॒rā hotṷśca॒ dhiṣṇi̭ya-mbrāhmaṇāccha॒gṃ॒ sina̭śca sādayati | ā॒gne॒yo vai hotā᳚ | ai॒ndro brā᳚hmaṇāccha॒gṃ॒sī | teja̭sā cai॒vendri॒yeṇa̭ cobha॒yato̭ rā॒ṣṭra-mpari̭gṛhṇāti | hira̭ṇye॒no-tpṷnāti | āhṷtyai॒ hi pa॒vitrā᳚bhyāmutpu॒nanti॒ vyāvṛ̭ttyai || 33 ||
śa॒tamā̭na-mbhavati | śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭yaḥ | āyṷṣye॒vendri॒ye prati̭tiṣṭhati | ani̭bhṛṣṭama॒sītyā̭ha | ani̭bhṛṣṭa॒gg॒ hyḙtat | vā॒co bandhu॒rityā̭ha | vā॒co hyḙṣa bandhuḥ̭ | ta॒po॒jā ityā̭ha | ta॒po॒jā hyḙtat | soma̭sya dā॒trama॒sītyā̭ha || 34 ||
soma̭sya॒ hyḙtaddā॒tram | śu॒krā vaḥ̭ śu॒kreṇotpṷnā॒mītyā̭ha | śu॒krā hyāpaḥ̭ | śu॒kragṃ hira̭ṇyam | ca॒ndrāśca॒ndreṇetyā̭ha | ca॒ndrā hyāpaḥ̭ | ca॒ndragṃ hira̭ṇyam | a॒mṛtā̭ a॒mṛte॒netyā̭ha | a॒mṛtā॒ hyāpaḥ̭ | a॒mṛta॒gṃ॒ hira̭ṇyam || 35 ||
svāhā̭ rāja॒sūyā॒yetyā̭ha | rā॒ja॒sūyā̭ya॒ hyḙnā utpu॒nāti̭ | sa॒dha॒mādo᳚ dyu॒mninī॒rūrja̭ e॒tā iti̭ vāru॒ṇyarcā gṛ̭hṇāti | va॒ru॒ṇa॒sa॒vame॒vā va̭rundhe | eka̭yā gṛhṇāti | e॒ka॒dhaiva yaja̭māne vī॒rya̭-ndadhāti | kṣa॒trasyolba̭masi kṣa॒trasya॒ yoni̭ra॒sīti̭ tā॒rpya-ñco॒ṣṇīṣa̭-ñca॒ praya̭cchati sayoni॒tvāya̭ | eka̭śatena darbhapuñjī॒laiḥ pa̭vayati | śa॒tāyu॒rvai purṷṣa-śśa॒tavī᳚ryaḥ | ā॒tmaika̭śa॒taḥ || 36 ||
yāvā̭ne॒va purṷṣaḥ | tasmi̭n vī॒rya̭-ndadhāti | daddhyā̭śayati | i॒ndri॒yame॒vā-va̭rundhe | u॒du॒mbara̭-māśayati | a॒nnādya॒syāva̭ ruddhyai | śaṣpā᳚ṇyāśayati | surā̭bali-me॒vaina̭-ṅkaroti | ā॒vida̭ e॒tā bha̭vanti | ā॒vida̭me॒vaina̭-ṅgamayanti || 37 ||
a॒gnire॒vaina॒-ṅgār​ha̭patyenāvati | indra̭ indri॒yeṇa̭ | pū॒ṣā pa॒śubhiḥ̭ | mi॒trāvarṷṇau prāṇāpā॒nābhyā᳚m | indro̭ vṛ॒trāya॒ vajra॒muda̭yacchat | sa diva̭malikhat | so᳚-'rya॒mṇaḥ panthā̭ abhavat | sa āvi̭nne॒ dyāvā̭pṛthi॒vī dhṛ॒tavra̭te॒ iti॒ dyāvā̭pṛthi॒vī upā̭dhāvat | sa ā॒bhyāme॒va prasṷ̄ta॒ indro̭ vṛ॒trāya॒ vajra॒-mprāha̭rat | āvi̭nne॒ dyāvā̭pṛthi॒vī dhṛ॒tavra̭te॒ iti॒ yadāha̭ || 38 ||
ā॒bhyāme॒va prasṷ̄to॒ yaja̭māno॒ vajra॒-mbhrātṛ̭vyāya॒ praha̭rati | āvi̭nnā de॒vyadi̭ti-rviśvarū॒pītyā̭ha | i॒yaṃ-vai~ de॒vyadi̭ti-rviśvarū॒pī | a॒syāme॒va prati̭ tiṣṭhati | āvi̭nno॒-'yama॒sāvā̭muṣyāya॒ṇo᳚-'syāṃ-vi~॒śya̭smi-nrā॒ṣṭra ityā̭ha | vi॒śaivainagṃ̭ rā॒ṣṭreṇa॒ sama̭rdhayati | ma॒ha॒te kṣa॒trāya̭ maha॒ta ādhi̭patyāya maha॒te jāna̭rājyā॒yetyā̭ha | ā॒śiṣa̭me॒vaitāmāśā᳚ste | e॒ṣa vo̭ bharatā॒ rājā॒ somo॒-'smāka̭-mbrāhma॒ṇānā॒gṃ॒ rājetyā̭ha | tasmā॒-thsoma̭rājāno brāhma॒ṇāḥ || 39 ||
indra̭sya॒ vajro̭-'si॒ vārtra̭ghna॒ iti॒ dhanuḥ॒ praya̭cchati॒ viji̭tyai | śa॒tru॒bādha̭nā॒-ssthetīṣūṋ | śatrṷ̄ne॒vāsya̭ bādhante | pā॒ta mā᳚ pra॒tyañca̭-mpā॒ta mā̭ ti॒ryañca̭ma॒nvañca̭-mmā pā॒tetyā̭ha | ti॒sro vai śa̭ra॒vyāḥ᳚ | pra॒tīcī̭ ti॒raścya॒nūcī᳚ | tābhya̭ e॒vaina̭-mpānti | di॒gbhyo mā̭ pā॒tetyā̭ha | di॒gbhya e॒vaina̭-mpānti | viśvā᳚bhyo mā nā॒ṣṭrābhyaḥ̭ pā॒tetyā̭ha | apa̭rimitāde॒vaina̭-mpānti | hira̭ṇyavarṇāvu॒ṣasāṃ᳚-vi~ro॒ka iti̭ tri॒ṣṭubhā̭ bā॒hū u-dgṛ̭hṇāti | i॒ndri॒yaṃ-vai~ vī॒rya̭-ntri॒ṣṭuk | i॒ndri॒yame॒va vī॒rya̭-mu॒pari̭ṣṭādā॒tman-dha̭tte || 40 ||
(vyāvṛ̭ttyai-dā॒trama॒sītyā̭hā॒-mṛta॒gṃ॒ hira̭ṇya-mekaśa॒to-ga̭maya॒n-tyāha̭-brāhmā॒ṇā-nā॒ṣṭrābhyaḥ̭ pā॒tetyā̭ha ca॒tvāri̭ ca) (a. 6)
anuvākaṃ 7 - digvyāsthāpanam
diśo॒ vyāsthā̭payati | di॒śāma॒bhiji̭tyai | yada̭nu pra॒krāme᳚t | a॒bhi diśo̭ jayet | uttu mā᳚dyet | mana॒sā-'nu॒ prakrā̭mati | a॒bhi diśo̭ jayati | nonmā᳚dyati | sa॒midha॒mā ti॒ṣṭhetyā̭ha | teja̭ e॒vāva̭rundhe || 41 ||
u॒grāmā ti॒ṣṭhetyā̭ha | i॒ndri॒yame॒vāva̭ rundhe | vi॒rāja॒mā ti॒ṣṭhetyā̭ha | a॒nnādya̭me॒vāva̭ rundhe | udī̭cī॒mā ti॒ṣṭhetyā̭ha | pa॒śūne॒vāva̭ rundhe | ū॒rdhvāmā ti॒ṣṭhetyā̭ha | su॒va॒rgame॒va lo॒ka-ma॒bhija̭yati | anūjji̭hīte | su॒va॒rgasya̭ lo॒kasya॒ sama̭ṣṭyai || 42 ||
mā॒ru॒ta e॒ṣa bha̭vati | annaṃ॒-vai~ ma॒rutaḥ̭ | anna̭me॒vāva̭ rundhe | eka̭vigṃśatikapālo bhavati॒ prati̭ṣṭhityai | yo̭-'raṇye 'nuvā॒kyo̭ ga॒ṇaḥ | ta-mma̭ddhya॒ta upa̭dadhāti | grā॒myaire॒va pa॒śubhi̭-rāra॒ṇyā-npa॒śū-npari̭gṛhṇāti | tasmā᳚-dgrā॒myaiḥ pa॒śubhi̭rāra॒ṇyāḥ pa॒śavaḥ॒ pari̭gṛhītāḥ | pṛthi̭rvai॒nyaḥ | a॒bhya̭ṣicyata || 43 ||
sa rā॒ṣṭra-nnābha̭vat | sa e॒tāni̭ pā॒rthānya̭paśyat | tānya̭juhot | tairvai sa rā॒ṣṭra-ma̭bhavat | yatpā॒rthāni̭ ju॒hoti̭ | rā॒ṣṭrame॒va bha̭vati | bā॒r॒ha॒spa॒tya-mpūrvḙṣāmutta॒ma-mbha̭vati | ai॒ndramutta̭reṣā-mpratha॒mam | brahma̭ cai॒vāsmai᳚ kṣa॒tra-ñca̭ sa॒mīcī̭ dadhāti | atho॒ brahma̭nne॒va kṣa॒tra-mprati̭ṣṭhāpayati || 44 ||
ṣaṭpu॒rastā̭-dabhiṣe॒kasya̭ juhoti | ṣaḍu॒pari̭ṣṭāt | dvāda̭śa॒ sa-mpa̭dyante | dvāda̭śa॒ māsā᳚-ssaṃ​va~thsa॒raḥ | saṃ॒​va~॒thsa॒raḥ khalu॒ vai de॒vānā॒-mpūḥ | de॒vānā̭me॒va pura̭-mmaddhya॒to vyava̭sarpati | tasya॒ na kuta̭śca॒ nopā᳚vyā॒dho bha̭vati | bhū॒tānā॒-mave᳚ṣṭī-rjuhoti | atrā᳚tra॒ vai mṛ॒tyu-rjā̭yate | yatra̭ yatrai॒va mṛ॒tyu-rjāya̭te | tata̭ e॒vaina॒mava̭yajate | tasmā᳚-drāja॒sūyḙnejā॒na-ssarva॒māyṷreti | sarve॒ hya̭sya mṛ॒tyavo-'ve᳚ṣṭāḥ | tasmā᳚-drāja॒sūyḙnejā॒no nābhica̭rita॒vai | pra॒tyagḙna-mabhicā॒ra-sstṛ̭ṇute || 45 ||
(ru॒ndhe॒-sama̭ṣṭyā-asicyata-sthāpayati॒-jāya̭te॒ pañca̭ ca) (a. 7)
anuvākaṃ 8 - abhiṣekaḥ
soma̭sya॒ tviṣi̭rasi॒ tavḙva me॒ tviṣi̭rbhūyā॒diti̭ śārdūlaca॒rmopa̭stṛṇāti | yaiva some॒ tviṣiḥ̭ | yā śā᳚rdū॒le | tāme॒vāva̭ rundhe | mṛ॒tyorvā e॒ṣa varṇaḥ̭ | yacchā᳚rdū॒laḥ | a॒mṛta॒gṃ॒ hira̭ṇyam | a॒mṛta̭masi mṛ॒tyormā̭ pā॒hīti॒ hira̭ṇya॒-mupā᳚syati | a॒mṛta̭me॒va mṛ॒tyora॒nta-rdha̭tte | śa॒tamā̭na-mbhavati || 46 ||
śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭yaḥ | āyṷṣye॒vendri॒ye prati̭ tiṣṭhati | di॒dyonmā̭ pā॒hītyu॒pari̭ṣṭā॒dadhi॒ nida̭dhāti | u॒bha॒yata̭ e॒vāsmai॒ śarma̭ dadhāti | ave᳚ṣṭā danda॒śūkā॒ iti̭ klī॒bagṃ sīsḙna viddhyati | da॒nda॒śūkā̭-ne॒vāva̭ yajate | tasmā᳚-tklī॒ba-nda̭nda॒śūkā॒ dagṃśṷkāḥ | nira̭sta॒-nnamṷce॒-śśira॒ iti̭ lohitāya॒sa-nnira̭syati | pā॒pmāna̭me॒va namṷci-nni॒rava̭dayate | prā॒ṇā ā॒tmanaḥ॒ pūrvḙ-'bhi॒ṣicyā॒ ityā̭huḥ || 47 ||
somo॒ rājā॒ varṷṇaḥ | de॒vā dha̭rma॒suva̭śca॒ ye | te te॒ vācagṃ̭ suvantā॒-nte te᳚ prā॒ṇagṃ sṷvantā॒mityā̭ha | prā॒ṇāne॒vātmanaḥ॒ pūrvā̭-na॒bhiṣi̭ñcati | ya-dbrū॒yāt | a॒gnestvā॒ teja̭sā॒ 'bhiṣi̭ñcā॒mīti̭ | te॒ja॒svyḙva syā᳚t | du॒ścarmā॒ tu bha̭vet | soma̭sya tvā dyu॒mnenā॒-bhiṣi̭ñcā॒mītyā̭ha | sau॒myo vai de॒vata̭yā॒ purṷṣaḥ || 48 ||
svayai॒vaina̭-nde॒vata̭yā॒-'bhiṣi̭ñcati | a॒gne-steja॒setyā̭ha | teja̭ e॒vāsmi̭-ndadhāti | sūrya̭sya॒ varca॒setyā̭ha | varca̭ e॒vāsmi̭-ndadhāti | indra̭sye-ndri॒yeṇetyā̭ha | i॒ndri॒yame॒vāsmi̭-ndadhāti | mi॒trāvarṷṇayo-rvī॒ryḙṇetyā̭ha | vī॒rya̭me॒vāsmi̭-ndadhāti | ma॒rutā॒moja॒setyā̭ha || 49 ||
oja̭ e॒vāsmi̭-ndadhāti | kṣa॒trāṇā᳚-ṅkṣa॒trapa̭tira॒sītyā̭ha | kṣa॒trāṇā̭me॒vaina̭-ṅkṣa॒trapa̭ti-ṅkaroti | ati̭ di॒vaspā॒hītyā̭ha | atya॒nyā-npā॒hīti॒ vāvaitadā̭ha | sa॒māva̭vṛtranna-dha॒rāgudī̭cī॒-rityā̭ha | rā॒ṣṭrame॒vāsmi̭-ndhru॒vama̭kaḥ | u॒ccheṣa̭ṇena juhoti | u॒ccheṣa̭ṇabhāgo॒ vai ru॒draḥ | bhā॒ga॒dheyḙnai॒va ru॒dra-nni॒rava̭dayate || 50 ||
uda̭mpa॒retyāgnī᳚ddhre juhoti | e॒ṣā vai ru॒drasya॒ dik | svāyā̭me॒va di॒śi ru॒dra-nni॒rava̭dayate | rudra॒ yatte॒ krayī॒ para॒-nnāmetyā̭ha | yadvā a̭sya॒ krayī॒ para॒-nnāma̭ | tena॒ vā e॒ṣa hi̭nasti | yagṃ hi॒nasti̭ | tenai॒vainagṃ̭ sa॒ha śa̭mayati | tasmai̭ hu॒tama̭si ya॒meṣṭa̭ma॒sītyā̭ha | ya॒māde॒vāsya̭ mṛ॒tyumava̭yajate || 51 ||
prajā̭pate॒ na tvade॒tānya॒nya iti॒ tasyai̭ gṛ॒he jṷhuyāt | yā-ṅkā॒mayḙta rā॒ṣṭrama̭syai pra॒jā syā॒diti̭ | rā॒ṣṭrame॒vāsyai᳚ pra॒jā bha̭vati | pa॒rṇa॒-mayḙnā-ddhva॒ryu-ra॒bhiṣi̭ñcati | bra॒hma॒va॒rca॒same॒vāsmi॒n-tviṣi̭-ndadhāti | audṷmbareṇa rāja॒nyaḥ̭ | ūrja̭me॒vāsmi̭-nna॒nnādya̭-ndadhāti | āśva̭tthena॒ vaiśyaḥ̭ | viśa̭me॒vāsmi॒-npuṣṭi̭-ndadhāti | naiya̭grodhena॒ janyaḥ̭( ) | mi॒trāṇye॒vāsmai̭ kalpayati | atho॒ prati̭ṣṭhityai || 52 ||
(bha॒va॒ - tyā॒huḥ॒ - purṷṣa॒ - oja॒setyā̭ha - ni॒rava̭dayate - yajate॒ - janyo॒ dve ca̭) (a. 8)
anuvākaṃ 9 - sthārohaṇam. vijayaḥ
indra̭sya॒ vajro̭-'si॒ vārtra̭ghna॒ iti॒ ratha̭mu॒pāva̭harati॒ viji̭tyai | mi॒trāvarṷṇayostvā praśā॒stroḥ pra॒śiṣā̭ yuna॒jmītyā̭ha | brahma̭ṇai॒vaina̭-nde॒vatā᳚bhyāṃ-yu~nakti | pra॒ṣṭi॒vā॒hinaṃ̭-yu~nakti | pra॒ṣṭi॒vā॒hī vai dḙvara॒thaḥ | de॒va॒ra॒tha-me॒vāsmai̭ yunakti | trayo-'śvā̭ bhavanti | ratha̭ścatu॒rthaḥ | dvau sa̭vyeṣṭhasāra॒thī | ṣaṭ-thsampa̭dyante || 53 ||
ṣaḍvā ṛ॒tavaḥ̭ | ṛ॒tubhi̭re॒vainaṃ̭-yu~nakti | vi॒ṣṇu॒kra॒mān-kra̭mate | viṣṇṷre॒va bhū॒tvemān ~lo॒kāna॒bhija̭yati | yaḥ, kṣa॒triyaḥ॒ prati̭hitaḥ | so᳚-'nvāra̭bhate | rā॒ṣṭrame॒va bha̭vati | tri॒ṣṭubhā॒ 'nvāra̭bhate | i॒ndri॒yaṃ-vai~ tri॒ṣṭuk | i॒ndri॒yame॒va yaja̭māne dadhāti || 54 ||
ma॒rutā᳚-mprasa॒ve jḙṣa॒mityā̭ha | ma॒rudbhi̭re॒va prasṷ̄ta॒ ujja̭yati | ā॒pta-mmana॒ ityā̭ha | yade॒va mana॒saiphsī᳚t | tadā̭pat | rā॒ja॒nya̭-ñjināti | anā᳚krānta e॒vākra̭mate | vi vā e॒ṣa i̭ndri॒yeṇa̭ vī॒ryḙṇardhyate | yo rā̭ja॒nya̭-ñji॒nāti̭ | sama॒hami̭ndri॒yeṇa̭ vī॒ryḙṇetyā̭ha || 55 ||
i॒ndri॒yame॒va vī॒rya̭mā॒tman-dha̭tte | pa॒śū॒nā-mma॒nyura̭si॒ tavḙva me ma॒nyurbhṷ̄yā॒diti॒ vārā̭hī upā॒nahā॒vupa̭ muñcate | pa॒śū॒nāṃ-vā~ e॒ṣa ma॒nyuḥ | ya-dva̭rā॒haḥ | tenai॒va pa̭śū॒nā-mma॒nyumā॒tma-ndha̭tte | a॒bhi vā i॒yagṃ sṷṣuvā॒ṇa-ṅkā̭mayate | tasye᳚śva॒rendri॒yaṃ-vī~॒rya̭mādā̭toḥ | vārā̭hī upā॒nahā॒vupa̭muñcate | a॒syā e॒vāntardha̭tte | i॒ndri॒yasya̭ vī॒rya̭syānā᳚ttyai || 56 ||
namo̭ mā॒tre pṛ̭thi॒vyā ityā॒hāhigṃ̭ sāyai | iya̭da॒syā-yṷra॒syāyṷrme dhe॒hītyā̭ha | āyure॒vātman-dha̭tte | ūrga॒syūrja̭-mme dhe॒hītyā̭ha | ūrja̭ma॒vātma-ndha̭tte | yuṅṅa̭si॒ varco̭-'si॒ varco॒ mayi̭ dhe॒hītyā̭ha | varca̭ e॒vātma-ndha̭tte | e॒ka॒dhā bra॒hmaṇa॒ upa̭ harati | e॒ka॒dhaiva yaja̭māna॒ āyu॒rūrjaṃ॒-va~rco̭ dadhāti | ra॒tha॒vi॒mo॒ca॒nīyā̭ juhoti॒ prati̭ṣṭhityai || 57 ||
trayo-'śvā̭ bhavanti | ratha̭ścatu॒rthaḥ | tasmā᳚-cca॒turjṷhoti | yadu॒bhau sa॒hāva॒tiṣṭhḙtām | sa॒mā॒naṃ-lo~॒kami̭yātām | sa॒ha sa̭graṃhī॒trā ra̭tha॒vāha̭ne॒ ratha॒māda̭dhāti | su॒va॒rgāde॒vainaṃ̭-lo~॒kāda॒ntarda̭dhāti | ha॒gṃ॒sa-śśṷci॒ṣadityā da̭dhāti | brahma̭ṇai॒vaina̭-mupāva॒hara̭ti | brahma॒ṇā ''da̭dhāti | ati̭cchanda॒sā ''da̭dhāti | ati̭cchandā॒ vai sarvā̭ṇi॒ chandāgṃ̭si | sarvḙbhire॒vaina॒-ñchando̭bhi॒-rāda̭dhāti | var​ṣma॒ vā e॒ṣā chanda̭sām | yadati̭cchandāḥ | yadati̭cchandasā॒ dadhā̭ti | var​ṣmai॒vainagṃ̭ samā॒nānā᳚-ṅkaroti || 58 ||
(pa॒dya॒nte॒ - da॒dhā॒ti॒ - vī॒ryḙṇetyā॒hā - nā᳚tyai॒ - prati̭ṣṭhityai॒ - brahma॒ṇā-''da̭dhāti sa॒pta ca̭) (a. 9)
anuvākaṃ 10 - āsane samupaveśa-ssarvaissevyatva-ñca
mi॒tro̭-'si॒ varṷṇo॒-'sītyā̭ha | mai॒traṃ-vā~ ahaḥ̭ | vā॒ru॒ṇī rātriḥ̭ | a॒ho॒rā॒trābhyā̭-me॒vaina̭-mu॒pāva̭harati | mi॒tro̭-'si॒ varṷṇo॒sītyā̭ha | mai॒tro vai dakṣi̭ṇaḥ | vā॒ru॒ṇa-ssa॒vyaḥ | vai॒śva॒de॒vyā̭mikṣā᳚ | svame॒vainaṷ bhāga॒dheya̭-mu॒pāva̭harati | sama॒haṃ-vi~śvai᳚rde॒vai-rityā̭ha || 59 ||
vai॒śva॒de॒vyo̭ vai pra॒jāḥ | tā e॒vādyāḥ᳚ kurute | kṣa॒trasya॒ nābhi̭rasi kṣa॒trasya॒ yoni̭-ra॒sītya̭dhīvā॒samā-stṛ̭ṇāti sayoni॒tvāya̭ | syo॒nāmāsī̭da su॒ṣadā॒māsī॒detyā̭ha | ya॒thā॒ ya॒jure॒vai tat | mā tvā̭ higṃsī॒-nmā mā̭ higṃsī॒dityā॒hā-higṃ̭sāyai | niṣa̭sāda dhṛ॒tavra̭to॒ varṷṇaḥ pa॒styā᳚svā sāmrā᳚jyāya su॒kratu॒rityā̭ha | sāmrā᳚jyame॒vainagṃ̭ su॒kratṷ-ṅkaroti | brahmā(3)ntvagṃ rā̭jan-bra॒hmā-'si̭ savi॒tā-'si̭ sa॒tyasa̭va॒ ityā̭ha | sa॒vi॒tāra̭-me॒vainagṃ̭ sa॒tyasa̭va-ṅkaroti || 60 ||
brahmā(3)ntvagṃ rā̭jan-bra॒hmā-'sīndro̭-'si sa॒tyaujā॒ ityā̭ha | indra̭me॒vainagṃ̭ sa॒tyauja̭sa-ṅkaroti | brahmā(3)ntvagṃ rā̭jan-bra॒hmā-'si̭ mi॒tro̭-'si su॒śeva॒ ityā̭ha | mi॒trame॒vainagṃ̭ su॒śeva̭-ṅkaroti | brahmā(3)ntvagṃ rā̭jan-bra॒hmā-'si॒ varṷṇo-'si sa॒tyadha॒rmetyā̭ha | varṷṇame॒vainagṃ̭ sa॒tyadha̭rmāṇa-ṅkaroti | sa॒vi॒tā-'si̭ sa॒tyasa̭va॒ ityā̭ha | gā॒ya॒trī-me॒vaitenā̭bhi॒vyāha̭rati | indro̭-'si sa॒tyaujā॒ ityā̭ha | tri॒ṣṭubha̭-me॒vaitenā̭bhi॒-vyāha̭rati || 61 ||
mi॒tro̭-'si su॒śeva॒ ityā̭ha | jaga̭tī-me॒vaitenā̭bhi॒vyāha̭rati | sa॒tyame॒tā de॒vatāḥ᳚ | sa॒tyame॒tāni॒ chandāgṃ̭si | sa॒tyame॒vāva̭ rundhe | varṷṇo-'si sa॒tyadha॒rmetyā̭ha | a॒nu॒ṣṭubha̭-me॒vaitenā̭bhi॒vyāha̭rati | sa॒tyā॒nṛ॒te vā a̭nu॒ṣṭup | sa॒tyā॒nṛ॒te varṷṇaḥ | sa॒tyā॒nṛ॒te e॒vāva̭rundhe || 62 ||
nainagṃ̭ satyānṛ॒te ṷdi॒te higg̭staḥ | ya e॒vaṃ-ve~da̭ | indra̭sya॒ vajro̭-'si॒ vārtra̭ghna॒ iti॒ sphya-mpraya̭cchati | vajro॒ vai sphyaḥ | vajrḙṇai॒vāsmā̭ avarapa॒ragṃ ra̭ndhayati | e॒vagṃ hi tacchreyaḥ̭ | yada̭smā e॒te raddhyḙyuḥ | diśo॒-'bhya̭yagṃ rājā̭ 'bhū॒diti॒ pañcā॒kṣān-praya̭cchati | e॒te vai sarve-'yāḥ᳚ | apa̭rājāyina-me॒vaina̭-ṅkaroti || 63 ||
o॒da॒namudbrṷvate | pa॒ra॒me॒ṣṭhī vā e॒ṣaḥ | yado̭da॒naḥ | pa॒ra॒māme॒vaina॒gg॒ śriya̭-ṅgamayati | suślo॒kā~(4) suma̭ṅga॒lā~(4) satya̭rā॒jā(3)nityā̭ha | ā॒śiṣa̭me॒vaitāmā śā᳚ste | śau॒na॒-śśe॒pamākhyā̭payate | va॒ru॒ṇa॒pā॒śā-de॒vaina̭-mmuñcati | pa॒ra॒-śśa॒ta-mbha̭vati | śa॒tāyuḥ॒ purṷṣa-śśa॒tendri̭yaḥ( ) | āyṷṣye॒vendri॒ye prati̭tiṣṭhati | mā॒ru॒tasya॒ caika̭vigṃśatikapālasya vaiśvade॒vyai cā॒mikṣā̭yā a॒gnaye᳚ sviṣṭa॒kṛtḙ sa॒mava̭dyati | de॒vatā̭bhire॒vaina̭-mubha॒yataḥ॒ pari̭gṛhṇāti | a॒pā-nnaptre॒ svāho॒rjo naptre॒ svāhā॒-'gnayḙ gṛ॒hapa̭taye॒ svāheti̭ ti॒sra āhṷtī-rjuhoti | traya̭ i॒me lo॒kāḥ | e॒ṣvḙva lo॒keṣu॒ prati̭ tiṣṭhati || 64 ||
(de॒vairityā̭ha - sa॒tyasa̭va-ṅkaroti - tri॒ṣṭubha̭me॒vaitenā̭bhi॒ vyāha̭rati- satyānṛ॒te e॒vāva̭rundhe - karoti - śa॒tendri̭ya॒-ṣṣaṭca̭) (a. 10)
(e॒ta-dbrā᳚hmaṇāni - dhā॒tre - rā॒tnināṃ᳚ - devasu॒vā - ma॒rtheto॒ - devī॒--r diśaḥ॒ - soma॒sye - ndra̭sya - mi॒tro daśa̭)
(e॒ta-dbrā᳚hmaṇāni - vaiṣṇa॒va-ntri̭kapā॒la - mannaṃ॒-vai~ pū॒ṣā - vāśā॒-ssthetyā̭ha॒ - diśo॒ vyāsthā̭paya॒ - tyuda̭mpa॒retya॒ - brahmā(3)ntvagṃ rā̭ja॒-ñcatṷṣṣaṣṭiḥ
(e॒ta-dbrā᳚hmaṇāni॒ - prati̭ tiṣṭhati)
|| hariḥ̭ om ||
|| kṛṣṇa yajurvedīya taittirīya brāhmaṇe prathamāṣṭake saptamaḥ prapāṭhaka-ssamāptaḥ ||